मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १५९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 159

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

अग्निरुवाच ।

विपश्चिच्छ्रेष्ठ भो साधो त्वं गच्छाभिमतां दिशम् ।

स्थिरं भूमण्डलं भूयः प्रकृतव्यवहारवत्

॥१॥

यज्ञं यष्टुं प्रजौघस्य शक्रः शततमं दिवि ।

तत्राहूतोऽस्मि मन्त्रेण गच्छामि गतिकोविद

॥२॥

भास उवाच ।

इत्युक्त्वा भगवानग्निस्तत्रैवान्तरधीयत ।

गगने निर्मले याति अनलो वैद्युतो यथा

॥३॥

तथाहमपि चित्तेन प्राक्तनांश्च स्वयं वहन् ।

पुनः स्वकर्म निर्णेतुं भ्रमनव्योमनि संस्थितः

॥४॥

भूयोऽपि दृष्टवानस्मि जगन्त्यगणितानि खे ।

नानाचारविचाराणि नानासंस्थानवन्ति च

॥५॥

क्वचिच्छत्रमयाङ्गानि एकीभूतानि भूपते ।

भान्ति चेतन्ति चोपन्ति हृदयानि हरन्ति च

॥६॥

क्वचिन्मृन्मयदेहानि सर्वभूतानि राघव ।

भान्ति चेतन्ति चोपन्ति पर्वतप्रतिमानि च

॥७॥

क्वचिद्दारुमयाङ्गानि भान्ति भूतानि कुत्रचित् ।

क्वचित्पाषाणदेहानि सन्ति भूतानि भूरिशः

॥८॥

क्वचिदाजीवमेकत्र स्थितान्युपलदेहवत् ।

वांग्मात्रव्यवहाराणि भूतान्यालोकितानि खे

॥९॥

इत्यहं सुचिरं कालं पश्यन्नश्यन्मनस्तया ।

अविद्यान्तमपश्यंश्च तत्रोद्विग्नोऽभवं दृशाम्

॥१०॥

तपः कर्तुं समुद्युक्तः कस्मिंश्चिन्मोक्षसिद्धये ।

प्राहेन्द्रो मम चैवेदं मृगयोन्यन्तरं हि खे

॥११॥

प्रवृत्तः स्वर्गसंमोहे पूर्वाभ्यासवशीकृतः ।

मन्दारकानने तत्र भ्रमतो वै ममाम्बरे

॥१२॥

तेनेत्युक्ते मया प्रोक्तं देव खिन्नोऽस्मि संसृतेः ।

मुच्येयं शीघ्रमित्युक्तं श्रुत्वोवाच ततो मम

॥१३॥

विशुद्धात्मा त्वरूपोऽहमिति चैव हुताशनात् ।

वरं गृहाणेत्युक्ते स ततोऽन्यं याचितो मया

॥१४॥

इन्द्र उवाच ।

तवेयं मृगयोन्यन्तश्चिरं संसरते चितिः ।

अवश्यं भवितव्योऽर्थ इति दृष्टो मया तव

॥१५॥

मृगो भूत्वा महापुण्यां तां सभां समवाप्तवान् ।

यस्यां तदहतं ज्ञानं मदुक्तं बोधमेष्यति

॥१६॥

तदेवं तत्र हरिणो भवार्तस्त्वं भवावनौ ।

आत्मोदन्तमिदं वन्ध्यं सकलं संस्मरिष्यसि

॥१७॥

स्वप्नभ्रममिवाशेषसंकल्परचितोपमम् ।

परलोकानुभूतार्थकथायातार्थसंनिभम्

॥१८॥

यदा तु मृगतोन्मुक्तः पुरुषस्त्वं भविष्यसि ।

ज्ञानाग्निदग्धदेहान्ते तदा हृत्स्थं स्फुरिष्यति

॥१९॥

तेन तां त्वमविद्याख्यां भ्रान्तिं त्यक्त्वा चिरं स्थिताम् ।

भविष्यसि विनिर्वाणो गतस्पन्द इवानिलः

॥२०॥

इत्युक्ते तेन देवेन तदैव प्रतिभोदभूत् ।

ममायं हरिणोऽस्मीति वनेऽस्मिन्निति निश्चिता

॥२१॥

ततः प्रभृति संपन्नस्तत्रैवान्तरकोणके ।

हरिणोऽहं गिरिवरे तृणदूर्वाङ्कुराशनः

॥२२॥

ततः सीमान्तसामन्तमागतं मृगयार्थिनम् ।

दृष्ट्वाहमेकदा भीतः पलायनपरोऽभवम्

॥२३॥

ततस्तेन समाक्रम्य गृहं नीत्वा दिनत्रयम् ।

संस्थाप्य तव लीलार्थमिहानीतो रघूद्वह

॥२४॥

एष ते कथितः सर्वं आत्मोदन्तो मयानघ ।

संसारमायाप्रतिमो नानाश्चर्यरसान्वितः

॥२५॥

अविद्यैवमनन्तेयं शाखाप्रसरशालिनी ।

आत्मज्ञानादृते नैव केनचिन्नाम शाम्यति

॥२६॥

श्रीवाल्मीकिरुवाच ।

यदा विपश्चिदित्युक्त्वा तत्र तूष्णीं स्थितः क्षणात् ।

समवोचत्तदा रामस्तमनिन्द्यमतिस्त्विदम्

॥२७॥

श्रीराम उवाच ।

एवं पश्यत्यसंकल्पो योऽन्यसंकल्प आत्मनि ।

मृगश्चेद्दृश्यतां यातः कथं सर्गे वद प्रभो

॥२८॥

विपश्चिदुवाच ।

महाशवं यत्पतितं यस्मिञ्जगति भूतले ।

तां भुवं पूर्वमिन्द्रेण यज्ञगर्वेण गच्छता

॥२९॥

पादेनाभिहतो व्योम्नि दुर्वासा ध्यानसंस्थितः ।

गतासुरित्यविज्ञानात्तेनासौ कुपितोऽशपत्

॥३०॥

शक्र शक्रावनितलं ब्रह्माण्डप्रतिमं शवम् ।

अचिरेण महाघोरं तव चूर्णीकरिष्यति

॥३१॥

मामिमं शवबुद्ध्या त्वं यदतिक्रान्तवानतः ।

शापेन ममतां पृथ्वीं शीघ्रमासादयिष्यसि

॥३२॥

मृगार्थं तेन मुनिना तथा देवेति सद्यथा ।

तत्तया कथयाऽऽयातं सदैव विषयं दृशाम्

॥३३॥

वस्तुतस्तु न चैकं सन्न द्वितीयं न चाप्यसत् ।

सा तथा प्रतिभोदेति किं सत्किमथवाप्यसत्

॥३४॥

अन्यच्च राघवे मां तां युक्तिं त्वमपरां श्रृणु ।

एतस्मिन्नयसंदर्भे सुस्फुटप्रतिपत्तये

॥३५॥

यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।

ब्रह्म तस्मिन्महाभाग किं न संभवतीह हि

॥३६॥

संकल्पजातं नान्योन्यं मिलतीत्युपपद्यते ।

संकल्पजातमन्योन्यं मिलतीत्युपपद्यते

॥३७॥

संकल्पजातमन्योन्यं मिलतीत्यवगम्यते ।

सर्वात्मनि हि यत्रैव च्छाया तत्रैव चातपः

॥३८॥

न संभवति चेत्तत्तत्कथं सर्वात्मतामियात् ।

कस्मात्संकल्पनगरं न मिथः श्लिष्यतीति सत्

॥३९॥

मिथश्च श्लिष्यतीत्येवमपि सत्सर्वरूपिणि ।

न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा

॥४०॥

सर्वत्र सर्वथा सर्वं सर्वदा सर्वरूपिणि ।

अहो नु विषमा माया मनोमोहविधायिनी

॥४१॥

विधयः प्रतिषेधाश्च यदेकत्र स्थितिं गताः ।

ईदृशी ब्रह्मसत्तैषा यदेवात्मानमात्मना

॥४२॥

तया अनादिः सादिश्चेत्यविद्येत्यनुभूयते ।

न ज्ञप्तिमात्रकचनं यदि स्याद्भुवनत्रयम्

॥४३॥

तन्महाकल्पनष्टानां सृष्टिः स्यात्कथमञ्जसा ।

कथमग्नेः कथं वायोः सत्ता भूमेः कथं भवेत्

॥४४॥

तस्मात्स्वभावकचनमात्रान्नान्यदृते जगत् ।

शास्त्राण्यनुभवो लोका आमहाकल्पवादिनाम्

॥४५॥

येषां प्रमाणं नो सर्वं प्रशस्तैस्तैरलं सताम् ।

ज्ञप्तिदृष्ट्यानया सर्वं प्रमाणीभवति क्षणात्

॥४६॥

नान्यया तनु तेनैवमेव सार विदुर्बुधाः ।

शुद्धा ज्ञप्तिर्ब्रह्मसत्ता त्वविद्यास्मीति चेतनात्

॥४७॥

स्फुरतीयं जगद्रूपा वातश्रीः स्पन्दनादिव ।

न कश्चनेह म्रियते जायते न च कश्चन

॥४८॥

मृतोऽहमिदमस्तीति प्रतिभैव चिदात्मिका ।

मृतिरत्यन्तनाशश्चेत्तत्सा निद्रा सुखोपमा

॥४९॥

पुनर्दृश्योपलम्भश्चेन्ननु जीवितमेव तत् ।

तस्मान्नेहास्ति मरणं तन्नैवेहास्ति जीवितम्

॥५०॥

कस्मिंश्चिन्मात्रकचने द्वयं वाप्यस्ति नैव वा ।

चेतितं द्वयमप्यस्ति नास्ति द्वयमचेतितम्

॥५१॥

चेतितं चैकमेवास्ति स्वस्त्यनन्तमतश्चितः ।

चिन्मात्रव्यतिरेकेण किं नाम वद जीवनम्

॥५२॥

अदुःखमक्षयत्वात्तदतो दुःखं क्व कस्यचित् ।

वाच्यं सवाचकं सर्वं यत्र चिद्व्योममात्रकम्

॥५३॥

तदन्यत्तदनन्यच्च के ते तत्रैकताद्विते ।

आवर्तादि यथा तोये शरीरादि तथा परे

॥५४॥

तत्सत्तासंनिवेशात्म कारणानन्यखात्म च ।

चिद्भानमात्रमव्यग्रं खमेवाप्रतिघं जगत्

॥५५॥

आश्चर्यं सुघनं व्यग्रं द्रव्यं सप्रतिघं स्थितम् ।

तथेते भूतिभूर्नास्ति वर्तमानानुभूतिभूः

॥५६॥

तत्र भ्रान्त्या पिशाचोऽयं भाति खात्मेति बुध्यताम् ।

यथैतत्खं तथैतत्खमेतत्खमिति खं स्थितम्

॥५७॥

तथेतो भूरितो भूतमितोऽन्यदिति खं परम् ।

यैव चिद्भा जगत्सैव नैकतात्र न च द्विता

॥५८॥

न च प्रतिघता काचिन्न चाप्रतिघरूपता ।

सर्वमप्रतिघं दृश्यं यथा भूतार्थदर्शिनः

॥५९॥

तज्ज्ञतातज्ज्ञते चेह न सती नाप्यसत्स्थिती ।

सत्ये सदसती चैकं काष्ठमौनमतोऽखिलम्

॥६०॥

यद्दृश्यं ब्रह्मतानन्तं तदेव परमं पदम् ।

इद सर्वं परं ब्रह्ममात्रमित्येव संस्थितम्

॥६१॥

एवं नामैष चिद्धातुः कचत्येवं यदात्मनि ।

यस्येदं कचनं व्योम्नो रूपमप्रतिघं जगत्

॥६२॥

सर्गाद्या मृतजीवानां सर्वत्रैवाङ्गुलेङ्गुले ।

असंख्याः सन्त्यसंख्यानामदृश्याप्रतिघामिथः

॥६३॥

अन्योन्यं सिद्धलोकास्ते स्वं यत्र प्राप्य संगताः ।

परस्परं न पश्यन्ति मिथः प्रोता अपि स्थिताः

॥६४॥

भवत्याकाश एवैषा दृश्यश्रीर्गगनात्मिका ।

अनन्यदृष्टा चिद्रूपा स्वप्नवत्स्वात्मद्रष्टृका

॥६५॥

एषा हि संपरिज्ञाता तिष्ठत्यपि यथास्थितम् ।

भामात्ररूपनिर्वाणा निशान्ताऽप्रतिभाकृतिः

॥६६॥

शान्ताशेषविशेषात्म यथास्थितमवस्थितम् ।

सदसद्वा जगज्जालं परिज्ञानेन शाम्यति

॥६७॥

यथाब्धिजलबिन्दूनां क्षणविश्लेषसंगमम् ।

चिदणूनां तथा ब्रह्म वारिधौ स्फुरतां मिथः

॥६८॥

स्वप्नवद्भाति सर्गश्रीः सर्गादौ चिन्नभोमयी ।

अतः सर्वमिदं ब्रह्म शान्तमित्युपपद्यते

॥६९॥

दृष्टान्यनन्तविभवानि मया जगन्ति

भुक्तानि कार्यपरिणामविजृम्भितानि ।

भ्रान्ता दिशो दश बहूनि युगानि याव-

ज्ज्ञानादृते क्षयमुपैति न दृश्यदोषः

॥७०॥

इ० वा० महारामायणे वा० दे० मो० नि० उ० अवि० विश श० विपश्चित्संसारभ्रमवर्णनं नामैकोनषष्ट्यधिकशततमः सर्गः

॥१५९॥