मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ४८

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 48

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

प्राप्य राजा पुरः प्राप्तं सिन्धुमुद्धुरकन्धरम् ।

मध्याह्नतपनान्तेन कोपेन विततोऽभवत्

॥१॥

धनुरास्फालयामास चिरारावितदिङ्मुखम् ।

कल्पान्तपवनास्फोट इव मेरुगिरेस्तटम्

॥२॥

विससर्जोर्जितो राजा प्रलयार्कः करानिव ।

तूणीररजनीबद्धाः शिलीमुखपरम्पराः

॥३॥

एक एव विनिर्याति गुणात्तस्य शिलीमुखः ।

सहस्रं भवति व्योम्नि गच्छन्पतति लक्षशः

॥४॥

सिन्धोरपि तथैवासीच्छक्तिर्लाघवमेव च ।

वरेण वरदस्यैवं विष्णोर्धानुष्कता तयोः

॥२॥

मुसला नाम ते बाणा मुसलाकृतयोऽम्बरम् ।

छादयामासुरुन्नादाः कल्पान्ताशनयो यथा

॥६॥

रेजुः कनकनाराचराजयो व्योम्नि सस्वनाः ।

रसन्त्यः कल्पवातार्ताः पतन्त्य इव तारकाः

॥७॥

विदूरथाच्छरासारा अजस्रमभिनिर्ययुः ।

अब्धेरिव पयःपूराः सूर्यादिव मरीचयः

॥८॥

प्रचण्डपवनोद्धूतात्पुष्पाणीव महातरोः ।

अयःपिण्डादिवोत्तप्तात्ताडितात्कणपङ्कयः

॥९॥

धारा वर्षमुच इव सीकरा इव निर्झरात् ।

तत्पुराग्निमहादाहात्स्फुलिङ्गा इव भासुराः

॥१०॥

तयोश्चटचटास्फोटं शृण्वत्कोदण्डयोर्द्वयोः ।

बलद्वयमभूत्प्रेक्षामूकं शान्त इवाम्बुधिः

॥११॥

वहन्ति स्म शरापूरा गङ्गापूरा इवाम्बरे ।

सिन्धोरभिमुखं युद्धे घर्घरारावरंहसः

॥१२॥

कचत्कनकनाराचशरवर्षा अनारतम् ।

वहच्छवशवाशब्द निर्ययुर्धनुरम्बुदात्

॥१३॥

बाणमन्दाकिनीपूरं व्रजन्तं सिन्धुपूरणे ।

वातायनात्तमालोक्य लीला तत्पुरवासिनी

॥१४॥

तेन बाणसमूहेन जयमाशङ्क्य भर्तरि ।

उवाच वाक्यमानन्दविकसन्मुखपङ्कजा

॥१५॥

जय देवि जयत्येष नाथोऽस्माकं विलोकय ।

किंचानेन शरौघेण मेरुरप्येति चूर्णताम्

॥१६॥

तस्यामेव वदन्त्या तु घनस्नेहरवाकुलम् ।

प्रेक्षणव्यग्रयोर्देव्योर्हसन्त्योर्मानुषीं हृदा

॥१७॥

तच्छरार्णवमामत्तमपिबत्सिन्धुवाडवः ।

शरोष्मणा ह्यगस्त्येन जह्नुर्मन्दाकिनीमिव

॥१८॥

बाणवर्षेण कणशस्तं सायकमहाघनम् ।

छित्त्वा तनुरजः कृत्वा चिक्षेप गगनार्णवे

॥१९॥

यथा दीपस्य शान्तस्य न परिज्ञायते गतिः ।

तस्य सायकसङ्घस्य न विज्ञाता तथा गतिः

॥२०॥

तं छित्त्वा सायकासारं शरीराम्बुधरं घनम् ।

व्योम्नि प्रसारयामास रसाच्छवशतान्वितम्

॥२१॥

विदूरथस्तमप्याशु व्यधमत्सायकोत्तमैः ।

सामान्यजलदं मत्तं कल्पान्तपवनो यथा

॥२२॥

कृतप्रतिकृतैरेवं बाणवर्षैर्महीपती ।

व्यर्थीकृतैरनयतां प्रहारमविचारणैः

॥२३॥

अथादधे मोहनास्त्रं सिन्धुर्गन्धर्वसौहृदात् ।

प्राप्तं तेन ययुर्लोका विना मोहं विदूरथात्

॥२४॥

व्यस्तशस्त्राम्बरा मूका विषण्णवदनेक्षणाः ।

मृता इवाभवन्योधाश्चित्रन्यस्ता इवाथवा

॥२५॥

यावद्विदूरथादन्यं मोहो नयति मन्दताम् ।

तावद्विदूरथो राजा प्रबोधास्त्रमथाददे

॥२६॥

ततः प्रबोधमापन्नाः प्रजाः प्रातरिवाब्जिनी ।

विदूरथे भवत्सिन्धुः कुद्धोऽर्क इव राक्षसे

॥२७॥

नागास्त्रमाददे भीमं पाशबन्धनखेददम् ।

तेनाभवन्नभो व्याप्तं भोगिभिः पर्वतोपमैः

॥२८॥

सर्पैर्विलसिता भूमिर्मृणालैः सरसी यथा ।

संपन्ना गिरयः सर्वे कृष्णपन्नगकम्बलाः

॥२९॥

पदार्थाः सर्व एवेमे विषोष्मखिन्नतां ययुः ।

सपर्वतवनाभोगा ययौ विवशतां मही

॥३०॥

पूताङ्गारसमाकीर्णं विषवैषम्यशंसिनः ।

ववू रूक्षोष्णनीहारवाता ज्वलनरेणवः

॥३१॥

विदूरथोऽथ सौपर्णमाददेऽस्त्रं महास्त्रवित् ।

उदगुर्गरुडास्त्रेण सौपर्णाः पर्वता इव

॥३२॥

काञ्चनीकृतसर्वाशाः सर्वाशापरिपूरकाः ।

पक्षपर्वतसंरम्भजनितप्रलयानिलाः

॥३३॥

घोणानिलजवाकृष्टश्वसद्भुजगमण्डलाः ।

महाघुरघुरारावपूरिताम्भोधिखण्डकाः

॥३४॥

स सुपर्णघनोऽपात्तं सर्पौघं भूप्रपूरकम् ।

कष्टं शलशलायन्तमगस्त्य इव वारिधिम्

॥३५॥

सर्पकम्बलनिर्मुक्तं भूमण्डलमराजत ।

चिरात्तमवनीरन्ध्रमिव निर्वारिराशि च

॥३६॥

ततस्तद्गरुडानीकं क्वाप्यगच्छददृश्यताम् ।

दीपौघ इव वातेन शरदेवाब्दमण्डलम्

॥३७॥

वज्रभीत्येव पक्षौघपर्वतप्रकरः पुरः ।

स्वप्नदृष्टं जगदिव संकल्पपुरपूरवत्

॥३८॥

ततस्तमोऽस्त्रमसृजत्सिन्धुरन्धान्धकारदम् ।

तेनान्धकारो ववृधे कृष्णो भूजठरोपमः

॥३९॥

रोदोरन्ध्रे प्रविसृत एकार्णव इवाभवत् ।

मत्स्या इवाभवन्सेनास्ताराश्च मणयोऽभवन्

॥४०॥

अन्धकारप्रवृत्तेन मषीपङ्कार्णवोपमम् ।

कज्जलाचलसंभारोद्भूतकल्पानिलैरिव

॥४१॥

अन्धकूपे निपतिता इवासन्सकलाः प्रजाः ।

कल्पान्त इव संशेमुर्व्यवहारा दिशं प्रतिं

॥४२॥

विदूरथोऽथ मार्तण्डं दीपं ब्रह्माण्डमण्डपे ।

अस्त्रं मन्त्रविदां श्रेष्ठः सृष्ट्वा मन्त्रो व्यचेष्टयत्

॥४३॥

अथोदिततमोम्भोधिमर्कागस्त्यो गभस्तिभिः ।

अपिबत्कृष्णमम्भोदं शरत्काल इवामलः

॥४४॥

अन्धकाराम्बरोन्मुक्ता विरेजुरमला दिशः ।

भूपतेः पुरतः कान्ता इव रम्यपयोधराः

॥४५॥

ययुः प्रकटतामन्तरखिला वनराजयः ।

लोभकज्जलजालेन मुक्ता इव सतां धियः

॥४६॥

अथ कोपाकुलः सिन्धू राक्षसास्त्रं महाभयम् ।

क्षणादुदीरयामास मन्त्रोदीर्णशरात्मकम्

॥४७॥

उदगुर्भीषणा दिग्भ्यः परुषा वनराक्षसाः ।

पातालगजफूत्कारक्षुब्धा इव महार्णवाः

॥४८॥

कपिलोर्ध्वजटाधूम्राः स्फुटच्चटचटारवाः ।

अग्नयो लेलिहानोग्रजिह्वा आर्द्रेन्धना इव

॥४९॥

सावर्तवृत्तयो व्योम्नि भीमचीत्कारटांकृताः ।

अग्निदाहा महाधूमविलोला इव सोल्मुकाः

॥५०॥

दंष्ट्राबिसाङ्कुराक्रान्तमुखपङ्काक्षदेहकाः ।

उदिता लोमजम्बाला दुष्पल्वलतटा इव

॥५१॥

निगिरन्तः प्रधावन्तो गर्जन्तः सर्जिता इव ।

जटाजालतडित्पुञ्जा जलदाः सजला इव

॥५२॥

एतस्मिन्नन्तरे तस्मिँल्लीलानाथो विदूरथः ।

नारायणास्त्रं प्रददे दुष्टभूतनिवारणम्

॥५३॥

उदीर्यमाण एवास्मिन्मन्त्रराजेऽस्त्रराजयः ।

राक्षसानां प्रशेमुस्ता अन्धकार इवोदये

॥५४॥

प्रमुष्टराक्षसानीकमभवद्भुवनत्रयम् ।

शरदीव गताम्भोदं व्योम निर्मलमाबभौ

॥५५॥

अथ सिन्धुर्मुमोचास्त्रमाग्नेयं ज्वलिताम्बरम् ।

जज्वलुः ककुभस्तेन कल्पाग्निज्वलिता इव

॥५६॥

धूमाम्बुदभराच्छन्ना बभूवुः सकला दिशः ।

गगने प्रोतपातालतिमिराकुलिता इव

॥५७॥

बभूवुर्ज्वलिताकारा गिरयः काञ्चना इव ।

प्रफुल्लवननीरन्ध्रचम्पकौघवना इव

॥५८॥

ययुर्व्योमाद्रिदिक्कुञ्जा ज्वालाजालजटालताम् ।

कुङ्कुमेनोत्सवे मृत्योः समालब्धा इव स्रजः

॥५९॥

ज्वलिता जनता चैकशङ्किनी सा नभःस्पृशा ।

सहस्राकृतिनौवेगचलितेनेव सागरात्

॥६०॥

जित्वा रिपुं पुनरसौ यथा प्रहरते तथा ।

वारुणं विससर्जास्त्रं पूजयित्वा विदूरथः

॥६१॥

आययुः सलिलापूरास्तमःपूरा इवाभितः ।

अधस्तादूर्ध्वतो दिग्भ्यो द्रवरूपा इवाद्रयः

॥६२॥

भागा इव शरव्योम्नि धृतयाना इवाम्बुदाः ।

महार्णवा इवोच्चस्थाः कुलशैलशिला इव

॥६३॥

तमालौघा इवोड्डीनाः संधिता इव रात्रयः ।

कज्जलौघा इवोद्भूता लोकालोकतटादिव

॥६४॥

रसातलगुहाभोगा इव व्योमदिदृक्षवः ।

महाघुरघुरारावरंहोबृंहितमूर्तयः

॥६५॥

तामग्निसंततिं मत्तामाचचामाम्बुसंततिः ।

भुवनव्यापिनी संध्यामाशु कृष्णेव यामिनी

॥६६॥

तामग्निसंततिं पीत्वा पूरयामास भूतलम् ।

जलश्रीर्जटितं देहं निद्रेव व्यक्तिमेयुषी

॥६७॥

एवंविधानस्त्रमोहान्विदधुर्धावनेतरे ।

मिथोमायामयानग्रे पश्यन्त्यनुभवन्ति च

॥६८॥

हेतिभारवराः सिन्धोश्चक्ररक्षास्ततोऽम्भसा ।

तृणानीव गताः प्रोह्य रथश्चास्याभवत्प्लुतः

॥६९॥

एतस्मिन्नन्तरे सिन्धुरस्त्रं सस्मार शोषणम् ।

आपत्त्राणकरं दैवं ददौ च शररूपिणम्

॥७०॥

शशामाम्बुमयी माया तेन यामेव भास्वता ।

ये मृतास्ते मृता एव बभूवुः शोषिता भुवः

॥७१॥

अथ मूर्खरुषा तुल्यस्तापः संतापयन्प्रजाः ।

जजृम्भे झर्झराकीर्णवनविस्तारकर्कशः

॥७२॥

कचत्कनकनिःस्यन्दसुन्दराङ्गच्छविर्दिशाम् ।

आसीद्राजवरस्त्रीणामिवालेपोऽङ्गसंगतः

॥७३॥

तेन धर्ममयीं मूर्च्छामाजग्मुस्तद्विरोधिनः ।

ग्रीष्मदावानलोत्तप्ता मृदवः पल्लवा इव

॥७४॥

विदूरथो रणोद्रेके तावत्क्रेंकारमाततम् ।

कोदण्डं कुण्डलीकृत्य पर्जन्यास्त्रमथाददे

॥७५॥

उदगुः पङ्क्तयोऽब्दानां यामिन्य इव संचिताः ।

तमालविपिनोड्डीनसंरम्भादम्बुमन्थराः

॥७६॥

वामना वारिपूरेण गर्जनोद्दामसंचराः ।

महिम्नामन्थराशेषककुम्मण्डलकुण्डलाः

॥७७॥

ववुरावलितासारा मेघडम्बरभेदिनः ।

कीर्णसीकरनीहारभारोदाराः समीरणाः

॥७८॥

प्रपुस्फुरुः सुसौवर्णसर्पापत्सरणोपमाः ।

विद्युतो दिवि दैव्यस्त्रीकटाक्षवलना इव

॥७९॥

जुघूर्णुर्गर्जनोच्छूनप्रतिश्रुद्धनकन्दराः ।

दिशश्चलितमातङ्गसिंहर्क्षरवघर्घराः

॥८०॥

महामुसलधाराभिः पेतुरासारवृष्टयः ।

कष्टटंकारकठिनाः कृतान्तस्येव दृष्टयः

॥८१॥

उदभूत्प्रथमं बाष्प उष्णोऽनलनिभो भुवः ।

पातालादभ्रवृन्दानां युद्धायेवात्तविभ्रमः

॥८२॥

ततो निमेषमात्रेण प्रशेमुर्मृगतृष्णिकाः ।

परबोधरसापूरैर्यथा संसारवासनाः

॥८३॥

आसीत्पङ्काङ्कमखिलं भूमण्डलमसंचरम् ।

पूरितः पूर्णधाराभिः सिन्धुः सिन्धुरिवाम्बुना

॥८४॥

वायव्यमस्त्रमसृजत्पूरिताकाशकोटरम् ।

कल्पान्तनृत्तसंमत्तरटद्भैरवभीषणम्

॥८५॥

ववुरशनिनिपातपीडिताङ्गा

दलितशिलाशकलाः ककुम्मुखेषु ।

प्रलयसमयसूचका भटानां

कृतपटुटांकृतटङ्किनः समीराः

॥८६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० आयुधवर्णनं नामाष्टचत्वारिंशः सर्गः ।। ५८८ ।।