मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ८५

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 85

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

पुरा मे ब्रह्मणा प्रोक्तं सर्वं तत्कथयानघ ।

यदिदं तत्प्रवक्ष्यामि त्वयि पृच्छति राघव

॥१॥

पुरा मया हि भगवान्पृष्टः कमलसंभवः ।

इमे कथमुपायान्ति ब्रह्मन्सर्गगणा इति

॥२॥

तदुपाश्रुत्य भगवान्ब्रह्मा लोकपितामहः ।

ऐन्दवाख्यानसहितं मामुवाच बृहद्वचः

॥३॥

ब्रह्मोवाच ।

सर्वं हि मन एवेदमित्थं स्फुरति भूतिमत् ।

जलं जलाशयस्फारैर्विचित्रैश्चक्रकैरिव

॥४॥

दिनादौ संप्रबुद्धस्य संसारं सृष्टुमिच्छतः ।

पुराकल्पे हि कस्मिश्चिच्छृणु किं वृत्तमङ्ग मे

॥५॥

कदाचिदखिलं सर्गं संहृत्य दिवसक्षये ।

एक एवाहमेकाग्रः स्वस्थस्तामनयं निशाम्

॥६॥

निशान्ते संप्रबुद्धात्मा संध्यां कृत्वा यथाविधि ।

प्रजाः स्रष्टुं दृशौ स्फारे व्योम्नि योजितवानहम्

॥७॥

यावत्पश्यामि गगनं न तमोभिर्न तेजसा ।

व्याप्तमत्यन्तविततं शून्यमन्तविवर्जितम्

॥८॥

सर्गं संकल्पयामीति मतिं निश्चित्य तन्मया ।

समवेक्षितुमारब्धं शुद्धं सूक्ष्मेण चेतसा

॥९॥

अथाहं दृष्टवांस्तत्र मनसा विततेऽम्बरे ।

पृथक्स्थितान्महारम्भान्सर्गान्स्थितिनिरर्गलान्

॥१०॥

तेषु मत्प्रतिबिम्बाभाः पद्मकोशनिवासिनः ।

राजहंसान्समारूढाः संस्थिता दश पद्मजाः

॥११॥

पृथक्स्थितेषु सर्गेषु तेषूद्यद्भूतपङ्क्तिषु ।

जलजालेषु शुद्धेषु जगत्सु जलदायिषु

॥१२॥

प्रवहन्ति महानद्यः प्रध्वनन्ति यथाब्धयः ।

प्रतपन्त्युष्णरुचयः प्रस्फुरन्त्यम्बरेऽनिलाः

॥१३॥

दिवि क्रीडन्ति विबुधा भुवि क्रीडन्ति मानवाः ।

दानवा भोगिनश्चैव पातालेषु च संस्थिताः

॥१४॥

कालचक्रपरिप्रोता यद्भावाः सकलर्तवः ।

यथाकालं फलापूर्णा भूषयन्त्यभितो महीम्

॥१५॥

प्रौढ्यं शुभाशुभाचारस्मृतयः ककुभं प्रति ।

नरकस्वर्गफलदाः सर्वत्र समुपागताः

॥१६॥

भोगमोक्षफलार्थिन्यः समस्ता भूतजातयः ।

स्वमीहितं यथाकालं प्रयतन्ते यथाक्रमम्

॥१७॥

सप्तलोकास्तथा द्वीपाः समुद्रा गिरयस्तथा ।

अप्येष्यमाणाः कल्पान्तं स्फुरन्त्युरुतरारवम्

॥१८॥

क्वचिद्भासित्वमायातं क्वचित्स्थिरतरं स्थितम् ।

स्थितं सर्वत्र कुञ्जेषु तमस्तेजोलवादृतम्

॥१९॥

नभोनीलोत्पलस्यान्तर्भ्रमदभ्रमधुव्रतम् ।

प्रस्फुरत्तारकाजालकेसरापूर्णतां गतम्

॥२०॥

कल्पान्तघननीहारो मेरुकुञ्जेषु संस्थितः ।

शाल्मलेरमलं तूलमष्ठीलाकोटरेष्विव

॥२१॥

लोकालोकाद्रिरसनारणदर्णवघुंघुमा ।

तमःखण्डेन्द्रनीलाभा निजरत्नविराजिता

॥२२॥

धानाधरसुधा भूतरवकाकलिघुंघुमा ।

संस्थिता भुवनाभोगे स्वान्तःपुर इवाङ्गना

॥२३॥

गौराङ्गपङक्तिर्मध्यस्था रजनीराजिरञ्जिता ।

पद्मोत्पलस्रज इव लक्ष्यते वत्सरश्रियः

॥२४॥

बहुगर्तविभागस्थभूता लोकाः पृथक्पृथक् ।

जातारुणा विलोक्यन्तेदाडिमानीवकान्तिकाः

॥२५॥

त्रिप्रवाहा त्रिपथगा कृतोर्ध्वाधोगमागमा ।

जगद्यज्ञोपवीताभा स्फुरतीन्दुकलामला

॥२६॥

इतश्चेतश्च गच्छन्ति शीर्यन्ते प्रोद्भवन्ति च ।

दिग्लतासु तडित्पुष्पा वातार्ता मेघपल्लवाः

॥२७॥

गन्धर्वनगरोद्यानलतावितानमालिनी ।

समुद्रभूमिनभसां पदवी प्रविराजते

॥२८॥

लोकान्तरेषु सङ्घेन देवासुरनरोरगाः ।

उदुम्बरेषु मशका इव घुंघुमिताः स्थिताः

॥२९॥

युगकल्पक्षणलवकलाकाष्ठाकलङ्कितः ।

कालो वहत्यकलितसर्वनाशप्रतीक्षकः

॥३०॥

एवमालोक्य शुद्धेन परेण स्वेन चेतसा ।

भृशं विस्मयमापन्नः किमेतत्कथमित्यलम्

॥३१॥

कथं मांसमयेनाक्ष्णा यन्न पश्यामि किंचन ।

तन्मायाजालमतुलं पश्यामि मनसाम्बरे

॥३२॥

अथालोक्य चिरं कालं मनसैवाहमम्बरात् ।

अर्कं तस्माज्जगज्जालादेकमानीय पृष्टवान्

॥३३॥

आगच्छ देवदेवेश भो भास्कर महाद्युते ।

स्वागतं तेऽस्त्विति प्रोक्तो मयासौ कथितोप्यथ

॥३४॥

कस्त्वं कथमिदं जातं जगदेव जगन्ति च ।

यदि जानासि भगवंस्तदेतत्कथयानघ

॥३५॥

इत्युक्तो मां समालोक्य संपरिज्ञातवानथ ।

नमस्कृत्वाभ्युवाचेदमनिन्द्यपदया गिरा

॥३६॥

श्रीभानुरुवाच ।

अस्य दृश्यप्रपञ्चस्य नित्यं कारणतामसि ।

गतः कस्मान्न जानीषे किं मामीश्वर पृच्छसि

॥३७॥

अथ मद्वाक्यसंदर्भे लीला चेत्तव सर्वग ।

अचिन्तितां मदुत्पत्तिं तच्छृणुष्व वदाम्यहम्

॥३८॥

सदसदिति कलाभिराततं यत्

सदसदबोधविमोहदायिनीभिः ।

अविरतरचनाभिरीश्वरात्मन्

प्रविलसतीह मनो महन्महात्मन्

॥३९॥

इत्यार्षे श्रीवशिष्ठमहारामायणे वा० मो० उ० ऐन्दवोपाख्यानोपक्रमे ब्रह्मादित्यसमागमो नाम पञ्चाशीतितमः सर्गः ।। ८५ ।।