मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ६४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 64

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

जीवटब्राह्मणादीनां हंसादीनां मुनीश्वर ।

भिक्षुस्वप्नशरीराणां संपन्नं किमतः परम्

॥१॥

श्रीवसिष्ठ उवाच ।

रुद्रेण सह संभूय प्रबुद्धाः सर्व एव ते ।

मिथश्च दृष्टसंसारा रुद्रांशाः सुखिनः स्थिताः

॥२॥

तेन रुद्रेण तां मायामवलोक्य यथोदिताम् ।

स्वांशास्तामेव संसारस्थितिं ते प्रेषिताः पुनः

॥३॥

श्रीरुद्र उवाच ।

गच्छताशु निजं स्थानं तत्र भुक्त्वा कलत्रकैः ।

कंचित्कालं समं भोगान्मत्सकाशमुपैष्यथ

॥४॥

भविष्यथ मदंशा ये गणा मत्पुरभूषणाः ।

ततो महाप्रलयतो यास्यामस्तत्परं पदम्

॥५॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा भगवान् रुद्रस्तेषां सोऽन्तरधीयत ।

अन्त्यसंसारसंख्यानं रुद्राणां मध्यमाययौ

॥६॥

प्रययुः स्वास्पदं तेऽपि जीवटब्राह्मणादयः ।

स्वकलत्रैः समं देहं क्षपयित्वाथ कालतः

॥७॥

रुद्रलोकं समासाद्य भविष्यन्ति गणोत्तमाः ।

कदाचिद्व्योम्नि दृश्यन्ते तारकाकारकारिणः

॥८॥

श्रीराम उवाच ।

भिक्षुसंकल्परूपास्ते जीवटब्राह्मणादयः ।

कथं सत्यत्वमायाताः संकल्पार्थे क्व सत्यता

॥९॥

श्रीवसिष्ठ उवाच ।

संकल्पसत्यता त्वंशे त्यज संकल्पसत्यताम् ।

तत्र यन्नास्ति तन्नास्ति यतः सर्वात्म तत्पदम्

॥१०॥

यत्स्वप्ने दृश्यते यच्च संकल्पैरवलोक्यते ।

तत्तथा विद्यते तत्र सर्वकालं तदात्मकम्

॥११॥

तद्देशकालात्मतया गत्वा देशान्तरं यथा ।

देशाद्देशान्तरं यद्वन्न गत्यात्मादिकं विना

॥१२॥

न लभ्यते तथा स्वप्नो विना तत्र न लभ्यते ।

सर्वमस्ति चितः कोशे यद्यथालोकयत्यसौ

॥१३॥

चित्तथा तदवाप्नोति सर्वात्मत्वादविक्षतम् ।

संकल्पः स्वप्नकस्त्वङ्ग यया च दशयाप्यते

॥१४॥

परमभ्यासयोगाभ्यां विना त्वेतन्न लभ्यते ।

येषां तु योगविज्ञानदृष्टयः फलिताः स्थिताः

॥१५॥

सर्वं सर्वत्र पश्यन्ति ते यतः शंकरादयः ।

इदमग्रगतं वस्तु तथा संकल्पितं मया

॥१६॥

नाप्यं यतोभयभ्रशं स प्राप्नोत्युभयाश्रयात् ।

सर्वं ह्यभिमतं कार्यमेकनिष्ठस्य सिद्ध्यति

॥१७॥

दक्षिणां ककुभं गच्छन्कः प्राप्नोत्युत्तरां दिशम् ।

संकल्पार्थपरैरेव संकल्पार्थोऽवगम्यते

॥१८॥

अग्रस्थार्थपरैरग्रे संस्थितोर्थोऽवगम्यते ।

अग्रस्थे बुद्धिसंस्थे यः संकल्पं प्राप्तुमिच्छति

॥१९॥

तदासावेकनिष्ठत्वाभावात्तन्नाशयेद्द्वयम् ।

तस्मादेकार्थनिष्ठत्वाद्भिक्षुजीवेन रुद्रताम्

॥२०॥

प्राप्य सर्वात्मना लब्धं तथा सर्वं तथास्थितेः ।

भिक्षुसंकल्पजीवास्ते प्रत्येकं तज्जगत्पृथक्

॥२१॥

पश्यन्ति चैते नान्योन्यं रुद्रज्ञानादृते ततः ।

अप्रबुद्धाः प्रजायन्ते जीवा जीवान्तबोधिनः

॥२२॥

तदिच्छयाशु तद्रूपा बहुरूपाश्च ते इह ।

इह विद्याधरोऽहं स्यामहं स्यामिह पण्डितः

॥२३॥

इत्येकध्यानसाफल्यं दृष्टान्तोऽस्यां क्रियास्थितौ ।

एकत्वं च बहुत्वं च मौर्ख्यं पाण्डित्यमेव वा

॥२४॥

देवत्वं मानुषत्वं च देशकालक्रियाक्रमैः ।

तुल्यकालमलं कर्तुं धारणाध्यानयत्नतः

॥२५॥

सर्वशक्त्यः स्वरूपत्वाज्जीवस्यास्त्येकशक्तिता ।

अनन्तश्चान्तपृक्तश्च स्वभावोऽस्य स्वभावतः

॥२६॥

सविकासः ससंकोचोऽहिंस्रस्तेन चिदात्मनः ।

यदिच्छति तदस्याङ्ग जन्तुः संपद्यते स्वयम्

॥२७॥

स्वयं संपादितैरेभिर्देशकालक्रियाक्रमैः ।

योगिन्यो योगिनश्चेह तिष्ठन्त्यन्यत्र यत्र च

॥२८॥

इह वामुत्र भोगेन दृष्टमेतदनेकशः ।

कार्तवीर्यो गृहे तिष्ठन्सर्वेषां भयदोऽभवत्

॥२९॥

विष्णुः क्षीरोदधौ तिष्ठन्जायते पुरुषो भुवि ।

पश्वर्थं यान्ति तिष्ठन्त्यो योगिन्यो योगिनीगणे

॥३०॥

शक्रः स्वर्गासने तिष्ठन्याति यज्ञार्थमुर्विकाम् ।

सहस्रमेकं भवति तथा चास्मिञ्जनार्दनः

॥३१॥

नृणां शतानि भक्तानां मानुष्यं याति तन्नतैः ।

एकः सहस्रं भवति तथा चैष जनार्दनः

॥३२॥

अंशावतारलीलाभिः कुरुते जागतीं स्थितिम् ।

एकः कान्तासहस्राणि तुल्यकालं निमेषवत्

॥३३॥

एवं ते भिक्षुसंकल्पा जीवटब्राह्मणादयः ।

रुद्रविज्ञानवशतः स्वसंकल्पपुरीं गताः

॥३४॥

तत्र भुक्त्वा चिरं भोगान्प्राप्य रुद्रपुरं ततः ।

गणतामावसन्तस्ते स्थास्यन्ति सपरिच्छदाः

॥३५॥

नित्यं प्रफुल्लनवकल्पलतालयेषु

रुद्रेण साकमुरुरत्नगुलुच्छकेषु ।

नानाजगत्सु च तदा शिवपत्तनेषु

विद्याधरीष्वमरमौलिधराश्च रेजुः

॥३६॥

इत्यार्षे श्रीवासिष्ठमहारामा० वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० गणत्वप्राप्तिर्नाम चतुःषष्टितमः सर्गः ।। ६४ ।। स्वप्नशतरुद्रीयं समाप्तम् ।