मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १५६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 156

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

व्याध उवाच ।

अनन्तरं हे भगवन्वितताकाशवासिनः ।

किंभविष्यति मे तत्र देहेऽधःपातिनि क्षितौ

॥१॥

मुनिरुवाच ।

शूणुष्वावहितस्तस्मिन्देहे तव परिक्षते ।

किं भविष्यति भव्यात्मस्तस्मिन्परमकाम्बरे

॥२॥

देहे तस्मिन्परिभ्रष्टे जीवस्तु प्राणसंयुतः ।

भविष्यत्यम्बरे वातलवो व्याततरूपिणि

॥३॥

तस्मिन्वातलवे चेतो दृश्यं हृत्स्थं स्थितं पुरः ।

स्फारं द्रक्ष्यति भूपीठं भवान्स्वप्ने जगद्यथा

॥४॥

महत्त्वाच्चित्तवृत्तेस्तु जीवो द्रक्ष्यति ते ततः ।

राजाहमस्मि भूपीठ इति संकल्पितार्थभाक्

॥५॥

तत्रास्य सहसैवाशु प्रतिभोदेष्यति स्वयम् ।

अहमस्मि नृपः श्रीमान्सिन्धुर्नाम्नातिमानितः

॥६॥

अष्टवर्षाय मे राज्यं गते पितरि काननम् ।

भुवश्चतुःसमुद्रायाः पित्रा दत्तमुपागतम्

॥७॥

सीमान्ते भूपतिः शत्रुर्विदूरथ इति श्रुतः ।

विद्यते यः प्रयत्नेन विना नाम न जीयते

॥८॥

इदं मे कुर्वतो राज्यं संवत्सरशतं गतम् ।

अहो भृत्यकलत्रौघैः सह भुक्तं मया सुखम्

॥९॥

कष्टमेष प्रवृद्धो मे सीमान्तवसुधाधिपः ।

अनेन सह संग्रामो दारुणः समुपस्थितः

॥१०॥

इति चिन्तयतस्तत्र विदूरथमहीभुजा ।

भविष्यति महद्युद्धं चतुरङ्गबलक्षयि

॥११॥

महता तेन युद्धेन हनिष्यसि विदूरथम् ।

करवाललतालूनजङ्घं त्वं विरथोऽपि सन्

॥१२॥

चतुःसागरपर्यन्ते भूतले भूपतिस्ततः ।

भविष्यसि भयाक्रान्तदिक्पालादृतशासनः

॥१३॥

स त्वं सिन्धुर्भवन्प्राप्तसकलावनिमण्डलः ।

पण्डितैर्मन्त्रिभिः सार्धं करिष्यसि कथा इमाः

॥१४॥

मन्त्री वदिष्यति ।

अत्याश्चर्यमिदं देव यदेवं स विदूरथः ।

देवेन विजितो युद्धे नीतश्च यमसादनम्

॥१५॥

त्वं वक्ष्यसि ।

भोः साधो सधनस्यास्य कल्पान्तार्णवरंहसः ।

वैरी विदूरथो राजा किमर्थं वद दुःसहः

॥१६॥

मन्त्री वदिष्यति ।

लीला नामास्य भार्यास्ति तयातितपसार्जिता ।

माता सरस्वतीदेवी जगद्धात्री निरञ्जना

॥१७॥

गृहीतायाः सुतात्वेन सास्या भुवनभाविनी ।

संसाधयति कार्याणि मोक्षादीन्यपि हेलया

॥१८॥

वरेण शब्दमात्रेण जगदप्यजगत्क्षणात् ।

करोति सा भवन्नाशे तस्याः कैव कदर्थना

॥१९॥

सिन्धुर्वदिष्यति ।

त्वया वै युक्तं कथितं यद्येवं तद्विदूरथः ।

अशक्यो जेतुमाश्चर्य एतस्य समरे वधः

॥२०॥

तदेवं संप्रसादेन भगवत्या समन्वितः ।

किमित्यस्मिन्रणे तस्मिञ्जयं राजा न लब्धवान्

॥२१॥

मन्त्री वदिष्यति ।

तेन संप्रार्थिता देवी सर्वकालमखेदिना ।

मोक्षोऽस्तु मम संसारादिति तामरसेक्षण

॥२२॥

तया तेन विभो तस्य स एवावन्ध्यसंविदा ।

संपादितस्तेन तदाश्रित आजौ पराजयः

॥२३॥

सिन्धुर्वदिष्यति ।

यद्येवं तन्मया देवी सदैवैषा प्रपूज्यते ।

मोक्षं किमिति मे नैषा ददाति परमेश्वरी

॥२४॥

मन्त्री वदिष्यति ।

एषा हि ज्ञप्तिरास्तेऽन्तः सर्वस्य हृदये सदा ।

संविद्रूपा भगवती सैव प्रोक्ता सरस्वती

॥२५॥

येन येन यथात्मीया प्रार्थ्यते स्वयमेव सा ।

प्रयच्छति तथैवाशु तस्माच्चिदनुभूयते

॥२६॥

न प्रार्थितैषा भवता मोक्षार्थमरिमर्दन ।

प्रार्थितैव त्वया संविदात्मीया शत्रुशान्तये

॥२७॥

सिन्धुर्वदिष्यति ।

न प्रार्थिता मया कस्मादनेनैषा सरस्वती ।

संविच्छुद्धा मया कस्मात्प्रार्थिता नेह मुक्तये

॥२८॥

मदाशयगताप्येषा ज्ञप्तिं दत्त्वा सरस्वती ।

मन्मोक्षाय किमित्यङ्ग सद्रूपापि न चेष्टते

॥२९॥

मन्त्री वदिष्यति ।

अशुभः प्राक्तनोऽभ्यासस्तवास्ति रिपुघातिनः ।

तेनैषा मुक्तये नत्वा त्वया न प्रार्थिता विभो

॥३०॥

यच्चित्तस्तन्मयो जन्तुर्भवतीत्याजगत्स्थितेः ।

आबालमेव संसिद्धं कर्तुं शक्नोति कोऽन्यथा

॥३१॥

यदेव येनामलयामलात्म

संवेद्यतेऽभ्यासमयं विदान्तः ।

सर्वोपमर्देन तदेव सोऽङ्ग

सदस्त्वसद्वास्तु भवत्यविघ्नम्

॥३२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० श० सिन्धुसंबोधनं नाम षट्पञ्चाशदधिकशततमः सर्गः ।। १५६ ।।