मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १७७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 177

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अकारणकमेवेदं जगद्ब्रह्म परात्पदात् ।

यदि प्रवर्तते नाम स्वप्नसंकल्पनादिवत्

॥१॥

तदकारणतः सिद्धेः संभवेऽन्यदकारणम् ।

कथं न जायते वस्तु क्वचित्किंचित्कदाचन

॥२॥

श्रीवसिष्ठ उवाच ।

यद्यथा कल्पितं येन स संपश्यति तत्तथा ।

कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः

॥३॥

यथेदं कल्पितं दृश्यं मनसा येन तत्तथा ।

वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा

॥४॥

कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः ।

कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान्

॥५॥

अकारणपदार्थत्वं सकारणपदार्थता ।

ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः

॥६॥

यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किंचित्कदाचन ।

तत्कारणविकल्पेन संयोगस्तस्य युज्यते

॥७॥

यत्र सर्वमनाद्यन्तं नानानानात्म भासते ।

ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम्

॥८॥

नेह प्रवर्तते किंचिन्न च नाम निवर्तते ।

स्थितमेकमनाद्यन्तं ब्रह्मेव ब्रह्म खात्मकम्

॥९॥

किं कस्य कारणं केन किमर्थं भवतु क्व वा ।

किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित्

॥१०॥

नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता ।

विद्यते न महाशून्ये न नेति न न नेति च

॥११॥

इदं न किंचित्किंचिद्वा यन्नामास्त्यथ नास्ति वा ।

सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत्

॥१२॥

श्रीराम उवाच ।

अतज्ज्ञविषये ब्रह्मन्कार्ये कारणसंभवे ।

किमकारणतात्म स्यात्कथं वेति वद प्रभो

॥१३॥

श्रीवसिष्ठ उवाच ।

अतज्ज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति ।

असतो व्योमवृक्षस्य विचारः कीदृशस्ततः

॥१४॥

एकबोधमयाः शान्तविज्ञानघनरूपिणः ।

तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा

॥१५॥

अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदङ्गता ।

गते स्वप्नसुषुप्तेऽन्तरिव निद्रात्म केवलम्

॥१६॥

तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते ।

मयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम्

॥१७॥

सन्त्यकारणका एव सन्ति कारणजास्तथा ।

भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा

॥१८॥

सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् ।

सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः

॥१९॥

हृदयंगमतात्यक्तमीश्वरादि प्रकल्प्यते ।

यदत्र किंचिद्दुःस्वादु व्यर्थं वाग्जालमेव तत्

॥२०॥

अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते ।

स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता

॥२१॥

स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् ।

चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः

॥२२॥

स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः ।

परिज्ञातो न मोहाय यथा सर्गास्तथैव च

॥२३॥

शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् ।

कल्प्यते कारणं किंचित्सा मौर्ख्याभिनिवेशिता

॥२४॥

अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् ।

स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम्

॥२५॥

किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् ।

किं च गन्धर्वनगरे पुरे भित्तिषु कारणम्

॥२६॥

धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् ।

देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः

॥२७॥

भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः ।

किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः

॥२८॥

स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि ।

यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पना

॥२९॥

तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् ।

अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम्

॥३०॥

यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः ।

न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात्

॥३१॥

सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् ।

स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते

॥३२॥

अन्या न काचित्कलना दृश्यते सोपपत्तिका ।

अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः

॥३३॥

ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा ।

तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते

॥३४॥

स्पन्दावर्तविवर्तादि निर्मले पवने यथा ।

तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते

॥३५॥

यथानन्तत्वसौषिर्यशून्यत्वादि महाम्बरे ।

स सन्नासन्नबोधात्म तथा सर्गः परापरः

॥३६॥

एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् ।

भावा असन्मया एवमेतेऽनन्यात्मका यतः

॥३७॥

सर्गप्रलयसंस्थानान्येवमात्मनि चिद्धने ।

सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा

॥३८॥

स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा ।

सर्गात्सर्गान्तरान्मास्ते स्वसत्तायामजस्तथा

॥३९॥

पृथ्व्यादिरहितोऽप्येष ब्रह्माकाशो निरामयः ।

अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु

॥४०॥

स्थिता यथास्यां पश्यन्त्यां शब्दा घटपटादयः ।

जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति

॥४१॥

पश्यन्त्यामेव पश्यन्ती यथा भाति तथैव च ।

यथा शब्दास्तथा सर्गाश्चितैव चिति चिन्मयाः

॥४२॥

किं शास्त्रकं तत्रकथाविचारै-

र्निर्वासनं जीवितमेव मोक्षः ।

सर्गे त्वसत्येवमकारणत्वा-

त्सत्येव नास्त्येव न नाम काचित्

॥४३॥

एषा च सिद्धेह हि वासनेति सा बोधसत्तैव निरन्तरैका । नानात्वनानारहितैव भाति स्वप्ने चिदेवेह पुरादिरूपा ।।

४४इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु सत्यवर्णनं नाम सप्तसप्तत्यधिकशततमः सर्गः ।। १७७ ।।