मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः २९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 29

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

इत्याकर्णयति स्वस्थसमचेतसि राघवे ।

विश्रान्ते स्वात्मनि स्वैरं परमानन्दमागते

॥२॥

तत्रस्थेषु च सर्वेषु तेषूपशमशालिषु ।

राघवस्यात्मविश्रान्तेः स्थित्यर्थं वचनामृतम्

॥२॥

विरराम मुनेर्वारि सस्येष्वम्बुधरादिव ।

अथ याते मुहूर्तार्धे राघवे प्रतिबोधिते

॥३॥

पुनराह तमेवार्थं वसिष्ठो वदतां वरः ।

श्रीवसिष्ठ उवाच ।

राम सम्यक्प्रबुद्धोऽसि स्वात्मानमसि लब्धवान्

॥४॥

एवमेवावलम्ब्यार्थं तिष्ठ नेह पदं कृथाः ।

इदं संसारचक्रं हि नाभौ संकल्पमात्रके

॥५॥

संरोधितायां वहनाद्रघुनन्दन रुद्ध्यते ।

क्षोभितायां मनोनाभ्यामिदं संसारचक्रकम्

॥६॥

प्रयत्नाद्रोधितमपि प्रवहत्येव वेगतः ।

परं पौरुषमास्थाय बलं प्रज्ञां च युक्तितः

॥७॥

नाभिं संसारचक्रस्य चित्तमेव निरोधयेत् ।

प्रज्ञासौजन्ययुक्तेन शास्त्रसंवलितेन च

॥८॥

पौरुषेण न यत्प्राप्तं न तत्क्वचन लभ्यते ।

दैवैकपरतां त्यक्त्वा बालबोधोपकल्पिताम्

॥९॥

निजं प्रयत्नमाश्रित्य चित्तमादौ निरोधयेत् ।

आविरिञ्चात्प्रवृत्तेन भ्रमेणाज्ञानरूपिणा

॥१०॥

असदेव सदाभासमिदमालक्ष्यतेऽनघ ।

अज्ञानभ्रमविस्तारमात्रकाकृतयोऽनघ

॥११॥

इमे देहा भ्रमन्तीह सर्वधर्मात्समुत्थिताः ।

संकल्पः पुनरस्त्वेव देहस्यार्थे कदाचन

॥१२॥

सुखदुःखविचारित्वं न कार्यं राम धीमता ।

दुःखम्लानमुखः क्लेदी प्रसन्नात्क्लेदवर्जितात्

॥१३॥

अपि चित्रनराद्देहनरस्तुच्छतरः स्मृतः ।

आधिव्याधिपरिम्लाने स्वयं क्लेदिनि नाशिनि

॥१४॥

न तथा स्थिरता देहे चित्रपुंसो यथा किल ।

विनाशितो हि चित्रस्थो देहो नश्यति नान्यथा

॥१५॥

अवश्यनाशो मांसात्मा स्वयं देहो विनश्यति ।

पालितः सुस्थिरां शोभामादत्ते चित्रमानवः

॥१६॥

देहस्तु पालितोऽप्युच्चैर्नश्यत्येव न वर्धते ।

तेन श्रेष्ठश्चित्रदेहो नायं संकल्पदेहकः

॥१७॥

ये गुणाश्चित्रदेहे हि न ते संकल्पदेहके ।

चित्रदेहादपि जडाद्योऽयं तुच्छतरः किल

॥१८॥

तस्मिन्मांसमये देहे कैवास्था भवतोऽनघ ।

दीर्घसंकल्पदेहोऽयं तस्मिन्नास्था महामते

॥१९॥

स्वप्नसंकल्पजाद्देहादपि तुच्छतरो ह्ययम् ।

अल्पसंकल्पजो दीर्घैः सुखदुःखैर्न गृह्यते

॥२०॥

दीर्घसंकल्पजश्चायं दीर्घदुःखेन दुःखितः ।

देहो हि संकल्पमयो नायमस्ति न वास्ति नः

॥२१॥

किं व्यर्थमेतदर्थं हि मूढोऽयं क्लेशभाजनम् ।

यथा चित्रमये पुंसि क्षते क्षीणे न तत्क्षतिः

॥२२॥

तथा संकल्पपुरुषे क्षते क्षीणे न तत्क्षतिः ।

यथा मनोराज्यमये क्षते क्षीणे न तत्क्षतिः

॥२३॥

यथा द्वितीये शशिनि क्षते क्षीणे न तत्क्षतिः ।

यथा स्वप्नसमारम्भे क्षते क्षीणे न तत्क्षतिः

॥२४॥

यथा नद्यातपजले क्षते क्षीणे न तत्क्षतिः ।

संकल्पमात्ररचिते प्रकृत्यैव च नाशिनि

॥२५॥

तथा शरीरयन्त्रेऽस्मिन्क्षते क्षीणे न तत्क्षतिः ।

दीर्घस्वप्नमये ह्यस्मिंश्चित्तसंकल्पकल्पिते

॥२६॥

भूषिते दूषिते देहे न हि किंचिच्चितः क्षतम् ।

न चिदन्तमुपायाति नात्मा चलति राघव

॥२७॥

न ब्रह्म विकृतिं याति किंवा देहक्षये क्षतम् ।

भ्रमच्चक्रोपरिष्ठो हि पूर्वचक्रोपचक्रवत्

॥२८॥

यथा पश्यति दिक्चक्रं भ्रमदत्यन्तमोहितः ।

अकस्मादेव रुढेन मिथ्याज्ञानेन वल्गता

॥२९॥

तत्रस्थेन तथैवेदं दृश्यते देहचक्रकम् ।

भ्रमितं च भ्रमदूपं पतद्रूपं प्रपातितम्

॥३०॥

हतं च हन्यमानं च दृश्यते देहचक्रकम् ।

धीरतामलमालम्ब्य घनभ्रममिमं त्यजेत्

॥३१॥

संकल्पेन कृतो देहो मिथ्याज्ञानेन सन्नसन् ।

असत्येन कृतं यस्मान्न तत्सत्यं कदाचन

॥३२॥

असदभ्युत्थितो देहो रज्ज्वामिव भुजंगधीः ।

असत्यामेव सत्यां च करोत्यपि जगत्क्रियाम्

॥३३॥

जडेन राम क्रियते यन्न तत्कृतमुच्यते ।

कुर्वन्नपि तदा देहो न कर्ता क्वचिदेव हि

॥३४॥

निरीहो हि जडो देहो नात्मनोऽस्याभिवाञ्छितम् ।

कर्ता न कश्चिदेवातो द्रष्टा केवलमस्य सः

॥३५॥

यथा दीपो निवातस्थः स्वात्मन्येवावतिष्ठते ।

साक्षिवत्सर्वभावेषु तथा तिष्ठेज्जगत्स्थितौ

॥३६॥

यथा दिवसकर्माणि भास्करः स्वस्थ एव सन् ।

करोत्येवमिमां राम कुरु पार्थिवसंस्थितिम्

॥३७॥

अस्मिन्नसन्मये देहगृहे शून्ये समुत्थिते ।

सत्तामुपगते मिथ्याबालकल्पितयक्षवत्

॥३८॥

कुतोऽप्यागत्य निःसारः सर्वसज्जनवर्जितः ।

अहंकारः कुवेतालः प्रविष्टश्चित्तनामकः

॥३९॥

अस्य मा भृत्यतां गच्छ त्वमहंकारदुर्मतेः ।

अस्य भृत्यतया राम निरयः प्राप्यते फलम्

॥४०॥

स्वसंकल्पविलासेन देहगेहे दुराकृतिः ।

उन्मत्तचित्तवेतालः परिवल्गति लीलया

॥४१॥

शून्यं देहगृहं प्राप्य चित्तयक्षेण तत्कृतम् ।

भीता येन महान्तोऽपि समाधिनियताः स्थिताः

॥४२॥

चित्तवेतालमुद्वास्य स्वशरीरकमन्दिरात् ।

संसारशून्यनगरे न बिभेति कदाचन

॥४३॥

चित्तभूताभिभूतेऽस्मिन्ये शरीरगृहे रताः ।

चित्रमद्यापि ते कस्माद्धटिता आत्मवत्स्थिताः

॥४४॥

ग्रस्ते चित्तपिशाचेन देहसद्मनि ये मृताः ।

पिशाचस्येव या बुद्धिर्नापिशाचस्य राघव

॥४१॥

अहंकारबृहद्यक्षगृहे दग्धशरीरके ।

विहरन्नास्थया साधो न तु वै तत्किल स्थिरम्

॥४६॥

अहंकारानुचरतां त्यक्त्वा विततया धिया ।

अहंकारास्मृतिं प्राप्य स्वात्मैवाश्ववलम्ब्यताम्

॥४७॥

अहंकारपिशाचेन ग्रस्ता ये निरयैषिणः ।

तेषां मोहमदान्धानां न मित्राणि न बान्धवाः

॥४८॥

अहंकारोपहतया बुद्ध्या या क्रियते क्रिया ।

विषवल्ल्या इव फलं तस्याः स्यान्मरणात्मकम्

॥४९॥

विवेकधैर्यहीनेन स्वाहंकारमहोत्सवः ।

मूर्खेणालम्बितो येन नष्टमेवाशु विद्धि तम्

॥५०॥

अहंकारपिशाचेन वराका ये वशीकृताः ।

त एते नरकाग्नीनां राघवेन्धनतां गताः

॥५१॥

अहंकारोरगो यस्य परिस्फूर्जति कोटरे ।

स्वदेहपादपोऽधीरैरचिरेण निपात्यते

॥५२॥

अहंकारपिशाचोऽस्मिन्देहे तिष्ठतु यातु वा ।

त्वमेनमालोकय मा मनसा महतां वर

॥५३॥

अवधूतो ह्यवज्ञातश्चेतसैव तिरस्कृतः ।

अहंकारपिशाचस्ते नेह किंचित्करिष्यति

॥५४॥

देहालये स्फुरत्यस्मिन् राम चित्तपिशाचके ।

अस्यानन्तविलासस्य किमिवागतमात्मनः

॥५५॥

चित्तयक्षाभिभूतानां याः पुंसां विततापदः ।

शक्यन्ते परिसंख्यातुं न ता वर्षशतैरपि

॥५६॥

हा हा मृतोऽस्मि दग्धोऽस्मीत्येता वै दुःखवृत्तयः ।

अहंकारपिशाचस्य शक्तयोऽन्यस्य नानघ

॥५७॥

सर्वगोऽपि यथाकाशः संबन्धो नेह केनचित् ।

सर्वगोऽपि तथैवात्मा नाहंकारेण संगतः

॥५८॥

यत्करोति यदादत्ते देहयन्त्रमिदं चलम् ।

वातरज्जुयुतं राम तदहंकारचेष्टितम्

॥५९॥

वृक्षोत्पत्तौ यथा हेतुरकर्त्रपि किलाम्बरम् ।

आत्मसंस्थस्तथेहात्मा चित्तचेष्टासु कारणम्

॥६०॥

आत्मसंनिधिमात्रेण स्फुरत्यात्तवपुर्मनः ।

दीपसंनिधिमात्रेण कुड्यरूपमिवामलम्

॥६१॥

अपि विश्लिष्टयो राम नित्यमेवात्मचित्तयोः ।

द्यावापृथिव्योरिव कः संबन्धः प्रकटान्धयोः

॥६२॥

चपलस्पन्दनेराभिरात्मशक्तिभिरावृतम् ।

चित्तमात्मेति मौर्ख्येण दृश्यते रघुनन्दन

॥६३॥

आत्मा प्रकाशरूपो हि नित्यः सर्वगतो विभुः ।

चित्तं शठमहंकारं विद्धि हार्दं बृहत्तमः

॥६४॥

आत्मासि वस्तुतस्त्वं हि सर्वज्ञो न मनो भृशम् ।

दूरे कुरु मनोमोहं किमेतेनाभिसंगतः

॥६५॥

पिशाचोऽपि मनो राम शून्यदेहगृहे स्थितः ।

भावयत्येष दुष्टात्मा मौनमुत्तम संस्पृशन्

॥६६॥

भवप्रदमकल्याणं धैर्यसर्वस्वहारिणम् ।

मनःपिशाचमुत्सृज्य योऽसि स त्वं स्थिरो भव

॥६७॥

चित्तयक्षदृढाक्रान्तं न शास्त्राणि न बान्धवाः ।

शक्नुवन्ति परित्रातुं गुरवो न च मानवम्

॥६८॥

संशान्तचित्तवेतालं गुरुशास्त्रार्थबान्धवाः ।

शक्नुवन्ति समुद्धर्तुं स्वल्पपङ्कान्मृगं यथा

॥६९॥

अस्मिञ्जगच्छून्यपुरे सर्वमेव प्रदूषितम् ।

देहगेहं प्रमत्तेन चित्तयक्षेण वल्गता

॥७०॥

चित्तवेतालवलिता समस्ता देहखण्डजा ।

इयं जगदरण्यानी शून्या कस्य न भीतये

॥७१॥

जगन्नगर्यामस्यां तु शान्तचित्तपिशाचकम् ।

देहगेहं कतिपयैः सेव्यते सद्भिरेव यत्

॥७२॥

इह संश्रूयते या या दिक् सैव रघुनन्दन ।

प्रमत्तमोहवेतालैः पूर्णा देहश्मशानकैः

॥७३॥

अस्यां जगदरण्यान्यां मुह्यन्तं मुग्धबालवत् ।

स्वयमाराध्य धैर्याशमात्मनात्मानमुद्धरेत्

॥७४॥

जगज्जरदरण्येऽस्मिंश्चरद्भूतमृगव्रजे ।

धृतिं तृणरसै राम मा गच्छ मृगपोतवत्

॥५॥

अस्मिन्महीतलारण्ये चरन्ति मृगपोतकाः ।

त्वमज्ञानगजं भुक्त्वा सैंहीं वृत्तिमुपाश्रय

॥७६॥

अन्ये नरमृगा मुग्धा जम्बूद्वीपे स्वजङ्गले ।

विहरन्ति यथा राम तथा मा विहरानघ

॥७७॥

अत्यल्पकालशिशिरे कर्दमालेपदायिनि ।

न मङ्क्तव्यं बन्धुरूपे महिषेणेव पल्वले

॥७८॥

भोगाभोगा बहिष्कार्या आर्यस्यानुसरेत्पदम् ।

प्रविचार्य महार्थं स्वमेकमात्मानमाश्रयेत्

॥७९॥

अपवित्रस्य तुच्छस्य दुर्भगस्य दुराकृतेः ।

देहस्यार्थं न मङ्क्तव्यं चिन्ताचण्डी सुदारुणा

॥८०॥

अन्येन रचितो देहो यक्षेणान्येन संश्रितः ।

दुःखमन्यस्य भोक्तान्यश्चित्रेयं मौर्ख्यचक्रिका

॥८१॥

यथैकरूपा घनता दृषदोऽस्त्यात्मनस्तथा ।

सत्तामात्रैकसामान्यादितरस्याप्यसंभवात्

॥८२॥

यथोपलस्य घनता मानसादि तथात्मनः ।

सत्तामात्रादभिन्नत्वादभावादस्य संस्थितेः

॥८३॥

यथोपलस्योपलता घटस्य घटता यथा ।

सत्तामात्रादभिन्नैव मानसादि तथात्मनः

॥८४॥

अत्रेमामपरां दृष्टिं महामोहविनाशिनीम् ।

शृणु या कथिता पूर्वं मम कैलासकन्दरे

॥८५॥

संसारदुःखशान्त्यर्थं देवेनार्धेन्दुमौलिना ।

अस्तीन्दुकरसंभारभासुरः पारगो दिवः

॥८६॥

कैलासो नाम शैलेन्द्रो गौरीरमणमन्दिरम् ।

तत्रास्ते भगवान्देवो हरश्चन्द्रकलाधरः

॥८७॥

तं पूजयन्महादेवं तस्मिन्नेव गिरौ पुरा ।

कदाचिदवसं गङ्गातटे विरचिताश्रमः

॥८८॥

तपोर्थं तापसाचारे चिराय रचितस्थितिः ।

सिद्धसंघातवलितः कृतशास्त्रार्थसंग्रहः

॥८९॥

पुष्पार्थं स्यूतपुटिकः पुस्तकव्यूहसंग्रही ।

एवंगुणविशिष्टस्य कैलासवनकुञ्जके

॥९०॥

तपः प्रचरतो राम मम कालोऽत्यवर्तत ।

अथैकदा कदाचित्तु बहुलस्याष्टमे दिने

॥९१॥

गते श्रावणपक्षस्य रात्र्यग्रे क्षयमागते ।

दिक्षु संशान्तरूपासु काष्ठमौनस्थितास्विव

॥९२॥

खड्गच्छेद्यान्धकारेषु कुञ्जेषु गहनेषु च ।

एतस्मिन्नन्तरे तत्र यामार्धे प्रथमे गते

॥९३॥

समाधिं तनुतां नीत्वा स्थितोहं बाह्यमग्नदृक् ।

अपश्यं कानने तेजो झटित्येव समुत्थितम्

॥९४॥

शुभ्राभ्रशतसंकाशं चन्द्रबिम्बगणोपमम् ।

प्रकटीकृतदिक्कुञ्ज तदालोक्य मया स्मयात्

॥९५॥

अन्तःप्रकाशशालिन्या बहिर्दृष्ट्यावलोकितम् ।

यावत्पश्यामि तं सानुं प्राप्तश्चन्द्रकलाधरः

॥९६॥

गौरीकरार्पितकरो नन्दिप्रोत्सारिताग्रगः ।

शिष्यान्संबोध्य तत्रस्थान्गृहीत्वार्घ्यं सुसंयतः

॥९७॥

अगमं सुमनास्तस्य दृष्टिपूतमहं पुरः ।

तत्र पुष्पाञ्जलिं दत्त्वा दूरादेव त्रिलोचनः

॥९८॥

दत्तार्घ्येण मया देवः संप्रणम्याभिवन्दितः ।

ततश्चन्द्रप्रभासख्या ऋज्व्या शीतलया तया

॥९९॥

दृशा सर्वार्तिहारिण्या चिरमस्म्यास्पदीकृतः ।

पुष्पसानूपविष्टाय तस्मै त्रैलोक्यसाक्षिणे

॥१॥

अर्घ्यं पुष्पं तथा पाद्यमभ्युपेत्यार्पितं मया ।

मन्दारपुष्पाञ्जलयो विकीर्णा बहवः पुरः

॥१०१॥

नानाविधेर्नमस्कारैः स्तोत्रैश्चाभ्यर्चितः शिवः ।

ततो भगवती गौरी तादृश्यैव सपर्यया

॥१०२॥

संपूजिता सखीयुक्ता गणमण्डलिका तथा ।

पूजान्ते पूर्णशीतांशुरश्मिशीतलया गिरा

॥१०३॥

तत्रोपविष्टं प्रोवाच मामर्धेन्दुकलाधरः ।

ब्रह्मन्प्रशमशालिन्यः प्राप्तविश्रान्तयः पदे

॥१०४॥

कच्चित्कल्याणकारिण्यः संविदस्ते स्थिताः परे ।

कच्चित्तपस्ते निर्विघ्नं कल्याणमनुवर्तते

॥१०५॥

कच्चित्प्राप्यमनुप्राप्तं कच्चिच्छाम्यन्ति भीतयः ।

एवंवादिनि देवेशे सर्वलोकैककारिणि

॥१०६॥

गिरानुनयशालिन्या मयोक्तं रघुनन्दन ।

त्र्यक्षानुस्मृतिकल्याणवतामिह महेश्वर

॥१०७॥

न किंचिदपि दुष्प्रापं न च काश्चन भीतयः ।

त्वदनुस्मरणानन्दपरिघूर्णितचेतसाम्

॥१०८॥

न ते सन्ति जगत्कोशे प्रणमन्ति न ये पुनः ।

ते देशास्ते जनपदास्ता दिशस्ते च पर्वताः

॥१०९॥

त्वदनुस्मरणैकान्तधियो यत्र स्थिता जनाः ।

फलं भूतस्य पुण्यस्य वर्तमानस्य सेचनम्

॥११०॥

तनोति चैष्यतो बीजं त्वदनुस्मरणं प्रभो ।

ज्ञानामृतैककलशो धृतिज्योत्स्नानिशाकरः

॥१११॥

अपवर्गपुरद्वारं त्वदनुस्मरणं प्रभो ।

त्वदनुस्मरणोदारचिन्तामणिमता मया

॥११२॥

सर्वासामापदां मूर्ध्नि दत्तं भूतपते पदम् ।

इत्युक्त्वा सुप्रसन्नं तं भगवन्तं महेश्वरम्

॥११३॥

अवोचं प्रणतो भूत्वा यद्राम तदिदं शृणु ।

भगवंस्त्वत्प्रसादेन पूर्णा मे सकला दिशः

॥११४॥

किंतु पृच्छामि देवेश संदेहे तत्र निर्णयम् ।

ब्रूहि प्रसन्नया बुद्ध्या त्यक्तोद्वेगमनामयम्

॥११५॥

सर्वपापक्षयकरं सर्वकल्याणवर्धनम् ।

देवार्चनविधानं तत्कीदृशं भवति प्रभो

॥११६॥

ईश्वर उवाच ।

शृणु ब्रह्मविदां श्रेष्ठ देवार्चनमनुत्तमम् ।

वदामि मुच्यते येन कृतेन सकृदेव हि

॥११७॥

कच्चिद्वेत्सि महाबाहो देवः कः स्यादिति द्विज ।

न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः

॥११८॥

न देवः कमलोद्भूतो न देवस्त्रिदशेश्वरः ।

न देवः पवनो नार्को नानलो न निशाकरः

॥११९॥

न ब्राह्मणो नाऽवनिपो नाहं न त्वं द्विजोत्तम ।

न देवो देहरूपो हि न देवश्चित्तरूपधृक्

॥१२०॥

न देवः कमलारूपी नापि देवो भवेन्मतिः ।

अकृत्रिममनाद्यन्तं देवनं देव उच्यते

॥१२१॥

आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः ।

अकृत्रिममनाद्यन्तं देवनं चिच्छिवं विदुः

॥१२२॥

तदेव देवशब्देन कथ्यते तत्प्रपूजयेत् ।

तदेवास्ति यतः सर्वं सत्तासत्तात्मरूपधृक्

॥१२३॥

अज्ञातशिवतत्त्वानामाकाराद्यर्चनं कृतम् ।

योजनाध्वन्यशक्तस्य क्रोशाध्वा परिकल्प्यते

॥१२४॥

इयत्तादिपरिच्छिन्नं रुद्रादेः प्राप्यते फलम् ।

अकृत्रिममनाद्यन्तं फलमानन्द आत्मनः

॥१२५॥

अकृत्रिमफलं त्यक्त्वा यः कृत्रिमफलं व्रजेत् ।

त्यक्त्वा स मन्दारवनं कारञ्जं याति काननम्

॥१२६॥

बोधः साम्यं शम इति पुष्पाण्यग्राणि तत्र च ।

शिवं चिन्मात्रममलं पूज्यं पूज्यविदो विदुः

॥१२७॥

शमबोधादिभिः पुष्पैर्देव आत्मा यदर्च्यते ।

तत्तु देवार्चनं विद्धि नाकारार्चनमर्चनम्

॥१२८॥

आत्मसंवित्तिरूपं तु त्यक्त्वा देवार्चनं जनाः ।

कृत्रिमार्चासु ये सक्ताश्चिरं क्लेशं भजन्ति ते

॥१२९॥

ज्ञातज्ञेया हि ये सन्तो बालक्रीडोपमं च ते ।

आत्मध्यानादृते ब्रह्मन्कुर्वन्तो देवपूजनम्

॥१३०॥

आत्मैव देवो भगवाञ्छिवः परमकारणम् ।

ज्ञानार्चनेनाविरतं पूजनीयः स सर्वदा

॥१३१॥

त्वमेतच्चेतनाकाशमात्मानं जीवमव्ययम् ।

स्वभावं विद्धि न त्वन्यः पूज्यः पूजात्मपूजनम्

॥१३२॥

श्रीवसिष्ठ उवाच ।

चेतनाकाशमात्रात्म यथा जगदिदं प्रभो ।

यथा तच्चेतनस्यैव जीवादित्वं तदुच्यताम्

॥१३३॥

ईश्वर उवाच ।

चिद्व्योमैव किलास्तीह पारावारविवर्जितम् ।

सर्वत्रासंभवच्चेत्यं यत्कल्पान्तेऽवशिष्यते

॥१३४॥

यद्यत्स्वयं प्रकचति तस्य स्वकचनस्य तु ।

स्वयं यत्स्पन्दितं नाम तेनेदं जगदित्यलम्

॥१३५॥

इत्येवं स्वप्नपुरवज्जगद्भाति चिदात्मकम् ।

एवं चिद्व्योममात्रात्म जगदच्छं न भित्तिमत्

॥१३६॥

अत्यन्तासंभवाच्चेत्यं दृश्यं चिद्व्योममात्रकम् ।

चित्त्वात्कचति सर्गादौ यत्तज्जगदिति स्मृतम्

॥१३७॥

तस्मात्स्वप्नपुराकारं यदिदं भासते जगत् ।

तत्र चिद्व्योममात्रात्मन्यन्यता नाम का कुतः

॥१३८॥

चिन्मात्रमेव गिरयश्चिन्मात्रं जगदम्बरम् ।

चिन्मात्रमात्मा जीवश्च चिन्मात्रं भूतसंततिः

॥१३९॥

चिद्व्योममात्रादितरत्सर्गादौ सर्ववेदने ।

भिन्नस्वर्गे पुरे वापि किं संभवति कथ्यताम्

॥१४०॥

आकाशं परमाकाशं ब्रह्माकाशं जगच्चितिः ।

इति पर्यायनामानि तत्र पादपवृक्षवत्

॥१४१॥

एवं द्वौ स्वप्नसंकल्पमायाभिः स्वनुभूयते ।

तदा किल चिदाकाशमेव भाति जगत्तया

॥१४२॥

यथैतत्संविदाकाशं स्वप्ने भाति जगद्वपुः ।

तथेदं जाग्रदाख्येऽपि स्वप्ने भाति तदेव नः

॥१४३॥

यथा स्वप्नपुरे चित्खं वर्जयित्वेतरत्क्वचित् ।

न किंचित्संभवत्येवं जाग्रत्येवं महाचितः

॥१४४॥

यतो न संभवत्यन्यच्चेत्यं किंचित्ततोऽखिलम् ।

चित्तं संचेत्यमप्येतदचेत्यं सज्जगत्स्थितम्

॥१४५॥

परमाकाशकलनं त्रिजगत्स्वयमुत्थितम् ।

स्वप्नवद्विद्धि चिद्व्योम्नि न त्वेतद्द्वैतवत्स्थितम्

॥१४६॥

यथा चिद्व्योममात्रात्म स्वप्ने घटपटादिकम् ।

सर्गादावेव सर्गोऽयं तथा चिद्व्योममात्रकम्

॥१४७॥

शुद्धसंवित्तिमात्रत्वादृतेऽन्यत्स्वप्नपत्तने ।

यथा न विद्यते किंचित्तथास्मिन्भुवनत्रये

॥१४८॥

याः काश्चन दृशो ये ये भावाभावास्त्रिकालगाः ।

सदेशकालचित्तास्तत्सर्वं चिद्व्योममात्रकम्

॥१४९॥

स एष देवः कथितो यः परः परमार्थतः ।

यस्त्वं सोऽहमशेषं वा जगदेव च योऽखिलः

॥१५०॥

सर्वस्य वस्तुजातस्य जगतोऽन्यस्य ते मम ।

देहो हि चेतनाकाशे परमात्मैव नेतरत्

॥१५१॥

संकल्पने स्वप्नपुरे शरीरं चिद्व्योमतोऽन्यन्न यथास्ति किंचित् ।

तथेह सर्गे प्रथमैकर्सगान्मुने प्रभृत्यस्ति न रूपमन्यत्

॥१५२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो. निर्वाणप्रकरणे पू० जगतः परमात्ममयत्ववर्णनं नामैकोनत्रिंशः सर्गः ।।२९ ।।