मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ३३

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 33

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

सर्वातिशयसाफल्यात्सर्वं सर्वत्र सर्वदा ।

संभवत्येव तस्मात्त्वं शुभोद्योगं न संत्यज

॥१॥

मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना ।

सरसीशानमासाद्य मृत्युरप्युपनिर्जितः

॥२॥

सर्वोत्कर्षेण संपन्ना देवा अपि विमर्दिताः ।

दानवैर्दानवार्थाढ्यैर्गजैः पद्माकरा इव

॥३॥

मरुत्तनृपतेर्यज्ञे संवर्तेन महर्षिणा ।

ब्रह्मणेवापरः सर्गो भावितः ससुरासुरः

॥४॥

महातिशययुक्तेन विश्वामित्रेण विप्रता ।

भूयोभूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता

॥५॥

पिष्टसेकाम्बु दुष्प्रापं रसायनवदश्नता ।

दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना

॥६॥

त्रैलोक्यमल्लांस्तृणवदश्नन्विष्ण्वलजादिकान् ।

भक्त्यातिशयदार्ढ्येन कालः श्वेतेन कालितः

॥७॥

प्रणयेन यमं जित्वा कृत्वा वचनसंगमम् ।

परलोकादुपानीतः सावित्र्या सत्यवान्पतिः

॥८॥

न सोऽस्त्यतिशयो लोके यस्यास्ति न फलं स्फुटम् ।

भवितव्यं विचार्यान्तः सर्वातिशयशालिना

॥९॥

आत्मज्ञानमशेषाणां सुखदुःखदशादृशाम् ।

मूलकाषकरं तस्माद्भाव्यं तत्रातिशायिना

॥१०॥

नाशायापद्गतार्थिन्या दृष्ट्या दृश्यादिदृष्टयः ।

दुःखादृते निराबाधं सुखं किं चिदवाप्यते

॥११॥

अशमः परमं ब्रह्म शमश्च परमं पदम् ।

यद्यप्येवं तथाप्येनं प्रथमं विद्धि शंकरम्

॥१२॥

अभिमानं परित्यज्य शममाश्रित्य शाश्वतम् ।

विचार्य प्रज्ञयार्यत्वं कुर्यात्सज्जनसेवनम्

॥१३॥

न तपांसि न तीर्थानि न शास्त्राणि जयन्ति च ।

संसारसागरोत्तारे सज्जनासेवनं विना

॥१४॥

लोभमोहरुषां यस्य तनुतानुदिनं भवेत् ।

यथाशास्त्रं विहरति स्वस्वकर्मसु सज्जनः

॥१५॥

अथात्मविदुषां सङ्गात्तस्य साधोः प्रवर्तते ।

अत्यन्ताभाव एवास्य यथा दृश्यस्य दृश्यते

॥१६॥

दृश्यात्यन्ताभावतस्तु परमेवावशिष्यते ।

अन्याभाववशादाशु जीवस्तत्रैव लीयते

॥१७॥

नचोत्पन्नं नचैवासीद्दृश्यं नच भविष्यति ।

वर्तमानेऽपि नैवास्ति परमेवास्त्यवेधितम्

॥१८॥

एवं युक्तिसहस्रेण दर्शितं दृश्यतेऽपि च ।

सर्वैरेवानुभूतं च दर्शयिष्यामि चाधुना

॥१९॥

तथेदममलं शान्तं त्रिजगत्संविदम्बरम् ।

इदं तत्त्वमतत्त्वादि कुतोऽत्र स्यात्कथं च वा

॥२०॥

चिच्चमत्कुरुते चारु चञ्चलाऽचञ्चलात्मनि ।

यत्तयैव तदेवेदं जगदित्यवबुध्यते

॥२१॥

त्रैलोक्यभूयोनुभवश्चिदादित्यांशुमण्डलम् ।

को वा स्वांशुमतोर्भेदो निर्विकल्पःस कथ्यताम्

॥२२॥

स्वाभावतोऽस्याश्चिदृष्टेर्ये उन्मेषनिमेषणे ।

जगद्रूपानुभूतेस्तावेतावस्तमयोदयौ

॥२३॥

अहमर्थोऽपरिज्ञातः परमार्थाम्बरे मलम् ।

परिज्ञातोऽहमर्थस्तु परमात्माम्बरं भवेत्

॥२४॥

अहंभावः परिज्ञातो नाहंभावो भवत्यलम् ।

एकतामम्बुनेवाम्बु याति चिन्नभसात्मना

॥२५॥

अहमादिजगद्दृश्यं किल नास्त्येव वस्तुतः ।

अवश्यमेव तत्तस्माच्छिष्यतेऽहंविचारतः

॥२६॥

बाध्यते चामलधियामपिशाचे पिशाचधीः ।

शिशूनां तावदाध्वान्तःकरणानां विचारणा

॥२७॥

चिज्ज्योत्स्ना यावदेवान्तरहंकारघनावृता ।

विकासयति नो तावत्परमार्थकुमुद्वतीम्

॥२८॥

प्रमार्जितेऽहमित्यस्मिन्पदे स्वार्थे स्वयं विना ।

नरकस्वर्गमोक्षादितृष्णायाः कल्पनैव का

॥२९॥

हृदि यावदहंभावो वारिदः प्रविजृम्भते ।

तावद्विकासमायाति तृष्णाकुटजमञ्जरी

॥३०॥

आक्रम्य चेतनां नित्यमहंकाराम्बुदे स्थिते ।

जाड्यमेव स्थितिं याति न प्रकाशः कदाचन

॥३१॥

असन्नयमहंकारः स्वयं मिथ्या प्रकल्पितः ।

दुःखायैव न हर्षाय बालसंभ्रमयक्षवत्

॥३२॥

मुधैव कल्पितो मोहमहंभावः प्रयच्छति ।

अनन्तसंसारकरं दामादिष्विव दुर्मतौ

॥३३॥

अयं सोऽहमिति स्फारान्मोहादन्यतरत्तमः ।

अनर्थभूतं संसारे न भूतं न भविष्यति

॥३४॥

यत्किंचिदिदमायाति सुखदुःखमलं भवे ।

तदहंकारचक्रस्य प्रविकारो विजृम्भते

॥३५॥

अहंकाराङ्कुरः कृष्टो हृदयेनावरोपितः ।

सहस्रशाखं दुश्छेदं तस्य संसृतिनाशनम्

॥३६॥

अहंभावोऽङ्कुरो जन्म वृक्षाणामक्षयात्मनाम् ।

ममेदमिति विस्तीर्णास्तेषां शाखाः सहस्रशः

॥३७॥

करटापातविस्फोटा भान्त्यर्था वासनादयः ।

विचार्यचारुरववत्तरङ्गवरपङ्किवत्

॥३८॥

अहंभावनया भाति त्वमहंभाववर्जितः ।

संसारचक्रवहनमात्मनः परिरोधया

॥३९॥

अहंभावतमो यावज्जन्मारण्ये विजृम्भते ।

तावदेता विवल्गन्ति चिन्तामत्ताः पिशाचिकाः

॥४०॥

अहंकारपिशाचेन गृहीतो यो नराधमः ।

न शास्त्राणि न मन्त्राश्च तस्याभावस्य सिद्धये

॥४१॥

श्रीराम उवाच ।

केनोपायेन भगवन्नहंकारो न वर्धते ।

तं त्वं कथय मे ब्रह्मन्संसारभयशान्तये

॥४२॥

श्रीवसिष्ठ उवाच ।

चिन्मात्रदर्पणाकारे निर्मले स्वात्मनि स्थिते ।

इति भावानुसंधानादहंकारो न वर्धते

॥४३॥

मिथ्येयमिन्द्रजालश्रीः किं मे स्नेहविरागयोः ।

इत्यन्तरानुसंधानादहंकारो न जायते

॥४४॥

नाहमात्मनि नो यस्य दृश्यश्रिय इति स्वयम् ।

शान्तेन व्यवहारेण नाहंकारः प्रवर्धते

॥४५॥

अहं हि जगदित्यन्तर्हेयादेयदृशोः क्षये ।

समतायां प्रसन्नायां नाहंभावः प्रवर्धते

॥४६॥

अहं चिज्जगदित्यन्तर्हेयादेयदृशोः क्षये ।

समतायां प्रसन्नायां नाहंभावः प्रवर्धते

॥४७॥

श्रीराम उवाच ।

किमाकृतिरहंकारः कथं संत्यज्यते प्रभो ।

सशरीरोऽशरीरश्च त्यक्ते तस्मिंश्च किं भवेत्

॥४८॥

श्रीवसिष्ठ उवाच ।

त्रिविधो राघवास्तीह त्वहंकारो जगत्त्रये ।

द्वौ श्रेष्ठावितरस्त्याज्यः श्रृणु त्वं कथयामि ते

॥४९॥

अहं सर्वमिदं विश्वं परमात्माहमच्युतः ।

नान्यदस्तीति परमा विज्ञेया सा ह्यहंकृतिः

॥५०॥

मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ।

सर्वस्माद्व्यतिरिक्तोऽहं बालाग्रशतकल्पितः

॥५१॥

इति या संविदेषासौ द्वितीयाहंकृतिः शुभा ।

मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते

॥५२॥

अहंकाराभिधा या सा कल्प्यते नतु वास्तवी ।

पाणिपादादिमात्रोऽयमहमित्येष निश्चयः

॥५३॥

अहंकारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः ।

वर्ज्य एव दुरात्मासौ शत्रुरेव परः स्मृतः

॥५४॥

अनेनाभिहतो जन्तुर्न भूयः परिरोहति ।

रिपुणानेन बलिना विविधाधिप्रदायिना

॥५५॥

कष्टीकृतमतिर्लोकः संकटेष्वेव मज्जति ।

अनया दुरहंकृत्या भावात्संसक्तया चिरम्

॥५६॥

शिष्टाहंकारवाञ्जन्तुर्भगवान्याति मुक्तताम् ।

लोकाहंकारवद्दोषवपुरस्मिन्निरूपणः

॥५७॥

न देहोऽस्मीति निर्णीय वर्जनं महतां मतम् ।

प्रथमं द्वावहंकारावङ्गीकृत्यान्त्यलौकिकौ

॥५८॥

प्रथमं द्वावहंकारावङ्गीकृत्यान्त्यलौकिकौ ।

तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी

॥५९॥

अनया दुरहंकृत्या दामव्यालकटाः किल ।

तां दशां समनुप्राप्ता या कथास्वपि खेददा

॥६०॥

श्रीराम उवाच ।

तृतीयां लौकिकीमेतां त्यक्त्वा चित्तादहंकृतिम् ।

किंभावः पुरुषो ब्रह्मन्प्राप्नुयादात्मनो हितम्

॥६१॥

श्रीवसिष्ठ उवाच ।

एषा तावत्परित्याज्या त्यक्त्वैतां दुःखदायिनीम् ।

यथा यथा पुमांस्तिष्ठेत्परमेति तथा तथा

॥६२॥

अहंकारदृशावेते पूर्वोक्ते भावयन्यदि ।

तिष्ठेदुपैति परमं तत्पदं पुरुषोऽनघ

॥६३॥

अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः ।

संतिष्ठेत तथात्युच्चैः पदमेवाधिरोहति

॥६४॥

सर्वदा सर्वयत्नेन लौकिकी दुरहंकृतिः ।

परमानन्दबोधाय वर्जनीयाऽनया धिया

॥६५॥

शरीरास्थामयापुण्यदुरहंकारवर्जनम् ।

अत्यन्तपरमं श्रेय एतदेव परं पदम्

॥६६॥

भावादहंकृतिं त्यक्त्वा स्थूलामेतां हि लौकिकीम् ।

तिष्ठन्व्यवहरन्वापि न नरः प्रपतत्यधः

॥६७॥

संशान्ताहंकृतेर्जन्तोर्भोगा रोगा महामते ।

न स्वदन्ते सुतृप्तस्य यथा प्रतिविषा रसाः

॥६८॥

भोगेष्वस्वदमानेषु पुंसः श्रेयः पुरो गतम् ।

क्षीणेऽन्धकारे किं नाम मनसोऽन्यत्प्रवर्तते

॥६९॥

अहंकारानुसंधानवर्जनादेव राघव ।

पौरुषेण प्रयत्नाच्च तीर्यते भवसागरः

॥७०॥

नाहं न तेन मम किंचिदपीति मत्वा

सर्वं च मे सकलमप्यहमेव चेति ।

लब्धास्पदं मनसि संविदमेवमीड्यां

नीत्वा स्थितिं परमुपैति पदं महात्मा

॥७१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे दामव्यालकटोपाख्यानेऽहंकारविचारो नाम त्रयस्त्रिंशः सर्गः ।। ३३ ।।