मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २००

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 200

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

निर्वाणवाक्यसंदर्भसमाप्तौ मुनिनायके ।

पाश्चात्यवाक्यविरतिं कुर्वति क्रमपालिताम्

॥१॥

निर्विकल्पसमाधानसमतां समुपागते ।

शान्तस्वच्छमनोवृत्तौ सर्वस्मिंश्च सभाजने

॥२॥

सत्त्वकोटिमुपारूढे परां पावनतां गते ।

संवित्तत्त्वे समग्रस्य जनस्य श्रुतशालिनः

॥३॥

झटित्येवाम्बरहृता पूर्वमुक्तधियां मुखात् ।

सिद्धानां साधुवादेन व्योमकोटरवासिनाम्

॥४॥

तथा सभास्थितानां च मुनीनां भावितात्मनाम् ।

गाधेयप्रमुखानां च साधुवादगिरोच्चया

॥५॥

कोलाहलः समुदभूद्भूरिपूरितदिंमुखः ।

मधुरः पवनात्तानां कीचकानामिवारवः

॥६॥

सिद्धानां साधुवादेन सह वै सहसा ततः ।

देवदुन्दुभयो नेदुः प्रतिश्रुत्पूरिताचलाः

॥७॥

देवदुन्दुभिभिः सार्धं तुषारासारसुन्दरी ।

दिग्भ्यः स्थगितदिक्चक्रा पुष्पवृष्टिः पपात ह

॥८॥

पुष्पौघपूरितस्थानः शब्दापूरितकन्दरः ।

रजःसंरञ्जिताकाशो गन्धरञ्जितमारुतः

॥९॥

स साधुवादशब्दस्य देवतूर्यरवस्य च ।

कुसुमासारघोषस्य समवायो रराज ह

॥१०॥

उन्मुखाखिलसभ्याक्षिरश्मिश्यामलितान्तरः ।

उत्कर्णमृगमातङ्गहयपक्षिपशुश्रुतः

॥११॥

सविस्मयभयोन्नेत्रबालकान्ताजनेक्षितः ।

विस्मयस्मेरवदनराजलोकावलोकितः

॥१२॥

कुसुमासारसारेण शब्दशोभातिशायिना ।

संरम्भेण जगामाशु रोदोरन्ध्रमपूर्वताम्

॥१३॥

पुष्पवर्षसुधाधौतं रटद्भूतसुघुंघुमम् ।

समतां सदनेनागात् ध्मातशङ्खशतेन खम्

॥१४॥

भुवनं भूरिभांकारभासुरं सुरचारणैः ।

वृतं मत्तोत्सवं रेजे समं कुसुममण्डितम्

॥१५॥

शनैर्दुन्दुभिसिद्धौघवाक्यपुष्पभरः समम् ।

प्रययौ रोदसीरन्ध्रे वेलाचलमिवाम्बुधौ

॥१६॥

तस्मिन्विबुधसंरम्भे क्षणेन समये गते ।

वाक्यानीमानि सिद्धानामभिव्यक्तिमुपाययुः

॥१७॥

सिद्धा ऊचुः ।

आकल्पं सिद्धसङ्घेषु मोक्षोपायाः सहस्रशः ।

व्याख्याताश्च श्रुताश्चालमीदृशास्तु न केचन

॥१८॥

तिर्यञ्चो वनिता वाला व्यालाश्चानेन निर्वृतिम् ।

मुनेर्वाक्यविलासेन यान्ति नास्त्यत्र संशयः

॥१९॥

दृष्टान्तैर्हेतुभिर्युक्त्या यथा रामोऽवबोधितः ।

तथा चारुन्धती साक्षात्संबोधयति वा न वा

॥२०॥

अनेन मोक्षोपायेन तिर्यञ्चोऽपि गतामयाः ।

स्थिता मुक्ता भविष्यन्ति के नाम भुवि नो नराः

॥२१॥

श्रवणाञ्जलिभिः पीत्वा ज्ञानामृतमिदं वयम् ।

परां पूर्णनवीभूतसिद्धयः श्रियमागताः

॥२२॥

इति शृण्वन्सभां लोको विस्मयोत्फुल्ललोचनः ।

कुसुमासारसंपूर्णां राजीवानां ददर्श ताम्

॥२३॥

मन्दारादिमहापुष्पच्छन्नच्छादनसंचयाम् ।

पारिभद्रलतागुच्छनीरन्ध्राजिरभूमिकाम्

॥२४॥

पारिजातप्रसूनाढ्यमहीतलविराजिताम् ।

संतानकमहाम्भोदव्याप्तसभ्यशिरःकराम्

॥२५॥

मौलिरत्नविटंकाग्रविश्रान्तहरिचन्दनाम् ।

वारिपूरप्रलम्बाभ्रवदालम्बिवितानकाम्

॥२६॥

इति पश्यन्सभां लोकः साधुवादेन भूरिणा ।

तत्कालोचितवाक्येन तेन तेन तथोद्यतः

॥२७॥

वसिष्ठं पूजयामास सर्वेन्द्रियगणानतः ।

कुसुमाञ्जलिमिश्रेण प्रणामसहितेन च

॥२८॥

नृपप्रणाममालासु किंचिच्छान्तासु तास्वथ ।

मुनिमापूजयन्नाह सार्घ्यपात्रकरो नृपः

॥२९॥

दशरथ उवाच ।

क्षयातिशयमुक्तेन परमेणात्मवस्तुना ।

परान्तः पूर्णतोत्पन्ना बोधेनारुन्धतीपते

॥३०॥

न तदस्ति महीपीठे दित्य देवेषु वापि च ।

महत्किंचिद्यदप्राप्तं तव पूज्यस्य पूजनम्

॥३१॥

तथाप्यात्मक्रमं ब्रह्मन्निमं नेतुमवन्ध्यताम् ।

अहं वच्मि यथाप्राप्तं न कोपं कर्तुमर्हसि

॥३२॥

आत्मना सकलत्रेण लोकद्वयशुभेन च ।

राज्येनाखिलभृत्येन भवन्तं पूजयाम्यहम्

॥३३॥

एतत्सर्वं तव विभो स्वायत्तं स्व इवाश्रमः ।

नियोजय यथादेशं यथाभिमतयेच्छया

॥३४॥

श्रीवसिष्ठ उवाच ।

प्रणाममात्रसंतुष्टा ब्राह्मणा भूपते वयम् ।

प्रणामेनैव तुष्यामः स एव भवता कृतः

॥३५॥

पातुं त्वमेव जानासि राज्यं भाति तवैव च ।

भवत्वेतत्तवैवेह ब्राह्मणाः क्व महीभृतः

॥३६॥

दशरथ उवाच ।

कियन्मात्रं तु राज्यं स्यादिति लज्जामहे मुने ।

प्रकर्षेणात्र तेनेश यथा जानासि तत्कुरु

॥३७॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तवति भूपाले रामः पुष्पाञ्जलिं ददत् ।

उवाच प्रणतो वाक्यं पुरस्तस्य महागुरोः

॥३८॥

निरुत्तरीकृतमहाराज ब्रह्मन्प्रणौमि ते ।

प्रणाममात्रसारोऽहं रामः पादाविमौ प्रभो

॥३९॥

इत्युक्त्वा पादयोस्तस्य शिरोवन्दनपूर्वकम् ।

तत्याजाञ्जलिपुष्पाणि हिमानीव वनं गिरेः

॥४०॥

आनन्दबाष्पसंपूर्णनयनो नयकोविदः ।

गुरुं परमया भक्त्या प्रणनाम पुनःपुनः

॥४१॥

शत्रुघ्नो लक्ष्मणश्चैव तथान्ये तत्समाश्च ये ।

निकटस्थास्तथैवाशु ते प्रणेमुर्मुनीश्वरम्

॥४२॥

दूरप्रणामैर्दूरस्थाः पुष्पाञ्जलिसमीरणैः ।

राजानो राजपुत्राश्च प्रणेमुर्मुनयश्च तम्

॥४३॥

अस्मिन्नवसरे तत्र कुसुमाञ्जलिवर्षणैः ।

हिमैरिव हिमाद्रीन्द्रो मुनिरन्तर्धिमाययौ

॥४४॥

अथ शान्ते सभाक्षोमे प्रणामनिवहे तथा ।

संस्मरञ्छासनं किंचित्सत्ये कृष्णसिताशयम्

॥४५॥

मुनिः कुसुमराशिं तं बाहुभ्यां प्रविचाल्य सः ।

मुखं संदर्शयामास सिताभ्रादिव चन्द्रमाः

॥४६॥

शान्ते सिद्धवचोराशौ तथा दुन्दुभिनिःस्वने ।

नभःकुसुमवर्षे च सभाकलकले तथा

॥४७॥

प्रणामानन्तरं तस्मिन्रामाद्यैः स्वसभाजने ।

शान्तवात इवाम्भोदे जने सौम्यत्वमागते

॥४८॥

आकर्णयन्साधुवादं विश्वामित्रं मृदुस्वनम् ।

उवाचेदमनिन्द्यात्मा वसिष्ठो मुनिनायकः

॥४९॥

मुने गाधिकुलाम्भोज वामदेव निमे क्रतो ।

भरद्वाज पुलस्त्यात्रे घृष्टे नारद शाण्डिले

॥५०॥

हे भासभृगुभारण्डवत्सवात्स्यायनादयः ।

मुनयस्तुच्छमेतन्नु भवद्भिर्मद्वचः श्रुतम्

॥५१॥

यदत्रानुचितं किंचित्तदनुग्रहतोऽधुना ।

दुरर्थं विगतार्थं वा भवन्तः कथयन्तु मे

॥५२॥

सभ्या ऊचुः ।

वसिष्ठवचने ब्रह्मन्परमार्थैकशालिनि ।

दुरर्थो भवतीत्यद्य नवैव खलु गीः श्रुता

॥५३॥

यत्संभृतमनन्तेन जन्मदोषेण नो मलम् ।

तत्प्रमृष्टं त्वयेहाद्य हेम्नामिव हविर्भुजा

॥५४॥

ब्रह्मबृंहितया वाचा विभो विकसिता वयम् ।

कुमुदानीन्दुदीप्त्येव परमामृतशीतया

॥५५॥

सर्वसत्त्वमहाबोधदायिनं मुनिनायकम् ।

भवन्तमेकान्तगुरुं प्रणमाम इमे वयम्

॥५६॥

श्रीवाल्मीकिरुवाच ।

इत्युक्त्वा मुनिनाथाय नमस्त इति ते पुनः ।

वदन्त एकशब्देन तारेणाब्दरवौजसा

॥५७॥

अर्वाक्पुष्पाञ्जलिव्रातैः खात्सिद्धैः सममुज्झितैः ।

वसिष्ठं पूरयामासुर्हिमैरब्दा इवाचलम्

॥५८॥

इत्थं दशरथं भूपं शशंसुश्चाथ राघवम् ।

माधवं चतुरात्मानं राघवोदन्तकोविदाः

॥५९॥

सिद्धा ऊचुः ।

नमाम चतुरात्मानं नारायणमिवापरम् ।

रामं सभ्रातरं जीवन्मुक्तं राजकुमारकम्

॥६०॥

चतुरब्धिनिखातान्तधरावलयपालकम् ।

त्रिकालस्थमहीपालचिह्नं दशरथं नृपम्

॥६१॥

मुनिसेनाधिपं भूपं भास्करं भूरितेजसम् ।

वसिष्ठं सुप्रवादाढ्यं विश्वामित्रं तपोनिधिम्

॥६२॥

एषामेव प्रभावेन ज्ञानयुक्तिं परामिमाम् ।

श्रुतवन्तो वयं सर्वे भ्रान्तिसंरम्भनाशिनीम्

॥६३॥

श्रीवाल्मीकिरुवाच ।

इत्युक्त्वा गगनात्सिद्धा भूयः पुष्पाणि चिक्षिपुः ।

सभायामथ तूष्णीं च तस्थुर्मुदितचेतसः

॥६४॥

तथैव व्योमगाः सिद्धाः शशंसुस्तं जनं पुनः ।

तथैव सभ्यास्तांस्तत्र समानर्चुर्घनस्तवम्

॥६१॥

नभश्चरा धरणिचरा मुनीश्वरा

महर्षयो विबुधगणा द्विजा नृपाः ।

अपूजयन्निति जनमोजसैव ते

गिरोच्चया सह कुसुमार्घ्यदानया

॥६६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० साधुवादसपर्यादिवर्णनं नाम द्विशततमः सर्गः ।। २०० ।।