मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २१६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 216

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवाल्मीकिरुवाच ।

एतत्ते कथितं राजन्कुम्भयोनेः सुभाषितम् ।

अमुना तत्त्वमार्गेण तत्पदं प्राप्स्यसि ध्रुवम्

॥१॥

राजोवाच ।

भगवन्भवतो दृष्टिर्भवबन्धविनाशनी ।

आलोकितो यया चाहमुत्तीर्णोऽस्मि भवाम्बुधेः

॥२॥

देवदूत उवाच ।

इत्युक्त्वासौ ततो राजा विस्मयोत्फुल्ललोचनः ।

उवाच वचनं मां तु मधुर श्लक्ष्णया गिरा

॥३॥

राजोवाच ।

देवदूत नमस्तुभ्यं कुशलं चास्तु ते विभो ।

सतां साप्तपदं मैत्रमित्युक्तं तत्त्वया कृतम्

॥४॥

इदानीं गच्छ भद्रं ते देवराजनिवेशनम् ।

अनेन श्रवणेनाहं निर्वृतो मुदितोऽपि च

॥५॥

श्रुतार्थं चिन्तयन्नत्र स्थास्यामि विगतज्वरः ।

इत्युक्तोऽहं ततो भद्रे परं विस्मयमागतः

॥६॥

न श्रुतं पूर्वमेवैतज्प्तानसारं श्रुतं मया ।

तेनैव मुदितश्चान्तः पीतामृत इवाधुना

॥७॥

ततो वाल्मीकिमापृच्छय आगतोऽस्मि त्वदन्तिके ।

एतत्ते सर्वमाख्यातं त्वया पृष्टं ममानघे ।

इतः परं गमिष्यामि शक्रस्य सदनं प्रति

॥८॥

अप्सरा उवाच ।

नमोऽस्तु ते महाभाग देवदूत त्वया मम ।

श्रावितादर्थविज्ञानात्परां निर्वृतिमागता

॥९॥

कृतार्था वीतशोकास्मि स्थास्यामि विगतज्वरा ।

इदानीं गच्छ भद्रं ते यथेच्छं शक्रसंनिधौ

॥१०॥

अग्निवेश्य उवाच ।

ततः सा सुरुचिः श्रेष्ठा तमेवार्थमचिन्तयत् ।

स्थिता सा हिमवत्पृष्ठे समीपे गन्धमादने

॥११॥

कच्चिदेतच्छ्रुतं पुत्र वसिष्ठस्योपदेशनम् ।

तत्सर्वमवधार्याथ यथेच्छसि तथा कुरु

॥१२॥

कारुण्य उवाच ।

स्मृतिर्वाग्दृष्टिसत्ता च स्वप्ने वन्ध्यासुतेऽजले ।

मरीचिका यथा तद्वज्ज्ञानात्सांसारिकी स्थितिः

॥१३॥

मम नास्ति कृतेनार्थो नाकृतेनेह कश्चन ।

यथाप्राप्तेन तिष्ठामि ह्यकर्मणि क आग्रहः

॥१४॥

अगस्तिरुवाच ।

इत्युक्त्वा नाम कारुण्य अग्निवेश्यसुतः कृती ।

प्राप्तकर्मा यथान्यायं काले काले ह्युपाहरत्

॥१५॥

संदेहोऽत्र न कर्तव्यः सुतीक्ष्ण ज्ञानकर्मणि ।

संशयाद्भ्रश्यते स्वार्थात्संशयात्मा विनश्यति

॥१६॥

एतच्छ्रुत्वा मुनेर्वाक्यमनेकार्थैक्यबोधनम् ।

नमस्कृत्य गुरुं प्राह अन्तिके विनयान्वितः

॥१७॥

सुतीक्ष्ण उवाच ।

नष्टमज्ञानतत्कार्यं प्राप्तं ज्ञानमनुत्तमम् ।

साक्षिणि स्फुरिताभासे ध्रुवे दीप इव क्रियाः

॥१८॥

सति यस्मिन्प्रवर्तन्ते वित्तेहाः स्पन्दपूर्विकाः ।

कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम्

॥१॥

पयसीव तरङ्गाली यस्मात्स्फुरति दृश्यभूः ।

तदेवेदं जगत्सर्वं पूर्णे पूर्णं व्यवस्थितम्

॥२०॥

यथाप्राप्तोऽनुवर्तामि को लङ्घयति सद्वचः ।

भगवंस्त्वत्प्रसादेन ज्ञातज्ञेयोऽस्मि संस्थितः

॥२१॥

कृतार्थोऽहं नमस्तेऽस्तु दण्डवत्पतितो भुवि ।

गुरोरुत्तीर्णता केन शिष्याणामस्ति कर्मणा

॥२२॥

कायवाङ्मनसा तस्माच्छिष्यैरात्मनिवेदनम् ।

गुरोरुत्तीर्णता सैव नान्या केनापि कर्मणा

॥२३॥

स्वामिंस्तव प्रसादेन उत्तीर्णोऽहं भवाम्बुधेः ।

आपूरितजगज्जालं स्थितोस्मि गतसंशयः

॥२४॥

यत्सर्वं खल्विदं ब्रह्म तज्जलानिति च स्फुटम् ।

श्रुत्वा ह्युदीर्यते साम्नि तस्मै ब्रह्मात्मने नमः

॥२५॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं

द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं

भावातीतं त्रिगुणरहितं श्रीवसिष्ठं नताःस्मः

॥२६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे बालकाण्डे द्वात्रिंशच्छतसाहस्र्यां संहितायां षोडशाधिकद्विशततमः सर्गः ।। २१६ ।।