मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — वैराग्यप्रकरणम् — सर्गः १७

3
योगवासिष्ठम् · वैराग्यप्रकरणम् · 17

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया ।

स्फुरन्ति चेतनाकाशे दोषकौशिकपङ्कतयः

॥१॥

अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।

पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया

॥२॥

मम चित्तमहारण्येव्यामोहतिमिराकुले ।

शून्ये ताण्डविनी जाता भृशमाशापिशाचिका

॥३॥

वचोरचितनीहारा काञ्चनोपवनोज्ज्वला ।

नूनं विकासमायाति चिन्ताचणकमञ्जरी

॥४॥

अलमन्तर्भ्रमायैव तृष्णातरलिताशया ।

आयाता विषमोल्लासमूर्मिरम्बुनिधाविव

॥५॥

उद्दामकल्लोलरवा देहाद्रौ वहतीह मे ।

तरङ्गतरलाकारा तरत्तृष्णातरङ्गिणी

॥६॥

वेगं सरोद्धुमुदितो वात्ययेव जरत्तृणम् ।

नीतः कलुषया क्वापि तृष्णया चित्तचातकः

॥७॥

यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् ।

तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका

॥८॥

पयसीव जरत्पर्णं वायाविव जरत्तृणम् ।

नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम्

॥९॥

गन्तुमास्पदमात्मीयमसमर्थधियो वयम् ।

चिन्ताजाले विमुह्यामो जाले शकुनयो यथा

॥१०॥

तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा ।

यथा दाहोपशमनमाशंके नामृतैरपि

॥११॥

दूरं दूरमितो गत्वा समेत्य च पुनःपुनः ।

भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी

॥१२॥

जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा ।

क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत्

॥१३॥

अन्तर्ग्रथितया देहे सर्वदुश्छेदयाऽनया ।

रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः

॥१४॥

पुत्रमित्रकलत्रादितृष्णया नित्यकृष्टया ।

खगेष्विव किरात्येदं जालं लोकेषु रच्यते

॥१५॥

भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् ।

खेदयत्यपि सानन्दं तृष्णाकृष्णेव शर्वरी

॥१६॥

कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।

दशत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी

॥१७॥

भिन्दती हृदयं पुंसां मायामयविधायिनी ।

दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी

॥१८॥

तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् ।

नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी

॥१९॥

नित्यमेवातिमलिना कटुकोन्माददायिनी ।

दीर्घतन्त्री घनस्नेहा तृष्णा गह्वरवल्लरी

॥२०॥

अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता ।

अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी

॥२१॥

अनावर्जितचित्तापि सर्वमेवानुधावति ।

न चाप्नोति फलं किंचित्तृष्णा जीर्णेव कामिनी

॥२२॥

संसारवृन्दे महति नानारससमाकुले ।

भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकी

॥२३॥

जराकुसुमितारूढा पातोत्पातफलावलिः ।

संसारजंगले दीर्घे तृष्णा विषलता तता

॥२४॥

यन्न शक्रोति तत्रापि धत्ते ताण्डवितां गतिम् ।

नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी

॥२५॥

भृशं स्फुरति नीहारे शाम्यत्यालोक आगते ।

दुर्लङ्घयेषु पदं धत्ते चिन्ता चपलबर्हिणी

॥२६॥

जडकल्लोलबहुला चिरं शून्यान्तरान्तरा ।

क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी

॥२७॥

नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् ।

पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी

॥२८॥

पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते ।

चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी

॥२९॥

इदं कृत्वेदमायाति सर्वमेवासमञ्जसम् ।

अनारतं च यतते तृष्णा चेष्टेव दैविकी

॥३०॥

क्षणमायाति पातालं क्षणं याति नभस्थलम् ।

क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी

॥३१॥

सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा ।

अन्तःपुरस्थमपि या योजयत्यतिसंकटे

॥३२॥

प्रयच्छति परं जाड्यं परमालोकरोधिनी ।

मोहनीहारगहना तृष्णा जलदमालिका

॥३३॥

सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् ।

परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत्

॥३४॥

विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः ।

शून्या शून्यपदा तृष्णा शक्रकार्मुकधर्मिणी

॥३५॥

अशनिर्गुणसस्यानां फलिता शरदापदाम् ।

हिमं संवित्सरोजानां तमसां दीर्घयामिनी

॥३६॥

संसारनाटकनटी कार्यालयविहंगमी ।

मानसारण्यहरिणी स्मरसंगीतवल्लकी

॥३७॥

व्यवहाराब्धिलहरी मोहमातङ्गश्रृङ्खला ।

सर्गन्यग्रोधसुलता दुःखकैरवचन्द्रिका

॥३८॥

जरामरणदुःखानामेका रत्नसमुद्गिका ।

आधिव्याधिविलासानां नित्यं मत्ता विलासिनी

॥३९॥

क्षणमालोकविमला सान्धकारलवा क्षणम् ।

व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम्

॥४०॥

गच्छत्युपशमं तृष्णा कायव्यायामशान्तये ।

तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये

॥४१॥

तावन्मुह्यत्ययं मूको लोको विलुलिताशयः ।

यावदेवानुसंधत्ते तृष्णा विषविषूचिका

॥४२॥

लोकोऽयमखिलं दुःखं चिन्तयोज्झितयोज्झति ।

तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि कथ्यते

॥४३॥

तृणपाषाणकाष्ठादिसर्वमामिषशङ्कया ।

आददाना स्फुरत्यन्ते तृष्णा मत्स्यी ह्रदे यथा

॥४४॥

रोगार्तिरङ्गनातृष्णा गम्भीरमपि मानवम् ।

उत्तानतां नयन्त्याशु सूर्यांशव इवाम्बुजम्

॥४५॥

अन्तःशून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः ।

मुक्तामणिप्रिया नित्यं तृष्णा वेणुलता इव

॥४६॥

अहो बत महच्चित्रं तृष्णामपि महाधियः ।

दुच्छेदामपि कृन्तन्ति विवेकेनामलासिना

॥४७॥

नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः ।

तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता

॥४८॥

उज्ज्वलाऽसिततीक्ष्णाग्रा स्नेहदीर्घदशा परा ।

प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव

॥४९॥

अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् ।

तृणीकरोति तृष्णैका निमेषेण नरोत्तमम्

॥५०॥

संस्तीर्णगहना भीमा घनजालरजोमयी ।

सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहातटी

॥५१॥

एकैव सर्वभुवनान्तरलब्धलक्ष्या

दुर्लक्ष्यतामुपगतैव वपुःस्थितैव ।

तृष्णा स्थिता जगति चञ्चलवीचिमाले

क्षीरोदकाम्बुतरले मधुरेव शक्तिः

॥५२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तृष्णाभंगो नाम सप्तदशः सर्गः ।। १७ ।।