मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ७७

3
योगवासिष्ठम् · उपशमप्रकरणम् · 77

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

समासेन मुने भूयो दृष्टतत्त्वचमत्कृतेः ।

कथयोदारवृत्तान्तं कस्ते वचसि तृप्यति

॥१॥

श्रीवसिष्ठ उवाच ।

जीवन्मुक्तस्य बहुधा कथितं लक्षणं मया ।

भूयोऽपि त्वं महाबाहो कथ्यमानमिदं श्रृणु

॥२॥

सुषुप्तवदिदं नित्यं पश्यत्यपगतैषणः ।

असद्रूपमिवासक्तं सर्वत्राखिलमात्मवान्

॥३॥

कैवल्यमिव संप्राप्तः परिसुप्तमना इव ।

घूर्णमान इवानन्दी तिष्ठत्यधिगतात्मदृक्

॥४॥

नादत्तमप्युपादत्ते गृहीतमपि पाणिना ।

अन्तर्मुखतयोदात्तरूपया समया धिया

॥५॥

यन्त्रपुत्रकसंचार इतीमं जनताक्रमम् ।

अन्तःसंलीनया दृष्ट्या पश्यन्हसति शान्तधीः

॥६॥

नापेक्षते भविष्यं च वर्तमाने न तिष्ठति ।

न संस्मरत्यतीतं च सर्वमेव करोति च

॥७॥

सुप्तः प्रबुद्धो भवति प्रबुद्धोऽपि च सुप्तवान् ।

सर्वं कर्म करोत्यन्तर्न करोति च किंचन

॥८॥

अन्तःसर्वपरित्यागी नित्यमन्तरनेषणः ।

कुर्वन्नपि बहिः कार्यं सममेवावतिष्ठते

॥९॥

बहिः प्रकृतसर्वेहो यथाप्राप्तक्रियोन्मुखः ।

स्वकर्मक्रमसंप्राप्तबन्धुकार्यानुवृत्तिमान्

॥१०॥

समग्रसुखभोगात्मा सर्वाशास्विव संस्थितः ।

करोत्यखिलकर्माणि त्यक्तकर्तृत्वविभ्रमः

॥११॥

उदासीनवदासीनः प्रकृतः क्रमकर्मसु ।

नाभिवाञ्छति न द्वेष्टि न शोचति न हृष्यति

॥१२॥

अनुबन्धपरे जन्तावसंसक्तेन चेतसा ।

भक्ते भक्तसमाचारः शठे शठ इव स्थितः

॥१३॥

बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् ।

युवा यौवनवृत्तेषु दुःखितेष्वनु दुःखितः

॥१४॥

प्रवृत्तवाक्पुण्यकथो दैन्याद्व्यपगताशयः ।

धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः

॥१५॥

प्राज्ञः प्रसन्नमधुरः पूर्णः स्वप्रतिभोदये ।

निरस्तखेददौर्गत्यः सर्वस्मिन्स्निग्धबान्धवः

॥१६॥

उदारचरिताकारः समः सौम्यसुखोदधिः ।

सुस्निग्धः शीतलस्पर्शः पूर्णचन्द्र इवोदितः

॥१७॥

न तस्य सुकृतेनार्थो न भोगैर्न च कर्मभिः ।

न दुष्कृतैर्न भोगानां संत्यागेन न बन्धुभिः

॥१८॥

न कार्यकारणारम्भैर्न निष्कृततया तथा ।

न बन्धेन न मोक्षेण न पातालेन नो दिवा

॥१९॥

यथावस्तु यथादृष्टं जगदेकमयात्मकम् ।

तदा बन्धविमोक्षाणां न क्वचित्कृपणं मनः

॥२०॥

सम्यग्ज्ञानाग्निना यस्य दग्धाः संदेहजालिकाः ।

निःशङ्कमलमुड्डीनस्तस्य चित्तविहङ्गमः

॥२१॥

यस्य भ्रान्तिविनिर्मुक्तं मनः समरसं स्थितम् ।

नास्तमेति न चोदेति व्योमवत्सर्वदृष्टिषु

॥२२॥

मंजूषायां निषण्णस्य यथा बालस्य चेष्टते ।

अङ्गावल्यनुसंधानवर्जितं यस्य वै तथा

॥२३॥

घूर्णन्क्षीव इवानन्दी मन्दीभूतपुनर्भवः ।

अनुपादेयबुद्ध्या तु न स्मरत्यकृतं कृतम्

॥२४॥

सर्व सर्वप्रकारेण गृह्णाति च जहाति च ।

अनुपादेयसर्वार्थो बालवच्च विचेष्टते

॥२५॥

स तिष्ठन्नपि कार्येषु देशकालक्रियाक्रमैः ।

न कार्यसुखदुःखाभ्यां मनागपि हि गृह्यते

॥२६॥

बहिः प्रकृतसर्वार्थोऽप्यन्तः पुनरनीहया ।

न सत्तां योजयत्यर्थे न फलान्यनुधावति

॥२७॥

नोपेक्षते दुःखदशां न सुखाशामपेक्षते ।

कार्योदये नैति मुदं कार्यनाशे न खिद्यते

॥२८॥

अपि शीतरुचावर्के सुतप्तेऽपीन्दुमण्डले ।

अप्यधः प्रसरत्यग्नौ विस्मयोऽस्य न जायते

॥२९॥

चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः ।

इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम्

॥३०॥

न दयादैन्यमादत्ते न क्रौर्यमनुधावति ।

न लज्जामनुसंधत्ते नालज्जत्वं च गच्छति

॥३१॥

न कदाचन दीनात्मा नोद्धतात्मा कदाचन ।

न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान्

॥३२॥

नास्य चेतसि सुस्फारे शरदम्बरनिर्मले ।

कोपादयः प्रजायन्ते नभसीव नवाङ्कुराः

॥३३॥

अनारतपतज्जातभूतायां जगतः स्थितौ ।

क्व कथं किल कासौ स्यात्सुखिताऽसुखिताथवा

॥३४॥

फेनाजवं जवीभावे जले भूतक्रमे तथा ।

क्व किलेदं कुतः कोऽतः प्रसङ्गः सुखदुःखयोः

॥३५॥

भावाभावैरपर्यन्तैरजस्रं जन्तुसंभवैः ।

न विशीर्यन्ति नोद्यन्ति दृष्टिसृष्टिक्षमा नराः

॥३६॥

निमेषं प्रति यामिन्यां यथान्याः स्वप्नदृष्टयः ।

क्षणोत्पत्तिविनाशिन्यस्तथैता लोकदृष्टयः

॥३७॥

अनारतसमुत्पत्तावनारतविनाशिनि ।

कः क्रमो दग्धसंसारे कारुण्यानन्दयोरिह

॥३८॥

शुभाभावात्सुखाभावे स्थितिं याते विलक्षणाः ।

कीदृश्यः कथमायाताः क्व वा ता दुःखसंविदः

॥३९॥

सुखसंवेदनान्तोत्था स्वबीजं वितनोति या ।

शान्ता दुःखदशा सेयं कथमन्तर्हिते सुखे

॥४०॥

क्षीणाभ्यां सुखदुःखाभ्यां हेयोपादेययोः क्षये ।

ईप्सितानीप्सिते क्व स्तो गलितेऽथ शुभाशुभे

॥४१॥

रम्यारम्यदृशोर्नाशाद्याते भोगाभिवाञ्छने ।

नैराश्ये संततं प्रौढे हिमवद्विगलेन्मनः

॥४२॥

आमूलान्मनसि क्षीणे संकल्पस्य कथा च का ।

तिलेष्विवातिदग्धेषु तैलस्य कलना कुतः

॥४३॥

भावेष्वभावघनभावनया महात्मा

निर्मुक्तसंकलनमम्बरवत्स्थितेषु ।

चित्तं प्रति स्वमुदितो विततैकरूपी

ज्ञस्तिष्ठति स्वपिति जीवति नित्यतृप्तः

॥४४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तस्वरूपवर्णनं नाम सप्तसप्ततितमः सर्गः ।।७७।।