मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ३९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 39

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

संजाताकृत्रिमक्षीणसंसृतिप्रत्ययः पुमान् ।

असंकल्पो न संकल्पं वेत्ति तेनासदेव सः

॥१॥

श्वासान्म्लानिरिवादर्शे कुतोऽप्यहमिति स्थिता ।

विदि साऽकारणं दृष्टा नश्यन्त्याशु न लभ्यते

॥२॥

यस्य क्षीणावरणता शान्तसर्वेहतोदिता ।

परमामृतपूर्णात्मा सत्तयैव स राजते

॥३॥

सर्वसंदेहदुर्ध्वान्तमिहिकामातरिश्वना ।

भाति भास्वद्धिया देशस्तेन पूर्णेन्दुनेव खम्

॥४॥

विसंसृतिर्विसंदेहो लब्धज्योतिर्निरावृतिः ।

शरदाकाशविशदो ज्ञेयो विज्ञायते बुधः

॥५॥

निःसंकल्पो निराधारः शान्तः स्पर्शात्पवित्रताम् ।

अन्तःशीतल आधत्ते ब्रह्मलोकादिवानिलः

॥६॥

असद्रूपोपलम्भानामियं वस्तुस्वभावता ।

यत्स्वर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत्

॥७॥

अविद्यमानमेवेदं जगद्यदनुभूयते ।

असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता

॥८॥

असत्येष्वेव संसारेष्वास्तामर्थः कुतो भवेत् ।

सर्गापवर्गयोः शब्दावेव वन्ध्यासुतोपमौ

॥९॥

जगद्ब्रह्मतया सत्यमनिर्मितमभावितम् ।

अनिष्ठितं चान्यथा तु नाहं नावगतं च तत्

॥१०॥

आत्मस्वभावविश्रान्तेरियं वस्तुस्वभावता ।

यदहंतादिसर्गादिदुःखाद्यनुपलम्भता

॥११॥

क्षणाद्योजनलक्षान्तं प्राप्ते देशान्तरे चितः ।

चेतनेऽयस्य तद्रूपं मार्गमध्ये निरञ्जनम्

॥१२॥

अस्पन्दवातसदृशं खकोशाभासचिन्मयम् ।

अचेत्यं शान्तमुदितं लताविकसनोपमम्

॥१३॥

सर्वस्य जन्तुजातस्य तत्स्वभावं विदुर्बुधाः ।

सर्गोपलम्भो गलति तत्रस्थस्य विवेकिनः

॥१४॥

सुषुप्ते स्वप्नधीर्नास्ति स्वप्ने नास्ति सुषुप्तधीः ।

सर्गनिर्वाणयोर्भ्रान्ती सुषुप्तस्वप्नयोरिव

॥१५॥

भ्रान्तिवस्तुस्वभावोऽसौ न स्वप्नो न सुषुप्तता ।

न सर्गो न च निर्वाणं सत्यं शान्तमशेषतः

॥१६॥

भ्रान्तिस्त्वसन्मात्रमयी प्रेक्षिता चेन्न लभ्यते ।

शुक्तिरूप्यमिवासत्यं किल संप्राप्यते कथम्

॥१७॥

यन्न लब्धं च तन्नास्ति तेन भ्रान्तेरसंभवः ।

स्वभावादुपलम्भोन्यो नास्ति कस्य न कस्यचित्

॥१८॥

स्वभाव एव सर्वस्मै स्वदते किल सर्वदा ।

अनानैव हि नानेव किं वादैः संविभाव्यताम्

॥१९॥

अस्वभावे महद्दुःखं स्वभावे केवलं शमः ।

इति बुद्ध्या विचार्यान्तर्यदिष्टं तद्विधीयताम्

॥२०॥

सूक्ष्मे बीजेऽस्त्यगः स्थूलो दृष्टमित्युपपद्यते ।

शिवे मूर्ते जगन्मूर्तमस्तीत्युत्तमसंकथा

॥२१॥

रूपालोकमनस्कारबुद्धयहन्तादयः परे ।

स्वरूपभूताः सलिले द्रवत्वमिव खात्मकाः

॥२२॥

मूर्तो यथा स्वसदृशैः करोत्यवयवैः क्रियाः ।

आत्मभूतैस्तथा भूतैश्चिदाकाशमकर्तृ सत्

॥२३॥

आत्मस्थादहमित्यादिरस्मदादेरसंसृतेः ।

शब्दोऽर्थभावमुक्तो यः पटहादिषु जायते

॥२४॥

यद्भातं प्रेक्षया नास्ति तन्नास्त्येव निरन्तरम् ।

जगद्रूपमरूपात्म ब्रह्म ब्रह्मणि संस्थितम्

॥२५॥

येषामस्ति जगत्स्वप्नस्ते स्वप्नपुरुषा मिथः ।

न सन्ति ह्यात्मनि मिथो नास्मास्वम्वरपुष्पवत्

॥२६॥

मयि ब्रह्मैकरूपं ते शान्तमाकाशकोशवत् ।

वायोः स्पन्दैरिवाभिन्नैर्व्यवहारैश्च तन्मयि

॥२७॥

अहं तु सन्मयस्तेषां स्वप्नः स्वप्नवतामिव ।

ते तु नूनमसन्तो मे सुषुप्तस्वप्नका इव

॥२८॥

तैस्तु यो व्यवहारो मे तद्ब्रह्म ब्रह्मणि स्थितम् ।

ते यत्पश्यन्ति पश्यन्तु तत्तैरलमलं मम

॥२९॥

अहमात्मनि नैवास्मि ब्रह्मसत्तेयमातता ।

त्वदर्थं समुदेतीव तथारूपैव वागियम्

॥३०॥

अविरुद्धविरुद्धस्य शुद्धसंविन्मयात्मनः ।

न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः

॥३१॥

स्वभावमात्रायत्तेऽस्मिन्बन्धमोक्षक्रमे नृणाम् ।

कदर्थनेत्यहो मोहाद्गोष्पदेऽप्युदधिभ्रमः

॥३२॥

स्वभावसाधने मोक्षेऽभावोपशमरूपिणि ।

न धनान्युपकुर्वन्ति न मित्राणि न च क्रियाः

॥३३॥

तैलबिन्दुर्भवत्युच्चैश्चक्रमप्पतितो यथा ।

तथाशु चेत्यसंकल्पे स्थिता भवति चिज्जगत्

॥३४॥

जाग्रति स्वप्नवृत्तान्तस्थितिर्यादृग्रसा स्मृतौ ।

तादृग्रसाहंत्वजगज्जालसंस्था विवेकिनः

॥३५॥

तेनैवाभ्यासयोगेन याति तत्तनुतां तथा ।

यथा नाहं न संसारः शान्तमेवावशिष्यते

॥३६॥

यदा यदा स्वभावार्कः स्थितिमेति तदा तदा ।

भोगान्धकारो गलति न सन्नप्यनुभूयते

॥३७॥

मोहमहत्तारहितः

स्फुरति मृतौ भवति भासते च तथा ।

बुद्ध्यादिकरणनिकरो

यस्माद्दीपादिवालोकः

॥३८॥

इत्यार्षे श्रीवा० वाल्मीकीये दे० मो० नि० उत्तरार्धे वसिष्ठगीतासु स्वभावविश्रान्तियोगोपदेशो नामैकोनचत्वारिंशः सर्गः ।। ३९ ।।