मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ७२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 72

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

राजोवाच ।

कालसत्ता नभःसत्ता स्पन्दसत्ता च चिन्मयी ।

शुद्धचेतनसत्ता च सर्वमित्यादि पावनम्

॥१॥

परमात्ममहावायौ रजः स्फुरति चञ्चलम् ।

कुसुमाङ्ग इवामोदस्तदतद्रूपकं स्वतः

॥२॥

जगदाख्ये महास्वप्ने स्वप्नात्स्वप्नान्तरं व्रजत् ।

रूपं त्यजति नो शान्तं ब्रह्मशान्तत्वबृंहणम्

॥३॥

रम्भास्तम्भो यथा पत्रमात्रमेवान्तरान्तरम् ।

अन्तरन्तस्तथेदं हि विश्वं ब्रह्म विवर्त्यपि

॥४॥

सद्ब्रह्मात्मादिभिः शब्दैर्यदेताभिर्विगीयते ।

शून्यमव्यपदेशं ते न तत्किंचिच्च किंचन

॥५॥

या या विभाव्यते सत्ता सा सानुभवनिर्मितान् ।

रम्भास्तम्भवदेतावच्चिन्मात्रममलं ततम्

॥६॥

सूक्ष्मत्वादप्यलभ्यत्वात्परमात्मा परोऽणुकः ।

अनन्तत्वादसावेव प्राप्तो मेर्वादिमूलताम्

॥७॥

अणोरप्यत्यनन्तस्य पुंसोऽस्य जगदाद्यपि ।

परमाणुवदाभाति प्रतीतत्वादरूपवत्

॥८॥

परोऽणुरेषोऽलभ्यत्वात्पूरकत्वान्महागिरिः ।

सर्वावयवरूपोऽपि निरस्तावयवः पुमान्

॥९॥

अस्य वै ज्ञप्तिमात्रस्य मज्जामात्रं जगत्त्रयी ।

विज्ञानमात्रमध्यं हि साधो विद्धि जगत्त्रयम्

॥१०॥

विज्ञानमात्रकलनाकलितं जगन्ति

शान्तस्वभावसुकुमारमनन्तरूपम् ।

वेतालबालक पदं तदलङ्घनीय-

मेवं स्वयं समनुभावय शान्तमास्स्व

॥११॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये ३० मोक्षोपायेषु निर्वाणप्रकरणे पू० वेतालप्रश्नभेदो नाम द्विसप्ततितमः सर्गः ।। ७२ ।।