मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ७५

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 75

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ वर्षसहस्रेण तां पितामह आययौ ।

वरं पुत्रि गृहाणेति व्याजहार नभस्तलात्

॥१॥

सूची कर्मेन्द्रियाभावाज्जीवमात्रकलावती ।

न किंचिद्व्याजहारास्मै चिन्तयामास केवलम्

॥२॥

पूर्णास्मि गतसंदेहा किं वरेण करोम्यहम् ।

शाम्यामि परिनिर्वामि सुखमासे च केवलम्

॥३॥

ज्ञातं ज्ञातव्यमखिलं शान्ता संदेहजालिका ।

स्वविवेको विकसितः किमन्येन प्रयोजनम्

॥४॥

यथा स्थितेयमस्मीह संतिष्ठेयं तथैव हि ।

सत्यासत्यकलामेव त्यक्त्वा किमितरेण मे

॥५॥

एतावन्तमहं कालमविवेकेन योजिता ।

स्वसंकल्पसमुत्थेन वेतालेनेव बालिका

॥६॥

इदानीमुपशान्तोऽसौ स्वविचारणया स्वयम् ।

ईप्सितानीप्सितैरर्थः को भवेत्कलितैर्मम

॥७॥

इति निश्चययुक्तां तां सूचीं कर्मेन्द्रियोज्झिताम् ।

तूष्णींस्थिता सनियतिः स पश्यन्भगवान्स्थितः

॥८॥

ब्रह्मा पुनरुवाचेदं वीतरागां प्रसन्नधीः ।

वरं पुत्रि गृहाण त्वं किंचित्कालं च भूतले

॥९॥

भोगान्भुक्त्वा ततः पश्चाद्गमिष्यसि परं पदम् ।

अव्यावृत्तिस्वरूपाया नियतेरेष निश्चयः

॥१०॥

तपसानेन संकल्पः सफलोऽस्तु तवोत्तमे ।

पीना भव पुनः शैले हिमकाननराक्षसी

॥११॥

यया पूर्वं वियुक्तासि तन्वा जलदरूपया ।

बीजान्तवृक्षता पुत्रि बृहद्वृक्षतया यथा

॥१२॥

योगमेष्यसि भूयश्च तन्वान्तर्बीजरूपिणी ।

तयैव रससेकेन लतयेवाङ्कुरस्थितिः

॥१३॥

बाधां विदितवेद्यत्वान्न च लोके करिष्यसि ।

अन्तःशुद्धा स्पन्दवती शारदीवाभ्रमण्डली

॥१४॥

अश्रान्तध्याननिरता कदाचिल्लीलया यदि ।

भविष्यसि बहीरूपा सर्वात्मध्यानरूपिणी

॥७॥

व्यवहारात्मकध्यानधारणाधाररूपिणी ।

वातस्वभाववद्देहपरिस्पन्दाद्विलासिनी

॥१६॥

तदा विरोधिनी पुत्रि स्वकर्मस्पन्दरोधिनी ।

न्यायेन क्षुन्निवृत्त्यर्थं भूतबाधां करिष्यसि

॥१७॥

भविष्यसि न्यायवृत्तिर्लोके त्वन्यायबाधिका ।

जीवन्मुक्ततया देहे स्वविवेकैकपालिका

॥१८॥

इत्युक्त्वा गगनतलाज्जगाम देवः सूची सा भवतु ममेति किं विरोधः ।

रागो वाब्जजवचनार्थवारणेऽस्मिन्नित्यन्तः स्वतनुमयी मनाग्बभूव

॥१९॥

प्रादेशः प्रथममभूत्ततोऽपि हस्तो व्यामश्चाप्यथ विटपस्ततोऽभ्रमाला ।

सोद्यत्स्वावयवलता बभौ निमेषात्संकल्पद्रुमकणिकाङ्कुरक्रमेण

॥२०॥

तद्गात्राण्यविकलशक्तिमन्ति देहादुद्भूतान्यथ करणेन्द्रियाणि सम्यक् ।

संकल्पद्रुमवनपुष्पवत्समन्ताद्बीजौघान्यलमभवंस्तिरोहितानि

॥२१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूच्युपाख्याने सूचीशरीरलाभो नाम पञ्चसप्ततितमः सर्गः ।। ७५ ।।