मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 9

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

आकारजातमुदितं शुद्धं हरिहराद्यपि ।

अविद्यैवेत्यहं श्रुत्वा ब्रह्मन्भ्रममिवागतः

॥१॥

श्रीवसिष्ठ उवाच ।

संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च यत् ।

तत्सच्चिदाभासमयमस्तीह कलनोज्झितम्

॥२॥

समुदेति स्वतस्तस्मात्कला कलनरूपिणी ।

जलादावर्तलेखेव स्फुरज्जलतयोदिता

॥३॥

सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते त्रिधा ।

पश्चान्मनस्तया तेन ज्ञातैव वपुषा पुनः

॥४॥

तिष्ठत्येतास्ववस्थासु भेदतः कल्प्यते त्रिधा ।

सत्त्वं रजस्तम इति एषैव प्रकृतिः स्मृता

॥५॥

अविद्यां प्रकृतिं विद्धि गुणत्रितयधर्मिणीम् ।

एषैव संसृतिर्जन्तोरस्याः पारं परं पदम्

॥६॥

अत्र ते ये त्रयः प्रोक्ता गुणास्तेऽपि त्रिधा स्मृताः ।

सत्त्वं रजस्तम इति प्रत्येकं भिद्यते गुणः

॥७॥

नवधैवं विभक्तेयमविद्या गुणभेदतः ।

यावत्किंचिदिदं दृश्यमनयैव तदाश्रितम्

॥८॥

ऋषयो मुनयः सिद्धा नागा विद्याधराः सुराः ।

इति भागमविद्यायाः सात्त्विकं विद्धि राघव

॥९॥

सात्त्विकस्यास्य भागस्य नागविद्याधरास्तमः ।

रजस्तु मुनयः सिद्धाः सत्त्वं देवा हरादयः

॥१०॥

सत्त्वजातौ देवयोनावविद्या प्राकृतैर्गुणैः ।

निर्मलं पदमायाताः सत्त्वं हरिहरादयः

॥११॥

सात्त्विकः प्राकृतो भागो राम तज्ज्ञो हि यो भवेत् ।

न समुत्पद्यते भूयस्तेनासौ मुक्त उच्यते।

॥१२॥

तेन रुद्रादयो ह्येते सत्त्वभागा महामते ।

तिष्ठन्ति मुक्ताः पुरुषा यावद्देहं जगत्स्थितौ

॥१३॥

यावद्देहं महात्मानो जीवन्मुक्ता व्यवस्थिताः ।

विदेहमुक्ता देहान्ते स्थास्यन्ति परमेश्वरे

॥१४॥

भाग एष त्वविद्याया एवं विद्यात्वमागतः ।

बीजं फलत्वमायाति फलमायाति बीजताम्

॥१२॥

उदेत्यविद्या विद्यायाः सलिलादिव बुद्बुदः ।

विद्यायां लीयतेऽविद्या पयसीव हि बुद्बुदः

॥१६॥

पयस्तरङ्गयोर्द्वित्वभावनादेव भिन्नता ।

विद्याविद्यादृशोर्भेदभावनादेव भिन्नता

॥१७॥

पयस्तरङ्गयोरैक्यं यथैव परमार्थतः ।

नाविद्यात्वं न विद्यात्वमिह किंचन विद्यते

॥१८॥

विद्याविद्यादृशौ त्यक्त्वा यदस्तीह तदस्ति हि ।

प्रतियोगिव्यवच्छेदवशादेतद्रघूद्वह

॥१९॥

विद्याविद्यादृशौ न स्तः शेषे बद्धपदो भव ।

नाविद्यास्ति न विद्यास्ति कृतं कल्पनयानया

॥२०॥

किंचिदस्ति नकिंचिद्यच्चित्संविदिति तत्स्थितम् ।

तदेवाविदिताभासं सदविद्येत्युदाहृतम्

॥२१॥

विदितं सत्तदेवेदमविद्याक्षयसंज्ञितम् ।

विद्याभावादविद्याख्यामिथ्यैवोदेति कल्पना

॥२२॥

मिथः स्वान्ते तयोरन्तश्छायातपनयोरिव ।

अविद्यायां विलीनायां क्षीणे द्वे एव कल्पने

॥२३॥

एते राघव लीयेते अवाप्यं परिशिष्यते ।

अविद्यासंक्षयात्क्षीणो विद्यापक्षोऽपि राघव

॥२४॥

यच्छिष्टं तन्न किंचिद्वा किंचिद्वापीदमाततम् ।

तत्रैवं दृश्यते सर्वं न किंचन च दृश्यते

॥२५॥

वटश्च वटधानायामिव पुष्पफलादिमान् ।

सर्वशक्तिर्हि किंचित्त्वं सर्वशक्तिसमुद्गकम्

॥२६॥

नभसोऽप्यधिकं शून्यं नच शून्यं चिदात्मकम् ।

सूर्यकान्ते यथा वह्निर्यथा क्षीरे घृतं तथा

॥२७॥

तत्रेदं संस्थितं सर्वं देशकालक्रमोदये ।

यथा स्फुलिङ्गा अनलाद्यथा भासो दिवाकरात्

॥२८॥

तस्मात्तथेमा निर्यान्ति स्फुरन्त्याः संविदश्चितः ।

यथाम्भोधिस्तरङ्गाणां यथामलमणिस्त्विषाम्

॥२९॥

कोशो नित्यमनन्तानां तथा तत्संविदां त्विषाम् ।

सबाह्याभ्यन्तरे सर्वं वस्तुन्यस्त्येव वस्तुसत्

॥३०॥

सर्वदैवाविनाशात्म कुम्भानां गगनं यथा ।

यथा मणेरयःस्पन्दे अयस्कान्तस्य कर्तृता

॥३१॥

अकर्तुरेव हि तथा कर्तृता तस्य कथ्यते ।

मणिसंनिधिमात्रेण यथायः स्पन्दते जडम ।

तत्सत्तया तथैवायं देहश्चेतत्यचिद्वपुः

॥३२॥

तत्र स्थितं जगदिदं जगदेकबीजे

चिन्नाम्नि संविदितकल्पितकल्पनेन ।

लोलोर्मिजालमिव वारिणि चित्ररूपं

खादप्यरूपवति यत्र न किंचिदस्ति

॥३३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पू० विद्यानिराकरणं नाम नवमः सर्गः ।। ९ ।।