मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २०७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 207

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

श्रृणु राजन्यथा स्पष्टमेतत्ते कथयाम्यहम् ।

येन ते सर्वसंदेहा यास्यन्त्यलममूलताम्

॥१॥

सर्वे तावज्जगद्भावा असद्रूपाः सदैव हि ।

सद्रूपाश्च सदैवेमे यथासवेदनं स्थितेः

॥२॥

इदमित्थमिति प्रोता यत्र संवित्तदेव तत् ।

भवत्यवश्यं तत्त्वङ्ग सदेवास्त्वसदेव वा

॥३॥

ईदृक्स्वभावा संवित्तिस्तया देहो विभाव्यते ।

एक एव स्वरूपेण तस्यास्ते न च तद्विदा

॥४॥

विदमेव विदुर्देहं स्वप्नादावितरेतरा ।

संवित्काचित्संभवति न चान्यास्ति शरीरता

॥५॥

आश्रितस्वप्नसंदर्शस्तथेदं भासते जगत् ।

समस्तकारणाभावात्सर्गादावन्यतात्र का

॥५॥

एवं यदेव विमलं वेदनं ब्रह्मसंज्ञितम् ।

तदेवेदं जगद्भाति तत्केव जगतोऽन्यता

॥७॥

एवं पूर्वापरं शुद्धमविकार्यजगत्स्थितेः ।

लोकवेदमहाशास्त्रैरनुभूतमुदाहृतम्

॥८॥

अपलाप्यैव ये मूढा अन्धकूपकमेकवत् ।

समस्तभूतसंवित्तौ रूढपूर्णं महात्मभिः

॥९॥

वर्तमानानुभवनमात्रमोहप्रमाणकाः ।

शरीरकारणा संविदिति मोहमुपागताः

॥१०॥

उन्मत्ता एव तेऽज्ञास्ते योग्या नास्मत्कथासु ते ।

अक्षीबक्षीबयोर्मूढबुद्धयोः कैव संकथा

॥११॥

यया विपश्चित्कथया सर्वसंशयसंक्षयः ।

न भवेत्र्त्रिषु लोकेषु ज्ञेया मूर्खकथैव सा

॥१२॥

प्रत्यक्षमात्रनिष्ठोऽसौ मूढास्थ इति वक्ति यत् ।

तेन निर्युक्तिनोक्तेन शिलासदृशवृत्तिना

॥१३॥

प्रोक्तः सर्वविरुद्धेन सोऽज्ञः कूपान्धदर्दुरः ।

पूर्वापरधियं त्यक्त्वा वर्तमाने मतिस्थितः

॥१४॥

वेदा लोकादयश्चैते पृष्टाः स्वानुभवान्विताम् ।

वदन्तीमां दृशं सर्वे यथा नश्यन्ति संशयाः

॥१५॥

संविदेव शरीरं चेच्छवं कस्मान्न चेतति ।

इति यस्य मतिस्तस्मै मूढायेदमिहोच्यते

॥१५॥

ब्रह्मणो ब्रह्मरूपस्य संकल्पनगरं ततम् ।

इदं तावज्जगद्भानं तव स्वप्नपुरं यथा

॥१७॥

तत्समस्तं सदैवेदं चिन्मात्रात्म निरन्तरम् ।

भवत्यत्र न ते भ्रान्तिः स्वे स्वप्ननगरे यथा

॥१८॥

तत्र तावद्दिशः शैलाः पृथ्व्यादि नगरादि च ।

सर्वं चिन्मयमाकाशमिति ते स्वानुभूतिमत्

॥१९॥

संविद्व्योम घनं ब्रह्म तत्सकल्पपुरं विराट् ।

शुद्धसंविन्मयो ब्रह्मा तदिदं जगदुच्यते

॥२०॥

ब्राह्मे संकल्पनगरे यद्यत्संकल्पितं यथा ।

तथानुभूयते तत्तत्त्वत्संकल्पपुरे यथा

॥२१॥

संकल्पनगरे यद्यद्यथा संकल्प्यते तथा ।

तत्तथास्त्येव च तदा त्वत्संकल्पपुरे यथा

॥२२॥

तस्माद्देहस्य नियतौ यथेतौ ब्रह्मणा चिता ।

स्पन्दास्पन्दौ कल्पितौ द्वौ स तथैवानुभूतवान्

॥२३॥

महाप्रलयपर्यन्ते पुनः सर्गः प्रवर्तते ।

समस्तकारणाभावाद्द्रव्यं तावन्न विद्यते

॥२४॥

विमुक्तत्वात्प्रजेशस्यन च संभवति स्मृतिः ।

ब्रह्मैवेयमतो दीप्तिर्जगदित्येव भासते

॥२५॥

तस्मादाद्यात्मना भातं स्वमेव ब्रह्मणा स्वतः ।

जगत्संकल्पनगरमिति बुद्धं च खेन खम्

॥२६॥

यथा संकल्पनगरं चिन्मात्रं भाति केवलम् ।

तथैवाकारणं भाति चिन्मात्रोन्मेषणं जगत्

॥२७॥

शरीरमस्तु वा मास्तु यत्र यत्रास्ति चिन्नभः ।

वेत्त्यात्मानं तत्र तत्र द्वैताद्वैतमयं जगत्

॥२८॥

तस्माद्यथा स्वप्नपुरं यथा संकल्पपत्तनम् ।

तथा पश्यति चिद्व्योम मरणानन्तरं जगत्

॥२९॥

अपृथ्व्यादिमयं भाति पृथ्व्यादिमयवज्जगत् ।

यथेदमाऽऽप्रथमतो मृतस्याप्यखिलं तथा

॥३०॥

देशकालौ न सर्गेण प्रबुद्धस्येव तौ यथा ।

अणुमात्रमपि व्याप्तौ तथैव परलोकिनः

॥३१॥

इदं प्रबुद्धविषये स्वानुभूतमपि स्फुटम् ।

जगन्न विद्यते किंचित्कारणं गगने यथा

॥३२॥

अप्रबुद्धस्यासदेव यथेदं भाति भासुरम् ।

तथैव सर्गवद्भाति व्योमैव परलोकिनः

॥३३॥

शुधराद्रियमाद्याढ्यं खमेव परलोकिनः ।

अभूतपूर्वमाभाति भूतपूर्ववदाततम्

॥३४॥

मृतोऽयं पुनरुत्पन्नो यमलोके शुभाशुभम् ।

भुञ्जेऽहमित्यतिघनं मृतो भ्रान्तिं प्रपश्यति

॥३५॥

मोक्षोपायानादरिणामेष मोहो न शाम्यति ।

बोधादवासनत्वेन मोह एष प्रशाम्यति

॥३६॥

अप्रबुद्धस्य या संवित्सा धर्माधर्मवासना ।

ख एव खात्मिका भाति यत्तदेव जगत्स्थितम्

॥३७॥

न शून्यरूपं न च सत्स्वरूपं

ब्रह्माभिधं भाति जगत्स्वरूपम् ।

तच्चापरिज्ञानवशादनर्थ-

भूतं परिज्ञातवतः शिवात्म

॥३८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० महाप्रश्नोत्तरं नाम सप्ताधिकद्विशततमः सर्गः ।। २०७ ।।