मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः ४७

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 47

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ सर्ववेदाङ्गपारग ।

आश्वस्त इव तिष्ठामि शुद्धाभिर्भवदुक्तिभिः

॥१॥

उदाराणि विविक्तानि पेशलान्युदितानि च ।

श्रोतुं तृप्ति न गच्छामि वचांसि वदतस्तव

॥२॥

जात्या राजससात्त्विक्याः कथनावसरान्तरे ।

उत्पत्तिर्भवता प्रोक्ता शास्त्रैः कमलजन्मनः

॥३॥

श्रीवसिष्ठ उवाच ।

बहूनि ब्रह्मलक्षाणि शंकरेन्द्रशतानि च ।

नारायणसहस्राणि समतीतानि राघव

॥४॥

अन्येषु च विचित्रेषु ब्रह्माण्डेषु च भूरिशः ।

नानाचारविहाराणि विहरन्ति सहस्रशः

॥५॥

तुल्यकालमनन्तेषु कालान्तरभवेषु च ।

जगत्सु प्रोद्भविष्यन्ति बहून्यन्यानि भूरिशः

॥६॥

तेषामब्जोद्भवादीनां ब्रह्माण्डेषु दिवौकसाम् ।

उत्पत्तयो महाबाहो विचित्राभ्युत्थिता इव

॥७॥

कदाचित्सृष्टयः शार्व्यः कदाचित्पद्मजोद्भवाः ।

कदाचिदपि वैष्णव्यः कदाचिन्मुनिनिर्मिताः

॥८॥

कदाचित्पद्मजो ब्रह्मा कदाचित्सलिलोद्भवः ।

अण्डोद्भवः कदाचित्तु कदाचिज्जायतेऽम्बरात्

॥९॥

कस्मिंश्चिदण्डे त्र्यक्षोऽर्कः कस्मिंश्चिदपि वासवः ।

कस्मिंश्चित्पुण्डरीकाक्षः कस्मिंश्चित्त्र्यक्ष एव हि

॥१०॥

कस्यांचिद्भूरभूत्सृष्टौ नीरन्ध्रतरुसंकटा ।

कस्यांचिन्नरनीरन्ध्रा कस्यांचिद्भूधरावृता

॥११॥

भूरभून्मृन्मयी काचित्काचिदासीद्दृषन्मयी ।

आसीद्धेममयी काचित्काचित्ताम्रमयी तथा

॥१२॥

इहैव कानि चित्राणि जगन्त्यन्यान्यथान्यथा ।

अन्यान्येकैकलोकानि निर्महांस्यपि कानिचित्

॥१३॥

अनन्तानि जगन्त्यस्मिन्ब्रह्मतत्त्वमहाम्बरे ।

अम्भोधिवीचिजलवन्निमज्जन्त्युद्भवन्ति च

॥१४॥

यथा तरङ्गा जलधौ मृगतृष्णा मरौ यथा ।

कुसुमानि यथा चूते तथा विश्वश्रियः परे

॥१५॥

भानोर्गणयितुं शक्या रश्मिषु त्रसरेणवः ।

आलोलवपुषो ब्रह्म तत्त्वेन जगतां गणाः

॥१६॥

यथा मशकजालानि वर्षादिष्वाकुलानि तु ।

उत्पत्त्योत्पत्त्य नश्यन्ति तथेमा लोकसृष्टयः

॥१७॥

न च विज्ञायते कस्मात्कालात्प्रभृति चागताः ।

नित्यागमापायपरा एताः सर्गपरम्पराः

॥१८॥

अनादिमत्योऽविरतं प्रस्फुरन्ति तरङ्गवत् ।

पूर्वात्पूर्वं किलाभूवंस्ततः पूर्वतरं यथा

॥१९॥

भूत्वा भूत्वा प्रलीयन्ते ससुरासुरमानवाः ।

सरित्तङ्गभङ्ग्यैव समस्ता भूतजातयः

॥२०॥

यथेदमण्डं वैरिञ्चं तथा ब्रह्माण्डपङ्क्तयः ।

याः सहस्राः परिक्षीणा नाडिका वत्सरेष्विव

॥२१॥

अन्याः संप्रति विद्यन्ते वर्तमानशरीरकाः ।

प्रान्ते ब्रह्मपुरस्यास्य वितते ब्रह्मणः पदे

॥२२॥

ब्रह्मण्यन्या भविष्यन्ति ब्राह्म्यो ब्रह्मपुरश्रियः ।

पुनस्ताश्च विनङ्क्ष्यन्ति भूत्वा भूत्वा यथा गिरः

॥२३॥

ब्रह्मण्यन्या भविष्यन्त्यः स्थिताः सर्गपरम्पराः ।

घटा इव मृदो राशावङ्कुरे पल्लवा इव

॥२४॥

यावद्ब्रह्म चिदाकाशे तथा त्रिभुवनश्रियः ।

स्फाराकारविकाराढ्याः प्रेक्ष्यमाणा न किंचन

॥२५॥

उन्मज्जन्त्यो निमज्जन्त्यो न सत्या नाप्यसच्छ्रियः ।

जडारम्भा वितन्वन्त्यस्ता एव खलता इव

॥२६॥

तरङ्गसमधर्मिण्यो दृष्टनष्टशरीरकाः ।

सर्वासां सृष्टिराशीनां चित्राकारविचेष्टिताः

॥२७॥

चित्राकारविकाराश्च चित्ररूपा हि सृष्टयः ।

व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः

॥२८॥

तत्त्वज्ञविषये राम सलिलादिव वृष्टयः ।

आयान्ति सृष्टयो देवाज्जलदादिव वृष्टयः

॥२९॥

व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः ।

व्यतिरिक्ता द्रवाम्भोधिस्वाष्ठीलाः शाल्मलेरिव

॥३०॥

इह सृष्टिषु पुष्टासु निकृष्टासु च राघव ।

परमान्नभसो जातास्तन्मात्रमलमालिका

॥३१॥

कदाचित्प्रथमं व्योम प्रतिष्ठामधिगच्छति ।

ततः प्रजायते ब्रह्मा व्योमजोऽसौ प्रजापतिः

॥३२॥

कदाचित्प्रथमं वायुः प्रतिष्ठामधिगच्छति ।

ततः प्रजायते ब्रह्मा वायुजोऽसौ प्रजापतिः

॥३३॥

कदाचित्प्रथमं तेजः प्रतिष्ठामधिगच्छति ।

ततः प्रजायते कर्ता तेजसोऽसौ प्रजापतिः

॥३४॥

कदाचित्प्रथमं वारि प्रतिष्ठामधिगच्छति ।

ततः प्रजायते ब्रह्मा वारिजोऽसौ प्रजापतिः

॥३५॥

कदाचित्प्रथमं पृथ्वी स्फारतामधिगच्छति ।

ततः प्रजायते ब्रह्मा पार्थिवोऽसौ प्रजापतिः

॥३६॥

इदं चत्वारि संपीड्य पञ्चमं वर्धते यदा ।

तदा तज्जात एवैष कुरुते जागतीं क्रियाम्

॥३७॥

कदाचिदप्सु वायौ वा सुस्फारे वापि तेजसि ।

स्वयं संपद्यतेऽकस्मात्पुमान्प्रकृतिभावितः

॥३८॥

तस्याथ शब्दो वदनात्कदाचिज्जायते पदात् ।

कदाचिदंशात्पृष्ठाद्वा कदाचिल्लोचनात्करात्

॥३९॥

कदाचित्पुरुषस्यास्य नाभौ पद्मं प्रजायते ।

तस्मिन्संवधते ब्रह्मा पद्मजोऽसौ प्रकीर्तितः

॥४०॥

मायेयं स्वप्नवद्भ्रान्तिर्मिथ्यारचितचक्रिका ।

मनोराज्यमिवालोलसलिलावर्तसुन्दरी

॥४१॥

किमिवास्यां वद ज्ञप्तौ कथं संभवतीह ते ।

क्वचिद्बालमनोराज्यमिदं पर्यनुयुज्यते

॥४२॥

कदाचिदम्बरे शुद्धे मनस्तत्त्वानुरञ्जनात् ।

सौवर्णं ब्रह्मगर्भं च स्वयमण्डं प्रवर्तते

॥४३॥

कदाचिदेव पुरुषो वीर्यं सृजति वारिणि ।

तस्मात्प्रजायते पद्मं ब्रह्माण्डमथवा महत्

॥४४॥

तस्मात्प्रजायते ब्रह्मा कदाचिद्भास्करोऽप्यसौ ।

कदाचिद्वरुणो ब्रह्मा कदाचिद्वायुरण्डजः

॥४५॥

एवमन्तर्विहीनासु विचित्रास्विह सृष्टिषु ।

विचित्रोत्पत्तयो राम ब्रह्मणो विविधा गताः

॥४६॥

निदर्शनार्थं सृष्टेस्तु मयैकस्य प्रजापतेः ।

भवते कथितोत्पत्तिर्न तत्र नियमः क्वचित्

॥४७॥

मनोविजृम्भणमिदं संसार इति संमतम् ।

संबोधनाय भवतः सृष्टिक्रम उदाहृतः

॥४८॥

सात्त्विकीप्रभृतयो याश्च जातयश्चेत्थमागताः ।

इति ते कथनायैष सृष्टिक्रम उदाहृतः

॥४९॥

पुनः सृष्टिः पुनर्नाशः पुनर्दुःखं पुनः सुखम् ।

पुनरज्ञः पुनस्तज्ज्ञो बन्धमोक्षदृशः पुनः

॥५०॥

पुनः सृष्टिकराऽवीतवीतस्नेहदृशः पुनः ।

दीपा इव कृतालोकाः प्रशाम्यन्त्युद्भवन्ति च

॥५१॥

देहोत्पत्तौ विनाशे च दीपानां ब्रह्मणामपि ।

कालेनाधिकतां त्यक्त्वा नाशे भेदो न कश्चन

॥५२॥

पुनः कृतं पुनस्त्रेता पुनः स द्वापरः कलिः ।

पुनरावर्तते सर्वं चक्रावर्ततया जगत्

॥५३॥

पुनर्मन्वन्तरारम्भाः पुनः कल्पपरम्पराः ।

पुनः पुनः कार्यदशाः प्रातः प्रातरहो यथा

॥५४॥

लोकालोककलाकालकलनाकलितान्तरम् ।

पुनःपुनरिदं सर्वं न किंचन पुनःपुनः

॥५५॥

अनाहते प्रतप्तेऽयःपिण्डेऽनलकणा इव ।

इमे भावाः स्थिता नित्यं चिदाकाशे स्वभावतः

॥५६॥

कदाचिदनभिव्यक्तं कदाचिद्व्यक्तिमागतम् ।

इदमस्ति परे तत्त्वे सर्वं वृक्ष इवार्तवम्

॥५७॥

चित्स्पन्द एव सर्वात्मा सर्वदैवेदृशाकृतिः ।

यदस्माज्जायते सर्गो द्वीन्दुत्वमिव लोचनात्

॥५८॥

चितः सर्वाः समायान्ति संतताः सृष्टिदृष्टयः ।

तत्स्था एवाप्यतत्स्थाभाश्चन्द्रादिव मरीचयः

॥५९॥

न कदाचन संसारः किलायं राम सत्सदा ।

सर्वशक्तावसंसारशक्तिता विद्यते यतः

॥६०॥

न चैवेदं कदाचित्तु साधो जगदनीदृशम् ।

सर्वशक्तौ हि संसारशक्तिता विद्यते यतः

॥६२॥

महाकल्पावधिः कालेन संसारितयेद्धया ।

न भविष्यति संसार इदानीमिति युज्यते

॥६२॥

ज्ञदृष्ट्या सर्वमेवेदं ब्रह्मैवेति महामते ।

नास्ति संसार इत्येतदुपपद्यत एव च

॥६३॥

अज्ञदृष्ट्या त्वविच्छिन्नसंसारत्वादनारतम् ।

नित्या संसारमायेयं मिथ्यापीहोपपद्यते

॥६४॥

पुनःपुनश्च भावित्वान्न कदाचिदनीदृशम् ।

जगदित्येतदित्युक्तं न मृषा रघुनन्दन

॥६॥

अनारतपतद्रूपा दिशो दृष्टा विनश्वराः ।

विनाशीदं जगत्सर्वमिति किं नोपपद्यते

॥६६॥

सर्वत्रोदितचन्द्रार्का दिशो दृष्टाः स्थिराचलाः ।

अविनाशि जगत्सर्वमित्यप्यवितथोपमम्

॥६७॥

न तदस्ति न यत्तस्मिन्नेकस्मिन्विततात्मनि ।

संकल्पकलनाजालमनाख्ये नोपपद्यते

॥६८॥

पुनःपुनरिदं सर्वं पुनर्मरणजन्मनी ।

पुनः सुखं पुनर्दुःखं पुनः करणकर्मणी

॥६९॥

पुनराशाः पुनर्व्योम पुनरम्भोधयोऽद्रयः ।

अभ्युदेति पुनः सृष्टिः खवदर्कप्रभा यथा

॥७०॥

पुनर्दैत्याः पुनर्देवाः पुनर्लोकान्तरक्रमाः ।

पुनः स्वर्गापवर्गेहाः पुनरिन्द्रः पुनः शशी

॥७१॥

पुनर्नारायणो देवः पुनर्दनुसुतादयः ।

पुनराशाचलच्चारुचन्द्रार्कवरुणानिलाः

॥७२॥

सुमेरुकर्णिकाकान्ता सह्यकेसरशालिनी ।

पूर्णा स्फीतोदरोदेति रोदसी नलिनी पुनः

॥७३॥

व्योमकाननमाक्रम्य वल्गत्यंशुनखोत्करैः ।

तमःकरिघटा भेत्तुं पुनर्भास्करकेसरी

॥७४॥

पुनरिन्दुश्चलत्स्वच्छमञ्जरीसुन्दरैः करैः ।

करोत्यमृतमाह्लादि दिग्वधूमुखमण्डनम्

॥७५॥

पुनः स्वर्गतरोः पुण्यक्षयवातसमीरिताः ।

पतन्तीह विनुन्नाङ्गाः पुण्यकृत्पुष्पराशयः

॥७६॥

पुनः कार्यक्रियापक्षैः संसारारम्भनामकम् ।

किंचित्पटपटं कृत्वा याति कालकपिञ्जलः

॥७७॥

पुनरिन्द्रादिके याते सज्जमास्थाय केवलम् ।

आयात्यपरदेवेन्द्रषट्पदः स्वर्गपङ्कजम्

॥७८॥

पुनः कालं कृतापूतं कलुषीकुरुते कलिः ।

सचक्रिणमिवाम्भोधिं प्रवृद्धोऽवकरानिलः

॥७९॥

पुन कालकुलालेन कृतभूतशरावकम् ।

चक्रमावर्त्यते वेगादजस्रं कल्पनामकम्

॥८०॥

पुनर्नीरसतामेति जगदस्तशुभस्थिति ।

अभ्यासीभूतसंकल्पं संशुष्कमिव काननम्

॥८१॥

पुनरर्कगणेष्वग्निदग्धानन्तकलेवरम् ।

सर्वभूतास्थिसंपूर्णं जगदेति श्मशानताम्

॥८२॥

पुनः कुलाचलाकारपुष्करावर्तवर्षणैः ।

नृत्यद्भवबृहत्फेनां यात्येकार्णवतां जगत्

॥८३॥

पुनः संशान्तवाय्वम्बुरिक्तं सकलवस्तुभिः ।

तदपूर्वमिवाकाशं जगदायाति शून्यताम्

॥८४॥

पुनः कतिपया भुक्त्वा समाः समरसाशयः । ।

जीवितं जीर्णया तन्वा पुनः स्वात्मनि लीयते

॥८५॥

पुनरन्येन कालेन तथैव जगतां गणान् ।

मनस्तनोति वै शून्ये गन्धर्वनगरं यथा

॥८६॥

पुरः सर्गसमारम्भः प्रलये सर्वसंभवः ।

सर्वं पुनरिदं राम चक्रवत्परिवर्तते

॥८७॥

किमेतस्मिन्महामायाडम्बरे दीर्घशम्बरे ।

राम सत्यमसत्यं वा निर्णेयं यदिहोच्यते

॥८८॥

दाशूराख्यायिकेवेयं राम संसारचक्रिका ।

कल्पनारचिताकारा वस्तुशून्या न वस्तुतः

॥८९॥

अविरलमिदमाततं विकल्पैरसदुदितैरपि तैर्द्विचन्द्रकल्पैः ।

विरचितमसतानुपन्नसत्यं जगदिह तेन विमूढता किमुत्था

॥९०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे जगद्वासनिर्णययोगोपदेशो नाम सप्तचत्वारिंशः सर्गः ।। ४७ ।।