मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः १६

3
योगवासिष्ठम् · उपशमप्रकरणम् · 16

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

स्वभावगम्भीरमेतद्भगवन्वचनं तव ।

यदहंकारतृष्णां त्वं मा गृहाणेति वक्षि माम्

॥१॥

यद्यहंकारसंत्यागं करोमि तदिदं प्रभो ।

त्यजामि देहनामानं संनिवेशमशेषतः ।।

जानुस्तम्भेन महता धार्यते सुतरुर्यथा ।

अहंकारेण देहोऽयं तथैव किल धार्यते

॥३॥

अहंकारक्षये देहः किलावश्यं विनश्यति ।

मूले क्रकचसंलूने सुमहानिव पादपः

॥४॥

तत्कथं संत्यजाम्येनं जीवामि च कथं मुने ।

एनमर्थं विनिश्चित्य वद मे वदतां वर

॥५॥

श्रीवसिष्ठ उवाच ।

सर्वत्र वासनात्यागो राम राजीवलोचन ।

द्विविधः कथ्यते तज्ज्ञैर्ज्ञेयो ध्येयश्च मानद ।।

अहमेषां पदार्थानामेते च मम जीवितम् ।

नाहमेभिर्विना कश्चिन्न मयैते विना किल

॥७॥

इत्यन्तर्निश्चयं कृत्वा विचार्य मनसा सह ।

नाहं पदार्थस्य न मे पदार्थ इति भाविते

॥८॥

अन्तःशीतलया बुद्ध्या कुर्वत्या लीलया क्रियाम् ।

यो नूनं वासनात्यागो ध्येयो राम स कीर्तितः

॥९॥

सर्वं समतया बुद्ध्वा यं कृत्वा वासनाक्षयम् ।

जहाति निर्ममो देहं ज्ञेयोऽसौ वासनाक्षयः

॥१०॥

अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।

तिष्ठति ध्येयसंत्यागी जीवन्मुक्तः स उच्यते

॥११॥

निर्मूलकलनां त्यक्त्वा वासनां यः शमं गतः ।

ज्ञेयत्यागमयं विद्धि मुक्तं तं रघुनन्दन

॥१२॥

ध्येयं तं वासनात्यागं कृत्वा तिष्ठन्ति लीलया ।

जीवन्मुक्ता महात्मानः सुजना जनकादयः

॥१३॥

ज्ञेयं तु वासनात्यागं कृत्वोपशममागताः ।

विदेहमुक्तास्तिष्ठन्ति ब्रह्मण्येव परावरे

॥१४॥

द्वावेव राघव त्यागौ समौ मुक्तपदे स्थितौ ।

द्वावेतौ ब्रह्मतां यातौ द्वावेव विगतज्वरौ

॥११॥

युक्तायुक्तमती स्वासे केवलं विमलेऽनघ ।

एकः स्थितः स्फुरद्देहः शान्तदेहः स्थितोऽपरः

॥१६॥

एकः सदेहो निर्मुक्तस्तिष्ठत्यपगतज्वरः ।

त्यक्तदेहो विमुक्तोऽन्यो वर्ततेऽज्ञेयवासनः

॥१७॥

आपतत्सु यथाकालं सुखदुःखेष्वनारतम् ।

न हृष्यति ग्लायति यः स मुक्त इति होच्यते

॥१८॥

ईप्सितानीप्सिते न स्तो यस्येष्टानिष्टवस्तुषु ।

सुषुप्तवच्चरति यः स मुक्त इति कथ्यते

॥१९॥

हेयोपादेयकलने ममेत्यहमिहेति च ।

यस्यान्तः संपरिक्षीणे स जीवन्मुक्त उच्यते

॥२०॥

हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।

न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते

॥२१॥

सुषुप्तवत्प्रशमितभाववृत्तिना

स्थितं सदा जाग्रति येन चेतसा ।

कलान्वितो विधुरिव यः सदा मुदा

निषेव्यते मुक्त इतीह स स्मृतः

॥२२॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ दिवसो जगाम

सायंतनाय विधयेऽस्तमिनो जगाम ।

स्नातुं सभा कृतनमस्करणा जगाम

श्यामाक्षये रविकरैश्च सहाजगाम

॥२३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे तृष्णाचिकित्सा नाम षोडशः सर्गः ।। १६ ।।