मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १२८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 128

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अस्मदादेर्जनस्यैतत्प्रत्यक्षं नानुमानिकम् ।

शुद्धबोधशरीरेण नाधिभौतिकरूपिणा

॥१॥

एतदस्मज्जगत्स्वप्ने नान्येषु कथितं मया ।

अन्येष्वस्ति जगत्स्वप्नेष्वेवमन्यापि च स्थितिः

॥२॥

जगत्स्वप्नेषु चान्येषु संस्थानकथनेन किम् ।

न ह्यौपयोगिकादन्या कथा भवति धीमताम्

॥३॥

सर्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे ।

येषामित्यनुमाऽशेषभूतौघे तेन पण्डिताः

॥४॥

प्रत्यक्षमेतदन्येषां यत्र तेऽन्ये जगद्भ्रमाः ।

नास्माकं विषये ते हि तथा संस्थानशोभिनः

॥५॥

सर्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे ।

सप्तद्वीपनिवासानां नान्येषामिति निश्चयः

॥६॥

प्रकृतं श्रृणु हे राम तद्ब्रह्माण्डकवाटकम् ।

यत्प्रमाणं ततो वारि बाह्ये दशगुणं स्थितम्

॥७॥

तद्ब्रह्माण्डकवाटं तु तृणं तृणमणिर्यथा ।

धत्ते वारि स्वभावेन नित्यं कल्पकरत्नवत्

॥८॥

सर्वेषामेव भावानां स्थितः कल्पकरत्नवत् ।

सर्वदा पार्थिवो भागस्तेनात्रैते पतन्त्यलम्

॥९॥

जलाद्दशगुणं बाह्ये स्थितं तेजो निरिन्धनम् ।

आकाशविशदं शान्तस्तब्धज्वालोदरोपमम्

॥१०॥

तस्माद्दशगुणो बाह्ये संस्थितो वायुरायतः ।

वायोर्दशगुणं बाह्ये व्योम तिष्ठति निर्मलम्

॥११॥

ततः परतरं शान्तं ब्रह्माकाशमनन्तकम् ।

न प्रकाशं न च तमो महाचिद्धनमव्ययम्

॥१२॥

अनादिमध्यपर्यन्ते तस्मिन्ब्रह्ममहाम्बरे ।

महाचिन्नाम्नि सर्वात्मन्ययोनिर्वाणरूपिणि

॥१३॥

ब्रह्माण्डानां तादृशानां दूरे दूरे पुनःपुनः ।

मिथोलक्षाणि लक्षाणि कचन्त्युपरमन्ति च

॥१४॥

न किंचित्कचयत्यत्र समे कचनरूपिणि ।

तादृद्ध्ययं तथारूपं तदात्मन्येव संस्थितम्

॥१५॥

एष ते कथितः सर्वो दृश्यानुभवनक्रमः ।

अधुना श्रृणु किंवृत्तं लोकालोके विपश्चितः

॥१६॥

स्वभ्यस्तपूर्वसंस्कारो विलसन्निश्चयेरितः ।

लोकालोकगिरेर्मूर्घ्नस्तमःश्वभ्रं पपात सः

॥१७॥

ददर्श तत्र शिखरप्रतिमैर्विहगैर्वपुः ।

विकर्तितं मनोदेहं प्रसृतं च स्वचिन्तिते

॥१८॥

देशस्य तस्य पुण्यत्वाद्देहं तच्चातिवाहिकम् ।

आधिभौतिकताबोधं नानयन्निर्मलाशयः

॥१९॥

तावन्मात्रप्रबोधोऽसौ नाधिकं बोधमागतः । चिन्तयित्वाऽसितं कार्यं बभूव प्रकृतेर्हितः ।।

श्रीराम उवाच ।

अदेहं प्रसरत्येतच्चित्तं कार्ये कथं मुने ।

आतिवाहिकसंवित्तेर्बोधः स्यात्कीदृशोऽधिकः

॥२१॥

श्रीवसिष्ठ उवाच ।

संकल्पपथिकत्वेन यथान्तःपुरवासिनः ।

इदं मनः प्रसरति तथास्य प्रसृतं मनः

॥२२॥

भ्रमे स्वप्ने मनोराज्ये मिथ्याज्ञाने कथाश्रुतौ ।

यथा मनः प्रसरति तथा तत्प्रसृतं मनः

॥२३॥

पतन्ति तु शरीरं तदातिवाहिकमुच्यते ।

आधिभौतिकधीर्भाति विस्मृत्यात्रैव कालतः

॥२४॥

ते तदान्तर्धिमायाते सर्परज्जुभ्रमोपमे ।

आधिभौतिकदेहेऽस्मिञ्छिष्यतेत्वातिवाहिकः

॥२५॥

आतिवाहिक एषोऽङ्ग निपुणं प्रविचार्यताम् ।

चिन्मात्रव्यतिरेकेण यावदत्रान्यदस्ति नो

॥२६॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।

चिन्मात्रस्यास्य तद्रूपमनन्तस्यैकरूपिणः

॥२७॥

क्व द्वैतं क्व च वा द्वेषः क्व रागादि तु कथ्यताम् ।

सर्वं शिवमनाद्यन्तं परो बोध इति स्मृतः

॥२८॥

निर्मनोमननं शान्तमासितं बोध उत्तमः ।

आतिवाहिकदेहस्थो न तं बोधमुपागतः

॥२९॥

विपश्चित्तद्विबोधोऽसौ ददर्श विसरन्मनः ।

आतिवाहिकबोधेन गर्भवासोपमं तमः

॥३०॥

तमसोऽन्ते विरिञ्चाण्डकवाटच्छेदभूतलम् ।

वज्रसारं हेममयं कोटियोजनविस्तृतम्

॥३१॥

तदन्ते प्राप सलिलं तस्मादष्टगुणं ततः ।

कपाटभूम्यैव समं स्थितमर्णवपृष्ठवत्

॥३२॥

तमतीत्य ततः प्राप तेजोऽर्कगणभीषणम् ।

प्रलयाग्निघनज्वालापिण्डकोटरभास्वरम्

॥३३॥

दाहशोकादिमुक्तेन वपुषा मानसेन तत् ।

तत्र गच्छन्त्य बुबुधे वहनं पूर्ववासितम्

॥३४॥

उह्यमानो विवेदासावात्मानं त्वातिवाहिकम् ।

चित्तमात्रात्मनः स्वस्य किमिवोह्यत इत्यपि

॥३५॥

इति बोधेन धीरात्मा तं तताराऽनिलार्णवम् ।

प्राप तद्विततं व्योम तस्माद्दशगुणं स्थितम्

॥३६॥

तदतिक्रम्य स प्राप ब्रह्माकाशमनन्तकम् ।

यत्र सर्वं यतः सर्वं यन्न किंचिच्च किंचन

॥३७॥

मनसा प्रभ्रमंस्तत्र दूराद्दूरतरं ययौ ।

तेन दृष्टं च पृथ्व्यापस्तेजो वायुस्तथा जगत्

॥३८॥

पुनः संसाररचनाः पुनः सर्गाः पुनर्दिशः ।

पुनर्महीधरा व्योम पुनर्देवाः पुनर्नराः

॥३९॥

पुनः पञ्चमहाभूतपर्यन्ते ब्रह्म निर्घनम् ।

पुनस्तत्र जगन्त्युच्चैः पुनः सर्गाः पुनर्दिशः

॥४०॥

ब्रह्माकाशस्ततः सर्गाः पुनरन्ये त्वनिष्ठिताः ।

इत्यसौ विहरन्दीर्घकालमद्यापि संस्थितः

॥४१॥

स्वनिश्चयाच्चिराभ्यस्तान्नासौ विरतिमेति हि ।

अन्तो नैवास्त्यविद्यायाः सा हि ब्रह्मैव सत्यता

॥४२॥

वस्तुतो नास्त्यविद्येह ब्रह्मण्यविकलात्मनि ।

इदं दृश्यमविद्येयमित्यात्मैष विकासितः

॥४३॥

यद्यथा जाग्रति स्वप्ने दृष्टं द्रक्ष्यसि पश्यसि ।

तत्तथा ब्रह्म सच्छान्तमासीदस्ति भविष्यति

॥४४॥

घनतमःप्रविलोकनचक्रकं

क्रमजगत्प्रतिभानमिदं महत् ।

परतया प्रतिभात्मतयानया

न च सदङ्ग न वाप्यसदाकृति

॥४५॥

तेष्वेव तेष्विव च तेषु तनूतरेषु

ब्रह्मोदरेषु चिरदूरतरं जगत्सु ।

सोऽद्याप्यसंविदिततत्त्वतया तयोच्चैः

खण्डेषु रङ्कुरिव राघव बंभ्रमीति

॥४६॥

इ० श्रीवा० वा० दे० मो० नि० उ० अ० वि० ब्रह्मगीतासु ब्रह्माकाशविपश्चिज्जगच्चन्द्रदर्शननामाष्टाविंशत्युत्तरशततमः सर्गः

॥१२८॥