मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ८३

3
योगवासिष्ठम् · उपशमप्रकरणम् · 83

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

भूयो मुनिवरो धीरो धिया धवलमेधया ।

स्वमिन्द्रियगणं गुप्तो बोधयामास साध्विदम्

॥१॥

तच्चेन्द्रियगणस्यार्थे श्रृणु वक्ष्यामि ते स्फुटम् ।

श्रुत्वा तद्भावनामेत्य परां निर्दुःखतां व्रज

॥२॥

भवतामात्मसत्तैषा दुःखायैवान्तदायिनी ।

असत्यामात्मनः सत्तां तद्भवन्तस्त्यजन्त्विति

॥३॥

मदीयेनोपदेशेन सत्तैषा भवतां क्षयम् ।

गतैवेति स्फुटं मन्ये यूयं ह्यज्ञानसंभवाः

॥४॥

स्वसत्ता स्फुटतां याति दुःखाय तव चित्तक ।

तप्तकाञ्चनरुल्लासो दाहायैव स्वपार्श्वयोः

॥५॥

पश्य त्वयि सति भ्रान्तजलकल्लोलसंकुलाः ।

विशन्ति कालजलधिं संसारसरितां गणाः

॥६॥

पतन्त्यहमहमिकाविहितान्योन्यचिन्तिताः ।

कुतोऽपि दुःखावलयो धारा आसारगा इव

॥७॥

परिस्फुरत्यपर्यन्ता हृदयोन्मूलनोद्यता ।

आक्रन्दकारिणी क्रूरा भावाभावविषूचिका

॥८॥

कासश्वासरणद्भृङ्गा कलेवरजरद्द्रुमे ।

विकसत्यमलोद्योता जरामरणमञ्जरी

॥९॥

कल्लोलव्यालवलिते शरीरश्वभ्रकोटरे ।

घननीहारखे स्वान्तश्चिन्ताचपलमर्कटी

॥१०॥

लोभनाट्यारटत्पक्षी तीक्ष्णया द्वन्द्वतुण्डया ।

कायजीर्णद्रुमादस्माद्गुणखण्डं निकृन्तति

॥११॥

हृदयावकरं कीर्णमितश्चेतश्च कर्कशः ।

अपवित्रो दुराचारः कुरुते कामकुक्कुटः

॥१२॥

महत्यां मोहयामिन्यामुल्बणोऽज्ञानकौशिकः ।

श्मशान इव वेतालः परिवल्गति हृद्द्रुमे

॥१३॥

एताश्चान्याश्च बह्व्योऽपि त्वयीन्द्रियगणे सति ।

पिशाच्य इव शर्वर्यां प्रवल्गन्त्यशुभश्रियः

॥१४॥

त्वयि त्वसति हे साधो सर्वा एव शुभश्रियः ।

प्रभात इव पद्मिन्यः सालोकं विलसन्त्यलम्

॥१५॥

प्रशान्तमोहमिहिकं राजते हृदयाम्बरम् ।

निर्मलालोकवलितं नीरजस्कतरान्तरम्

॥१५॥

अशङ्कितनभःकोशपतिताकुलपूरवत् ।

नापतन्ति विकल्पौघाश्चिरं वैकल्यकारिणः

॥१७॥

सर्वस्याह्लादनी शान्ता मैत्री परमपावनी ।

अभ्युदेति हृदो हृद्या सुतरोरिव मञ्जरी

॥१८॥

अन्तश्छिद्रवती जाड्ययुक्तायुक्तगुणा स्वयम् ।

चिन्ता शोषमुपायाति हिमदग्धेव पद्मिनी

॥१९॥

आलोकः स्फुटतामन्तरायात्यज्ञानसंक्षये ।

प्रशाम्यत्यम्बुदे व्योम्नि शरदीवार्कमण्डलम्

॥२०॥

प्रसन्नं स्फारगाम्भीर्यमक्षुब्धमपराहतम् ।

हृदयं समतामेति शान्तवात इवार्णवः

॥२१॥

अमृतापूरपूर्णेन नित्यानन्दमयेन च ।

स्थीयते पुरुषेणान्तः शीतेन शशिना यथा

॥२२॥

संविदः स्फुटतामन्तरायान्त्यज्ञानसंक्षये ।

संविदंशैकविश्रान्तं समग्रं सचराचरम्

॥२३॥

भाव्यते भरिताकारं वपुरानन्दमन्थरम् ।

न भवत्यसुसङ्गानामाशापाशविधायिनाम्

॥२४॥

दग्धानामिव पर्णानां रसानां पुनरागतिः । ।

पुंसां क्षपितसंसारजराजन्ममहाध्वनाम्

॥२५॥

अपुनर्भ्रमणायात्मद्रुमे विश्रम्यते चिरम् ।

एवंप्रायास्तथान्याश्च भवन्ति गुणसंपदः

॥२६॥

असति त्वयि सर्वाशिन्सर्वाशाक्षयसंक्षये ।

पक्षयोरेतयोश्चित्तसत्तासत्तास्वरूपयोः

॥२७॥

येनैव पश्यसि श्रेयस्तमेवाङ्गीकुरु क्षणम् ।

स्वात्मभावस्तव सुखं मन्ये मानवतां वर

॥२८॥

तमेव भावयाभावं सुखत्यागो हि मूढता ।

यदि त्वस्ति भवेत्सत्यमन्तर्भावितचेतनम्

॥२९॥

जीवतस्तत्तवात्यन्तमभावं क इवेच्छति ।

किंतु नास्त्यसि सत्येन वदामि तव सुन्दर

॥३०॥

तेन मिथ्यैव जीवामीत्याशया मा सुखी भव ।

पूर्वमेवासि नास्त्येव यावद्भ्रान्त्या त्वदस्तिता

॥३१॥

सैवेदानीं विचारेण भृशं क्षयमुपागता ।

एतावदेव ते रूपं साधो यदविचारणम्

॥३२॥

विचारे विहिते सम्यक्समरूपं समं स्थितम् ।

अविचारात्प्रजातं त्वमनालोकात्तमो यथा

॥३३॥

विचारेणोपशान्तं त्वमालोकेन तमो यथा ।

एतावन्तं सखे कालं बभूवाल्पविवेकिता

॥३४॥

तवानेनाभिपीनत्वमभूद्दुःखैककारणम् ।

मोहसंकल्पमात्रेण बालवेतालवद्भवेत्

॥३५॥

द्वन्द्वं चाद्यन्तसंकल्पक्षीणं क्षयि भव स्थितम् ।

इदानीमुदितं नित्यं स्वप्राग्रूपे क्षयं गते

॥३६॥

विवेकस्य प्रसादेन विवेकाय नमो नमः ।

बहुधापि प्रबुद्धस्त्वं चित्तकाप्यनुबोधितः

॥३७॥

चित्ततायां प्रनष्टायां स्थितस्त्वं परमेश्वरः ।

प्राक्स्वरूपविलासस्ते श्रेयसे स्थितिमागतः

॥३८॥

समस्तवासनोन्मुक्तः संप्रत्यसि महेश्वरः ।

यस्याविवेकादुत्पत्तिः स विवेकाद्विनश्यति

॥३९॥

प्रकाशेन प्रयात्यन्तमनालोकोऽभवत्तमः ।

अनिच्छतोऽपि ते साधो विचारे स्थितिमागते

॥४०॥

सर्वतोऽयमुपायातो विनाशः सुखसिद्धये ।

तस्मान्नास्त्यसि निर्णीतमिति सिद्धान्तयुक्तिभिः

॥४१॥

चित्तेन्द्रियेश्वर स्वस्ति भवते त्वन्तमागतः ।

नित्यं पूर्वमभूताय नास्तिरूपाय संप्रति

॥४२॥

भविष्यते च नोदर्कं स्वमनः स्वस्ति तेऽस्त्विति ।

परिनिर्वामिशान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः

॥४३॥

स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदे स्थितः ।

अतो नास्त्येव नास्त्येव संसारे चित्तमस्थिति

॥४४॥

आत्मा त्वस्त्वेव चास्त्वेव यस्मादन्यत्र विद्यते ।

अयमात्माहमेवासौ नास्त्यन्यन्मदृते क्वचित्

॥४५॥

स्फुरच्चिदेव बोधात्मा सर्वत्राहं स्थितः सदा ।

अयमात्मेति कलना मन्ये नो निर्मलान्तरे

॥४६॥

प्रतियोगिव्यवच्छेदकलनैकस्य वै कुतः ।

अहं तेनायमात्मेति कलनामनुदाहरन् ।

मौनी स्वात्मनि तिष्ठामि तरङ्ग इव वारिणि

॥४७॥

संशान्तवासनमनाश्रितचेतनांश-

मप्राणसंचरणमस्तमितांशदोषम् ।

संवेद्यवर्जितमुपेत्य सुसंविदंशं

शाम्यामि मौनमहमेव निरीहमन्तः

॥४८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तासत्ताविचारयोगोपदेशो नाम त्र्यशीतितमः सर्गः ।। ८३ ।।