मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ७४

3
योगवासिष्ठम् · उपशमप्रकरणम् · 74

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

लीलयाऽपश्यति वपुः कालेनात्मनि जायते ।

रम्यस्यापश्यतो वक्रं हृदि दौरूप्यधीरिव

॥१॥

तद्वशादियमायाता महती मेदुरोदरा ।

माया मदमहाशक्तिः सुरास्वादलवादिव

॥२॥

तयानया विकारिण्या तदतद्भावभूतया ।

इदं संपन्नमखिलं तापादिव मरौ पयः

॥३॥

मनो बुद्धिरहंकारो वासनाश्चेन्द्रियाण्यपि ।

एवंकलितनामाङ्कैः स्फुरत्यात्माब्धिरम्बुभिः

॥४॥

चित्ताहंकारयोर्द्वित्वं वचस्यस्ति न वस्तुतः ।

यच्चित्तं स ह्यहंकारो योऽहंकारो मनो हि तत्

॥५॥

व्यतिरिक्तं हिमाच्छौक्ल्यमिति संकल्प्यते यथा ।

मुधैव कल्प्यते भेदश्चित्ताहंकारयोस्तथा

॥५॥

मनोहंकारयोरन्तर्द्वयोरेकतरक्षये ।

क्षीणे द्वे एव हि यथा पटशौक्ल्ये पटक्षये

॥७॥

तुच्छां मोक्षधियं त्यक्त्वा बन्धबुद्धिं तथैषणाम् ।

स्ववैराग्यविवेकाभ्यां केवलं क्षपयेन्मनः

॥८॥

मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः ।

मननोत्के मनस्युच्चैर्वपुर्दोषाय केवलम्

॥९॥

आत्मन्यतीते सर्वस्मात्सर्वभूतेऽथवा तते ।

को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु

॥१०॥

वायुः स्पन्दनधर्मत्वाद्यदा चलति देहके ।

तदा स्फुरति हस्ताङ्गरसनापल्लवावली

॥११॥

पादपे पल्लवश्रेणीं चालयत्यनिलो यथा ।

तथैवाङ्गावलीं वायुर्देहे संचालयत्यलम्

॥१२॥

चित्सर्वव्यापिनी सूक्ष्मा न चला नैव चाल्यते ।

न स्वतः स्पन्दमायाति देवाचल इवानिलैः

॥१३॥

प्रतिबिम्बितसर्वार्था केवलं स्वात्मनि स्थिता ।

प्रकाशयति बोधेन जगन्तीमानि दीपवत्

॥१४॥

तत्र कोऽयं मुधा मोहो भवतामतिदुःखदः ।

अयं सोऽहं ममाङ्गानि ममेदं चेति दुर्धियाम्

॥१५॥

इति कल्लोलहतया दृशा नित्यमनित्यया ।

ज्ञत्वकर्तृत्वभोक्तृत्वक्रिया समुपलभ्यते

॥१६॥

तत्रायमहमागन्ता भोक्ता कर्तेति जायते ।

मुधैवाज्ञाततापोत्था मृगतृष्णेव वासना

॥१७॥

अज्ञतैषा मनोमत्तमृगं विषयतर्षुलम् ।

असत्यैव हि सत्येव मृगतृष्णेव कर्षति

॥१८॥

विज्ञाता सत्यरूपांग नाशं याति पलायते ।

विप्रमध्यात्परिज्ञाता यथा चाण्डालकन्यका

॥१९॥

अविद्या संपरिज्ञाता न चैनं परिकर्षति ।

मृगतृष्णा परिज्ञाता तर्षुले नावकर्षति

॥२०॥

परमार्थावबोधेन समूलं राम वासना ।

दीपेनेवान्धकारश्रीर्गलत्यालोक एति च

॥२१॥

नास्त्यविद्येति संजाते निश्चये शास्त्रयुक्तितः ।

गलत्यविद्या तापेन तुषारकणिका यथा

॥२२॥

देहस्यास्य जडस्यार्थे किं भोगैरितिनिश्चयः ।

भिनत्त्याशामलं ज्ञाता पञ्जरं केसरी यथा

॥२३॥

आशापरिकरे राम नूनं परिहृते हृदा ।

पुमानागतसौन्दर्यो ह्लादमायाति चन्द्रवत्

॥२४॥

परां शीतलतामेति वृष्टिधौत इवाचलः ।

निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधमः

॥२५॥

शोभते परया लक्ष्म्या शरदीव नभस्तलम् ।

आत्मन्येव न मात्युच्चैः कल्पस्यान्त इवार्णवः

॥२६॥

भवत्यपेतसंरम्भो वृष्टिमूक इवाम्बुदः ।

तिष्ठत्यात्मनि संवेत्ता प्रशान्त इव वारिधिः

॥२७॥

परं धैर्यमुपादत्ते स्थैर्यं मेरुरिवाचलः ।

राजते स्वच्छया लक्ष्म्या शान्तेन्धन इवानलः

॥२८॥

भवत्यात्मनि निर्वाणः प्रशान्त इव दीपकः ।

तृप्तिमायाति परमां नरः पीतामृतो यथा

॥२९॥

अन्तर्दीपो घट इव मध्यज्वाल इवानलः ।

स्फुरद्दीप्तिर्मणिरिव प्रयात्यन्तः प्रकाशताम्

॥३०॥

सर्वात्मकं सर्वगतं सर्वेशं सर्वनायकम् ।

सर्वाकारं निराकारं स्वमात्मानं प्रपश्यति

॥३१॥

हसत्यलमतीतास्ताः पेलवा दिवसावलीः ।

यासु स्मरशरश्रेणीचपलं चित्तमास्थितम्

॥३२॥

सङ्गरङ्गविनिष्क्रान्तः शान्तमानमनोज्वरः ।

अध्यात्मरतिरासीनः पूर्णः पावनमानसः

॥३३॥

निर्मृष्टकामपङ्काङ्कश्छिन्नबन्धनिजभ्रमः ।

द्वन्द्वदोषभयोन्मुक्तस्तीर्णसंसारसागरः

॥३४॥

प्राप्तानुत्तमविश्रान्तिर्लब्धालभ्यपरास्पदः ।

अनिवृत्तिपदं प्राप्तो मनसा कर्मणा गिरा

॥३५॥

सर्वाभिवाञ्छितारम्भो न किंचिदपि वाञ्छति ।

सर्वानुमोदितानन्दो न किंचिदनुमोदते

॥३६॥

न ददाति न चादत्ते न स्तौति न च निन्दति ।

नास्तमेति न चोदेति न तुष्यति न शोचति

॥३७॥

सर्वारम्भपरित्यागी सर्वोपाधिविवर्जितः ।

सर्वाशासंपरित्यागी जीवन्मुक्त इति स्मृतः

॥३८॥

सर्वैषणाः परित्यज्य चेतसा भव मौनवान् ।

धारा निरवशेषेण यथा त्यक्त्वा पयोधरः

॥३९॥

न तथा सुखयत्यङ्ग संलग्ना वरवर्णिनी ।

यथा सुखयति स्वान्तमिन्दुशीता निराशता

॥४०॥

न तथेन्दुः सुखयति कण्ठलग्नोऽपि राघव ।

नैराश्यं सुखयत्यन्तर्यथा सकलशीतलम्

॥४१॥

पुष्पपूर्णनवलतो न तथा राजते मधुः ।

यथोदारमतिर्मौनी नैराश्यसममानसः

॥४२॥

न हिमाद्रेर्न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् ।

न च चन्द्रमसः शैत्यं नैराश्याद्यदवाप्यते

॥४३॥

अपि राज्यादपि स्वर्गादपीन्दोरपि माधवात् ।

अपि कान्तासमासङ्गान्नैराश्यं परमं सुखम्

॥४४॥

तृणवन्नोपकुर्वन्ति यत्र त्रिभुवनश्रियः ।

सा परा निर्वृतिः साधो नैराश्यादुपलभ्यते

॥४५॥

आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ।

पुष्पगुच्छं शमतरोरालम्बस्व निराशताम्

॥४६॥

गोष्पदं पृथिवी मेरुः स्थाणुराशाः समुद्गिकाः ।

तृणं त्रिभुवनं राम नैराश्यालंकृताकृतेः

॥४७॥

दानादानसमाहारविहारविभवादिकाः ।

क्रिया जगति हस्यन्ते निराशैः पुरुषोत्तमैः

॥४८॥

पदं यस्य न बध्नाति कदाचित्कलना हृदि ।

तृणीकृतत्रिभुवनः केनासावुपमीयते

॥४९॥

इदमेवास्त्विदं मास्तु ममेति हृदि रञ्जना ।

न यस्यास्ति तमात्मेशं तोलयन्ति कथं जनाः

॥५०॥

सर्वसंकटपर्यन्तमसंकटमलं सुखम् ।

सौभाग्यं परमं बुद्धेर्नैराश्यमवलम्ब्यताम्

॥५१॥

नाशास्तेनत्वमाशानां विद्धि मिथ्याभ्रमं जगत् ।

वहद्रथस्थदिक्चक्रपरावर्तवदुत्थितम्

॥५२॥

किं मुह्यसि महाबाहो मूर्खवद्बोधितोऽपि सन् ।

ममेदं तदयं सोऽहमित्युद्भ्रान्तेन चेतसा

॥५३॥

आत्मैवेदं जगत्सर्वं नानातेह न विद्यते ।

एकरूपं जगज्ज्ञात्वा धीरैर्नाम न खिद्यते

॥५४॥

यथाभूतपदार्थौघदर्शनादेव राघव ।

परमाश्वासनं बुद्धेर्नैराश्यमधिगच्छति

॥५५॥

भावाभावविसंवादमुक्तमाद्यन्तयोः स्थितम् ।

यद्रूपं तत्समालम्ब्य पदार्थानां स्थितिं कुरु

॥५६॥

वैराग्यवीरमनसो मायेयमतिमोहिनी ।

पलाय्य याति संसारी मृगी केसरिणो यथा

॥५७॥

कान्तामुद्दाममदनां लोलां वनलतामिव ।

जर्जरोपलपाञ्चालीसमां पश्यति धीरधीः

॥५८॥

भोगा नानन्दयन्त्यन्तः खेदयन्ति न चापदः ।

दृश्यश्रियो हरन्त्यङ्ग नतमद्रिमिवानिलाः

॥५९॥

रक्तबालाङ्गनस्यापि ज्ञस्योदारधिया मुनेः ।

कणशः पांसुतां यान्ति मनसः स्मरसायकाः

॥६०॥

रागद्वेषैः स्वरूपज्ञो नावशः परिकृष्यते ।

स्पन्द एवास्य नैताभ्यां किमुताक्रमणं भवेत्

॥६१॥

समदृष्टलतालोलवनितोऽद्रिशिलाकृतिः ।

रमते नैष भोगेषु पान्थो मरुमहीष्विव

॥६२॥

अयत्नोपनतं सर्वं लीलयाऽसक्तमानसः ।

भुङ्क्ते भोगभरं प्राज्ञस्त्वालोकमिव लोचनम्

॥६३॥

काकतालीयवत्प्राप्ता भोगाली ललनादिका ।

स्वादिताप्यङ्ग धीरस्य न दुःखाय न तुष्टये

॥६४॥

सम्यग्दृष्टपथं तज्ज्ञं सुखदुःखमती मनाक् ।

द्वे वीच्याविव शैलेन्द्रं क्षोभं नेतुं न शक्नुतः

॥६५॥

हेलयालोकयन्भोगान्मृदुर्दान्तो गतज्वरः ।

स्वमेव पदमालम्ब्य सर्वभूतान्तरस्थितम्

॥६६॥

ज्ञस्तिष्ठति गतव्यग्रो व्यग्रेणापि समन्वितः ।

जगन्ति जनयन्नेव ब्रह्मैवात्मपरायणः

॥६७॥

आपतत्सु यथाकालं यथादेशं यथाक्रमम् ।

सुखदुःखेषु न क्षोभमेति भूभृदृतुष्विव

॥६८॥

मज्जतोऽपि बहुज्ञस्य राम कर्मेन्द्रियभ्रमैः ।

असक्तमनसो नित्यं न किंचिदपि मज्जति

॥६९॥

कलंकयन्तःकलङ्केन प्रोच्यते हेम नान्यथा ।

भावासक्त्या समासक्त उक्तो जन्तुर्हि नान्यथा

॥७०॥

शरीराद्व्यतिरिक्तं ज्ञं पश्यतः प्रविवेकिनः ।

विकर्तिताङ्गकस्यापि न किंचित्प्रविकर्तितम्

॥७१॥

सकृत्प्रभातं विमलं यज्ज्ञातं ज्ञातमेव तत् ।

नहि बन्धुः परिज्ञातः पुनरज्ञाततां व्रजेत्

॥७२॥

सर्पभ्रान्तौ निवृत्तायां न रज्ज्वां सर्पभावना ।

पुनरेति यथा प्रावृण्नदी गिरितटाच्च्युता

॥७३॥

न हेम तापशुद्धाङ्गं स्वभावमलमागतम् ।

कर्दमे मग्नमपि सत्समादत्ते मलं पुनः

॥७४॥

क्षीणे स्वहृदयग्रन्थौ न बन्धोऽस्ति पुनर्गुणैः ।

यत्नेनापि पुनर्बद्धं केन वृन्ते च्युतं फलम्

॥७५॥

अवच्छेदविचाराभ्यामभितः खण्डशो गतम् ।

पाषाणं च मणिं चैव संधातुं कस्य शक्तता

॥७६॥

विज्ञातायामविद्यायां कः पुनः परिमज्जति ।

परिज्ञाय श्वपाकानां यात्रां कः प्रेक्षते द्विजः

॥७७॥

शुद्धाम्भसि यथा क्षीरधीर्विचारान्निवर्तते ।

संसारवासना तद्वद्धीविचारान्निवर्तते

॥७८॥

मध्वम्बुशङ्कया तावद्विप्रवर्यैः प्रपीयते ।

यावन्नात्र परिज्ञातं परिज्ञातं प्रहीयते

॥७९॥

रूपलावण्ययुक्तापि चित्रकान्तेव कामिनी ।

द्रव्यमात्रसमारम्भात्तत्त्वविद्भिर्विलोक्यते

॥८०॥

यथा मषीकुसुम्भादि स्त्रियाश्चित्रे तथैव हि ।

जीवत्या अपि केशोष्ठं कस्तां परि किल ग्रहः

॥८१॥

अनुभूतो गुडः स्वादुरपि दाहविकर्तनैः ।

न शक्यतेऽन्यथाकर्तुं तत्त्वालोकस्तथात्मनः

॥८२॥

परव्यसनिनी नारी व्यग्रापि गृहकर्मणि ।

तदेवास्वादयत्यन्तः परसङ्गरसायनम्

॥८३॥

एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः ।

न शक्यते चालयितुं देवैरपि सवासवैः

॥८४॥

परव्यसनिनी नारी केन भर्त्रा बलीयसा ।

विस्मारिता स्वसंकल्पकान्तसङ्गमहोत्सवम्

॥८५॥

जगत्समरसानन्दचिदालोकावलम्बनम् ।

केन विस्मार्यते बुद्धिस्तत्त्वज्ञस्य महात्मनः

॥८६॥

समग्रसुखदुःखाढ्यं व्यवहारमखण्डितम् ।

कुर्वन्कुलजनायत्तो भर्तृश्वशुरखेदितः

॥८७॥

यथा संकल्पकान्तेन भवत्यानन्दमन्थरः ।

वधूलोको व्यसनवान्दुःखवृन्दैर्न बाध्यते

॥८८॥

तथा विगलिताविद्यो व्यवहारपरोऽप्यलम् ।

सम्यग्दृष्टिः सदाचारो मुदमेत्यन्तरात्मना

॥८९॥

छिद्यते न निकृत्ताङ्गो गलदश्रुर्न रोदिति ।

दह्यते न प्रदग्धोऽपि नष्टोऽपि न विनश्यति

॥९०॥

व्यपगतसुखदुःखसंनिपातो

विधिविधुरेष्वपि संकटेष्वचित्तः ।

विलसतु सदने पुरोत्तमे वा

विततगिरौ विपिने तपोवने वा

॥९१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वैराग्योपदेशो नाम चतुःसप्ततितमः सर्गः ।। ७४ ।।