मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ४४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 44

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

केवलेनेन्द्रियैः सार्धं वर्तमानार्थवर्तिना ।

असंगमेन मनसा यत्करोषि न तत्कृतम्

॥१॥

यथा प्राप्तिक्षणे वस्तु प्रथमे तुष्टये तथा ।

न प्राप्त्येकक्षणादूर्ध्वमिति को नानुभूतवान्

॥२॥

वाञ्छाकाले यथा वस्तु तुष्टये नान्यदा तथा ।

तस्मात्क्षणसुखे सक्तिं बालो बध्नाति नेतरः

॥५॥

वाञ्छाकाले तुष्टये यत्तत्र वाञ्छैव कारणम् ।

तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज

॥४॥

यदि तत्पदमाप्तोऽसि कदाचित्कालपर्ययात् ।

तदहंभावनारूपे न मङ्क्तव्यं त्वया पुनः

॥५॥

आत्मज्ञानाचलस्याग्रे राम विश्रान्तवानसि ।

अहंभावमहाश्वभ्रे न पुनः पातमर्हसि

॥६॥

यत्स्मृतानन्तसद्दृष्टेर्ज्ञत्वमेरुशिरःस्थितेः ।

पुनर्गर्भानुकारान्तःपाताले पतनं कुतः

॥७॥

दृश्यते ते स्वभावोऽयं समतासत्यतामयः ।

मन्ये क्षीणविकल्पोऽसि जातोऽसि हतकालिकः

॥८॥

स्वभावे संस्थितो राम इत्यावेदयतीव मे ।

सौम्य पूर्णार्णवप्रख्या समता निर्मला तव

॥९॥

आशा यातु निराशत्वमभावं यातु भावनम् ।

अमनस्त्वं मनो यातु तवासङ्गेन जीवतः

॥१०॥

यां यां वस्तुदृशं यासि तस्यां तस्यामवस्थितम् ।

सत्तासामान्यरूपेण ब्रह्म बृंहितचिद्धनम्

॥११॥

अज्ञातात्मा निबद्धोऽसि विज्ञातात्मा न बध्यसे ।

राम त्वं स्वात्मनात्मानं बोधयस्व बलादतः

॥१२॥

यत्र न स्वदते वस्तु स्वदते च यथागतम् ।

अवासनत्वं तद्विद्धि साम्यमाकाशकोमलम्

॥१३॥

वासनारहितैरन्तरिन्द्रियैराहर क्रियाः ।

न विक्रियामवाप्नोषि खवत्क्षोभशतैरपि

॥१४॥

ज्ञाता ज्ञानं तथा ज्ञेयं त्रयमेकतयात्मनि ।

शान्तात्मानुभवाऽभव्यं न भूयो भवभागसि

॥१५॥

चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ ।

वासनाप्राणसंरोधादनिमेषं मनः कुरु

॥१६॥

प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ ।

तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु

॥१७॥

मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।

तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंयमैः

॥१८॥

यथा वातरजःसङ्गस्पन्दात्खं भाववेदनम् ।

तथा चितश्चेत्यतया स्पन्दादिदमुपस्थितम्

॥१९॥

दृश्यदर्शनसंबन्धस्पन्देनेयं जगद्गतिः ।

स्फुरत्यालोककुड्यादिसंगजा वर्णधीरिव

॥२०॥

दृश्यदर्शनसंबन्धस्पन्दाभावे न जायते ।

वेदना भवदाभासा चित्रपुंसामिवाशये

॥२१॥

चित्तस्पन्दोत्थिता माया तदभावे विलीयते ।

पयःस्पन्दोत्थिता वीचिस्तदभावे विनश्यति

॥२२॥

त्यागेन वासनांशस्य बोधाद्वा प्राणरोधनात् ।

चित्ते निस्पन्दतां याते कुतः स्पन्दस्य संभवः

॥२३॥

असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् ।

प्राणानां वा निरोधेन तदेव च परं पदम्

॥२४॥

दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् ।

तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्या मनःक्षयः

॥२५॥

यत्र नाभ्युदितं चित्तं तत्तत्सुखमकृत्रिमम् ।

न स्वर्गादौ संभवति मरौ हिमगृहं यथा

॥२६॥

चित्तोपशमजं स्फारमवाच्यं वचसा सुखम् ।

क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति

॥२७॥

बोधाद्भवति चित्तान्तो दुर्बोधाच्चित्तवेदिता ।

बालवेतालवत्तेन मोहश्रीर्घनतां गता

॥२८॥

विद्यमानमपि ह्येतच्चित्तं बोधाद्विलीयते ।

सदप्यसदिवाभाति ताम्रं हेमीकृतं यथा

॥२९॥

ज्ञस्य चित्तं न चित्ताख्यं ज्ञचित्तं सत्त्वमुच्यते ।

नामार्थान्यत्वभाक्चित्तं बोधात्ताम्रसुवर्णवत्

॥३०॥

न संभवति चित्तत्वं तेन तत्प्रविलीयते ।

भ्रमः शाम्यति बोधेन नाभावो विद्यते सतः

॥३१॥

अवस्त्वेव विकल्पात्म चित्तादि शशश्रृङ्गवत् ।

सर्वं तदात्मनस्तस्मात्तद्धि बोधाद्विलीयते

॥३२॥

चित्तं सत्त्वं समायातं किंचित्कालं जगत्स्थितौ ।

विहृत्य तुर्यावस्थायां तुर्यातीतं भवत्यतः

॥३३॥

ब्रह्मैव भूरिभवनभ्रमविभ्रमौघै-

रित्थं स्थितं सममनेकतयैकमेव ।

सर्वात्म संभवति नेतरदङ्ग किंचि-

च्चित्तादिकं च न हृदीव हि संनिवेशः

॥३४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पूर्वार्धे चित्तसत्तासूचनं नाम चतुश्चत्वारिंशः सर्गः ।। ४४ ।।