मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १४८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 148

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

व्याध उवाच ।

एवं चेत्तन्मुनिश्रेष्ठ सत्यतासत्यता कथम् ।

स्थितः स्वप्नदृशा चैष सुमहान्संशयो मम

॥१॥

मुनिरुवाच ।

देशकालक्रियाद्रव्यैर्या संविन्निश्चितोदिता ।

काकतालीयवद्भाति सा सत्यस्वप्ननामिका

॥२॥

मणिमन्त्रौषधिद्रव्यैः क्वचिदव्यभिचारिणी ।

क्वचित्सव्यभिचारा चित्सत्यस्वप्नाभिधा स्मृता

॥३॥

सत्यस्वप्नस्थितिर्लोकेष्वीदृग्रूपा यदा स्थिता ।

तदैषा काकतालीयन्यायादन्या न लभ्यते

॥४॥

यं यं निश्चयमादत्ते संवित्स्वदृढनिश्चया ।

तथा तथा भवत्येषा फलयुक्तस्वभावतः

॥५॥

तमेव निश्चयं त्वस्या अन्यः प्रतिनिहन्ति चेत् ।

तत्रासौ निश्चयः प्रौढः स कथं लक्ष्यभाग्भवेत्

॥६॥

न बहिर्नान्तरे सन्ति पदार्थाः केचन क्वचित् ।

संविदेका जगद्रूपैर्यथेच्छति तथा स्थिता

॥७॥

स्वप्नोऽयं सत्य इत्यन्तर्निश्चयेन तथोदिता ।

तथैवाशु भवत्येषा संशयात्संशयं व्रजेत्

॥८॥

अन्यतोऽपि फलं प्राप्तं स्वप्नसत्यत्वकल्पनात् ।

स्वप्नेन सूचितमिदं फलमित्येव वेत्त्ययम्

॥९॥

सर्व एव निजया जगत्त्रये

संविदातिशयिता दृढा अपि ।

कालतो व्यभिचरन्ति देशतो

यत्नतश्च चिरतोऽचिरेण वा

॥१०॥

सर्गादावेव चिद्व्योम भानमप्रतिघं जगत् ।

वस्तुसत्तां चिदेवातो यथेष्टं तनुते तनुः

॥११॥

चिन्मात्रं वर्जयित्वैकं ब्रह्मान्यत्सर्वदाखिलम् ।

विद्धि सत्यमसत्यं च नियतानियतं स्थितम्

॥१२॥

यस्माद्ब्रह्मैव सर्वात्म सदेकमेव नेतरत् ।

तस्मात्किं नाम तत्सत्यं किमसत्यं च वा भवेत्

॥१३॥

अतः स्वप्नः क्वचित्सत्यः क्वचिच्चासत्य एव वा ।

अबुद्धानां प्रबुद्धानां नासद्रूपो न सन्मयः

॥१४॥

संविद्भ्रान्तिरियं भाति जगन्नाम्नी स्वरूपिणी ।

स्वयं च भ्रान्तिरस्मीतिवादिनी कात्र निश्चिता

॥१५॥

चितिरेव चिरायेदं चित्तं चिमचिमायते ।

यदात्मन्येव सलिलं द्रववत्तदिदं जगत्

॥१६॥

यथा स्वप्नं समालोक्य सुषुप्तमनुभूयते ।

तथा जाग्रत्समालोक्य निद्रा समनुभूयते

॥१७॥

अतस्त्वं जाग्रदेवेदं स्वप्नं विद्धि महामते ।

स्वप्नं च विद्धि जाग्रत्त्वमेकमेतदजं द्वयम्

॥१८॥

व्योमैवाचेत्यचिन्मात्रभानमेकमिदं ततम् ।

जाग्रत्स्वप्नसुषुप्त्याख्याः पर्यायरचना इह

॥१९॥

नेह नामास्ति नियतिर्न चानियतिरस्ति च ।

नियत्यनियती ब्रूहि कीदृशे स्वप्नसंविदि

॥२०॥

यावद्भानं किल स्वप्ने तावत्सैव नियन्त्रणा ।

स एव संविद्भानस्य कुर्यान्नियमनं मुनिः

॥२१॥

स्वच्छन्दं वातलेखायाः स्फुरन्त्याः संविदस्तथा ।

अकारणकमेवाङ्ग नियतिः केव कीदृशी

॥२२॥

अथाकारादि यन्नाम कल्प्यते कारणं विदः ।

तदकारणकं सर्गः स्यादनन्यन्न वै चितेः

॥२३॥

एतावत्येव नियतिरत्र यन्नाम यद्यथा ।

यावत्प्रस्फुरितं भानं तत्तथा न तदन्यथा

॥२४॥

कदाचित्सत्यता स्वप्ने कदाचिच्चाप्यसत्यता ।

अभावान्नियतेरेव काकतालीयमेव तत्

॥२५॥

यत्स्वेनैवात्मना भाति मणिमन्त्रौषधात्मना ।

यन्नाम नियतं तत्तु जाग्रत्यपि हि दृश्यते

॥२६॥

जाग्रत्स्वप्नश्च चिद्भानमात्रमेवान्यतात्र का ।

जाग्रति स्वप्ननगरे वेदनात्सदृशात्मकम्

॥२७॥

जाग्रन्न संभवत्येव यज्जाग्रदिति शब्दितम् ।

स्वप्न एव जगद्रूपं निर्निद्रस्यैव चात्मनः

॥२८॥

स्वप्नो वा नाम नास्त्येव यः स्वप्न इव शब्दितः ।

सुप्तासुप्तैकरूपस्य ब्रह्मणो बोधरूपता

॥२९॥

जाग्रत्स्वप्नादयो वैते न केचन कदाचन ।

दृश्यं पश्यति सत्ताशु मृतिभ्रान्तेरनन्तरम्

॥३०॥

यथानवरतं कालमनन्तं सीकरोर्मयः ।

त एवान्यवदभ्राशावदनन्याः स्फुरन्त्यलम्

॥३१॥

तथानन्ये परे सर्गाः स्फुरन्त्यस्फुरिता अपि ।

शिलाकोशान्तलेखावज्जाग्रत्स्वापादि तत्र किम्

॥३२॥

जाग्रत्स्वप्नसुषुप्ततुर्यकवपुः साकारतावर्जितं

सर्वाकारमपि व्यतीतकलनं सर्गं शरीरं दधत् ।

व्याप्तं चिद्वपुषा तथापि सुषिरं शून्येन दृश्यात्मना

चिन्मात्रं खमिदं मनागपि नभोमात्रान्न भिन्नं पुनः

साकाशानिलवह्निवारिधरणीलोकान्तराम्भोधरं

सर्गादावपि कारणाननुभवाच्चित्तात्मकं केवलम् ।

नाम्ना वर्जितमेव बोधवपुषा संयुक्तमेवान्ततः

शुद्धं वेदनमात्रमेव सकलं दृश्यं न वस्त्वन्तरम्

॥३४॥

इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वा० उ० अवि० वि० श० स्वप्ननिर्णयो नामाष्टचत्वारिंशदधिकशततमः सर्गः ।। १४८ ।।