मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः १२६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 126

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

सप्तानां योगभूमीनामभ्यासः क्रियते कथम् ।

कीदृशानि च चिह्नानि भूमिकां प्रति योगिनः

॥१॥

श्रीवसिष्ठ उवाच ।

प्रवृत्तश्च निवृत्तश्च भवति द्विविधः पुमान् ।

स्वर्गापवर्गोन्मुखयोः शृणु लक्षणमेतयोः

॥२॥

कियत्तन्नाम निर्वाणं वरं संसृतिरेव मे ।

इतिकर्तव्यकर्ता यः स प्रवृत्त इति स्मृतः

॥३॥

चलार्णवयुगच्छिद्रकूर्मग्रीवाप्रवेशवत् ।

अनेकजन्मनामन्ते विवेकी जायते पुमान्

॥४॥

असारा बत संसारव्यवस्थालं ममैतया ।

किं कर्मभिः पर्युषितैर्दिनं तैरेव नीयते

॥५॥

क्रियातिशयनिर्मुक्तं किं स्याद्विश्रमणं परम् ।

इति निश्चयवान्योऽन्तः स निवृत्त इति स्मृतः

॥६॥

कथं विरागवान्भूत्वा संसाराब्धिं तराम्यहम् ।

एवंविचारणपरो यदा भवति सन्मतिः

॥७॥

विरागमुपयात्यन्तर्भावनास्वनुवासरम् ।

क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम्

॥८॥

ग्राम्यासु जडचेष्टासु सततं विचिकित्सति ।

नोदाहरति मर्माणि पुण्यकर्माणि सेवते

॥९॥

मनोनुद्वेगकारीणि मृदुकर्माणि सेवते ।

पापाद्बिभेति सततं न च भोगमपेक्षते

॥१०॥

स्नेहप्रणयगर्भाणि पेशलान्युचितानि च ।

देशकालोपपन्नानि वचनान्यभिभाषते

॥११॥

तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् ।

मनसा कर्मणा वाचा सज्जनानुपसेवते

॥१२॥

यतः कुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते ।

एवंविचारवान्यः स्यात्संसारोत्तारणं प्रति

॥१३॥

स भूमिकावानित्युक्तः शेषः स्वार्थ इति स्मृतः ।

विचारनाम्नीमितरामागतो योगभूमिकाम्

॥१४॥

श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणाम् ।

मुख्यया व्याख्यया ख्याताञ्श्रयते श्रेष्ठपण्डितान्

॥१५॥

पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् ।

जानात्यधिगतश्रव्यो गृहं गृहपतिर्यथा

॥१६॥

मदाभिमानमात्सर्यमोहलोभातिशायिताम् ।

बहिरप्याश्रितामीषत्त्यजत्यहिरिव त्वचम्

॥१७॥

इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवनात् ।

सरहस्यमशेषेण यथावदधिगच्छति

॥१८॥

असंसङ्गाभिधामन्यां तृतीयां योगभूमिकाम् ।

ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम्

॥१९॥

यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलम् ।

तापसाश्रमविश्रामैरध्यात्मकथनक्रमैः

॥२०॥

संसारनिन्दकैस्तद्वद्वैराग्यकरणक्रमैः ।

शिलाशय्यासमासीनो जरयत्यायुराततम्

॥२१॥

वनवासविहारेण चित्तोपशमशोभिना ।

असङ्गसुखसौम्येन कालं नयति नीतिमान्

॥२२॥

अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् ।

जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति

॥२३॥

तृतीयां भूमिकां प्राप्य बुधोऽनुभवति स्वयम् ।

द्विःप्रकारमसंसङ्गं तस्य भेदमिमं शृणु

॥२४॥

द्विविधोऽयमसंसङ्गः सामान्यः श्रेष्ठ एव च ।

नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः

॥२५॥

इत्यसञ्जनमर्थेषु सामान्यासङ्गनामकम् ।

प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव च

॥२६॥

सुखं वा यदि वा दुःख कैवात्र मम कर्तृता ।

भोगाभोगा महारोगाः संपदः परमापदः

॥२७॥

वियोगायैव संयोगा आधयो व्याधयो धियः ।

कालः कवलनोद्युक्तः सर्वभावाननारतम्

॥२८॥

अनास्थयेति भावानां यदभावनमान्तरम् ।

वाक्यार्थलग्नमनसः सामान्योऽसावसंगमः

॥२९॥

अनेकक्रमयोगेन संयोगेन महात्मनाम् ।

वियोगेनासतामन्तः प्रयोगेणात्मसंविदाम्

॥३०॥

पौरुषेण प्रयत्नेन संतताभ्यासयोगतः ।

करामलकवद्वस्तुन्यागते स्फुटतां दृढम्

॥३१॥

संसाराम्बुनिधेः पारे सारे परमकारणे ।

नाहं कर्तेश्वरः कर्ता कर्म वा प्राकृतं मम

॥३२॥

कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।

यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते

॥३३॥

यन्नान्तर्न बहिर्नाधो नोर्ध्वं नाशासु नाम्बरे ।

न पदार्थे नापदार्थे न जडे न च चेतने

॥३४॥

आसितं भासनं शान्तमभासं नभसा समम् ।

अनाद्यन्तमजं कान्तं तच्छ्रेष्ठासङ्ग उच्यते

॥३५॥

संतोषामोदमधुरः सत्कार्यामलपल्लवः ।

चित्तनालाग्रसंलीनो विघ्नकण्टकसंकटः

॥३६॥

विवेकपद्मो रूढोऽन्तर्विचारार्कविलासितः ।

फलं फलत्यसंसङ्गां तृतीयां भूमिकामिमाम्

॥३७॥

समवायाद्विशुद्धानां संचयात्पुण्यकर्मणाम् ।

काकतालीययोगेन प्रथमोदेति भूमिका

॥३८॥

भूमिः प्रोदितमात्रा तैरमृताङ्कुरिकेव सा ।

विवेकेनाम्बुसेकेन रक्ष्या पाल्या प्रयत्नतः

॥३९॥

येनांशेनोल्लसत्येषा विचारेणोदयं नयेत् ।

तमेवानुदिनं यत्नात्कृषीवल इवाङ्कुरम्

॥४०॥

एषा हि परिमृष्टान्तरन्यासां प्रसवैकभूः ।

द्वितीयां भूमिकां यत्नात्तृतीयां प्राप्नुयात्ततः

॥४१॥

श्रेष्ठा संसङ्गता ह्येषा तृतीया भूमिकात्र हि ।

भवति प्रोज्झिताशेषसंकल्पकलनः पुमान्

॥४२॥

श्रीराम उवाच ।

मूढस्यासत्कुलोत्थस्य प्रवृत्तस्याधमस्य च ।

अप्राप्तयोगिसङ्गस्य कथमुत्तरणं भवेत्

॥४३॥

एकामथ द्वितीयां वा तृतीयां चेतरा च वा ।

आरूढस्य मृतस्याथ कीदृशी भगवन्गतिः

॥४४॥

श्रीवसिष्ठ उवाच ।

मूढस्यारूढदोषस्य तावत्संसृतिरातता ।

यावज्जन्मान्तरशतैः काकतालीययोगतः

॥४५॥

अथवा साधुसंगत्या वैराग्यं नाभ्युदेति हि ।

वैराग्येऽभ्युदिते जन्तोरवश्यं भूमिकोदयः

॥४६॥

ततो नश्यति संसार इति शास्त्रार्थसंग्रहः ।

योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः

॥४७॥

भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् ।

ततः सुरविमानेषु लोकपालपुरेषु च

॥४८॥

मेरूपवनकुञ्जेषु रमते रमणीसखः ।

ततः सुकृतसंभारे दुष्कृते च पुरा कृते

॥४९॥

भोगजाले परिक्षीणे जायन्ते योगिनो भुवि ।

शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम्

॥५०॥

जनित्वा योगमेवैते सेवन्ते योगवासिताः ।

तत्र प्राग्भावनाभ्यस्तयोगभूमिक्रमं बुधाः ।

स्मृत्वा परिपतन्त्युच्चैरुत्तरं भूमिकाक्रमम्

॥५१॥

भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्मृतम् ।

यथावद्भेदबुद्ध्येदं तज्जाग्रदिति दृश्यते

॥५२॥

उदेति योगयुक्तानामत्र केवलमार्यता ।

यां दृष्ट्वा मूढबुद्धीनामभ्युदेति मुमुक्षुता

॥५३॥

कर्तव्यमाचरन्काममकर्तव्यमनाचरन् ।

तिष्ठति प्राकृताचारो यः स आर्य इति स्मृतः

॥५४॥

यथाचारं यथाशास्त्रं यथाचित्तं यथास्थितम् ।

व्यवहारमुपादत्ते यः स आर्य इति स्मृतः

॥५५॥

प्रथमायामङ्कुरितं द्वितीयायां विकासितम् ।

फलीभूतं तृतीयायामार्यत्वं योगिनो भवेत्

॥५६॥

आर्यतायां मृतो योगी शुभसंकल्पसंभृतान् ।

भोगान्भुक्त्वा चिरं कालं योगवाञ्जायते पुनः

॥५७॥

भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।

सम्यग्ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे

॥५८॥

निर्विभागमनाद्यन्तं योगिनो युक्तचेतसः ।

समं सर्वं प्रपश्यन्ति चतुर्थी भूमिकामिताः

॥५९॥

अद्वैते स्थैर्यमायाते द्वैते प्रशममागते ।

पश्यन्ति स्वप्नवल्लोकांश्चतुर्थीं भूमिकामिताः

॥६०॥

भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ।

विच्छिन्नशरदभ्रांशविलयं प्रविलीयते

॥६१॥

सत्तावशेष एवास्ते पञ्चमीं भूमिकां गतः ।

पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम्

॥६२॥

शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ।

गलितद्वैतनिर्भासमुदितोऽन्तः प्रबुद्धवान्

॥६३॥

सुषुप्तघन एवास्ते पञ्चमीं भूमिकामितः ।

अन्तर्मुखतया तिष्ठन्बहिर्वृत्तिपरोऽपि सन्

॥६४॥

परिशान्ततया नित्यं निद्रालुरिव लक्ष्यते ।

कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः

॥६५॥

षष्ठीं तुर्याभिधामन्यां क्रमात्क्रमति भूमिकाम् ।

यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः

॥६६॥

केवलं क्षीणमननमास्ते द्वैतैक्यनिर्गतः ।

निर्ग्रन्थिः शान्तसंदेहो जीवन्मुक्तो विभावनः

॥६७॥

अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ।

अन्तःशून्यो बहिःशून्य- शून्यः कुम्भ इवाम्बरे

॥६८॥

अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।

किंचिदेवैष संपन्नस्त्वथ वैष न किंचन

॥६९॥

षष्ठ्यां भूम्यामसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ।

विदेहमुक्तता तूक्ता सप्तमी योगभूमिका

॥७०॥

अगम्या वचसां शान्ता सा सीमा भवभूमिषु ।

कैश्चित्सा शिवमित्युक्ता कैश्चिद्ब्रह्मेत्युदाहृता

॥७१॥

कैश्चित्प्रकृतिपुंभावविवेक इति भाविता ।

अन्यैरप्यन्यथा नानाभेदैरात्मविकल्पितैः

॥७२॥

नित्यमव्यपदेश्यापि कथंचिदुपदिश्यते ।

सप्तैता भूमिकाः प्रोक्ता मया तव रघूद्वह

॥७३॥

आसामभ्यासयोगेन न दुःखमनुभूयते ।

अस्त्यत्यन्तमदोन्मत्ता मृदुमन्थरचारिणी

॥७४॥

करिणी विग्रहव्यग्रा महादशनशंसिनी ।

सा चेन्निहन्यते नूनमनन्तानर्थकारिणी

॥७५॥

तदेतासु समग्रासु भूमिकासु नरो जयी ।

करिणी मदमत्ता सा यावन्न विजितौजसा

॥७६॥

को नाम सुभटस्तावत्संपत्समरभूमिषु ।

श्रीराम उवाच ।

कासौ प्रमत्ता करिणी काश्च ता रणभूमयः

॥७७॥

कथं निहन्यते चैषा क्व चैषा रमते चिरम् ।

श्रीवसिष्ठ उवाच ।

रामेच्छा नाम करिणी इदं मेऽस्त्वितिरूपिणी

॥७८॥

शरीरकानने मत्ता विविधोल्लासकारिणी ।

मत्तेन्द्रियोग्रकलभा रसनाकलभाषिणी

॥७९॥

मनोगहनसंलीना कर्मदन्तद्वयान्विता ।

मदोऽस्या वासनाव्यूहः सर्वतः प्रसरद्वपुः

॥८०॥

संसारदृष्टयो राम तस्याः समरभूमयः ।

भूयो यत्रानुभवति नरो जयपराजयौ

॥८१॥

इच्छानागी निहन्त्येषा कृपणाञ्जीवसंचयान् ।

वासनेहा मनश्चित्तं संकल्पो भावनं स्पृहा

॥८२॥

इत्यादिनिवहो नाम्नामस्यास्त्वाशयकोशगः ।

धैर्यनाम्ना वरास्त्रेण प्रसृतामवहेलया

॥८३॥

नागीं सर्वात्मिकामेतामिच्छां सर्वात्मना जयेत् ।

यावद्वस्त्विदमित्येवमियमन्तर्विजृम्भते

॥८४॥

तावदुग्रा कुसंसारमहाविषविषूचिका ।

एतावानेव संसार इदमस्त्विति यन्मनः

॥८५॥

अस्य तूपशमो मोक्ष इत्येवं ज्ञानसंग्रहः ।

प्रसादकारिणी स्वच्छा निरिच्छे विमलाकृतौ

॥८६॥

तैलबिन्दुरिवादर्शे विश्राम्यत्युपदेशवाक् ।

असंवेदनमात्रेण नोदेतीच्छाभवाङ्कुरः

॥८७॥

मनागभ्युदितैवेच्छा छेत्तव्यानर्थकारिणी ।

असंवेदनशस्त्रेण विषस्येवाङ्कुरावली

॥८८॥

इच्छाविच्छुरितो जीवो विजहाति न दीनताम् ।

स्वसंवेदनयत्नस्तु तूष्णीमेवान्तरासनम्

॥८९॥

अवधानविनिर्मुक्तं सुप्तं शवशतं यथा ।

तां प्रत्याहारबडिशेनेच्छामत्सीं नियच्छत

॥९०॥

इदं मेऽस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।

अर्थस्याभावनं यत्तत्कल्पनात्याग उच्यते

॥९१॥

स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः ।

तत्र प्रागनुभूतं च नानुभूतं च भाव्यते

॥९२॥

अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत्

॥१॥

सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामतिः

॥९३॥

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति तत् ।

असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते

॥९४॥

किल तूष्णीं स्थितेनैव तत्पदं प्राप्यते परम् ।

परमं यत्र साम्राज्यमपि राम तृणायते

॥९५॥

गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।

स्पन्दो विगतसंकल्पस्तथा स्पन्दः स्वकर्मसु

॥९६॥

बहुनात्र किमुक्तेन संक्षेपादिदमुच्यते ।

संकल्पनं परो बन्धस्तदभावो विमुक्तता

॥९७॥

सर्वमेवमजं शान्तमनन्तं ध्रुवमव्ययम् ।

पश्यन्भूतार्थचिद्रूपं शान्तमास्व यथासुखम्

॥९८॥

अवेदनं विदुर्योगं शान्तमासितमक्षयम् ।

योगस्थः कुरु कर्माणि निर्वासनोऽथ मा कुरु

॥९९॥

अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।

अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भो

॥१००॥

शिवं सर्वगतं शान्तं बोधात्मकमजं शुभम् ।

तदेकभावनं राम सर्वत्याग इति स्मृतः ।

भावयञ्छश्वदन्तः स्वं कार्यं कर्म समाचर

॥११॥

अहंममेति संविदन्न दुःखतो विमुच्यते ।

असंविदन्विमुच्यते यदीप्सितं समाचर

॥१०२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० परमार्थस्वरूपवर्णनं नाम षड्विंशत्युत्तरशततमः सर्गः ।। १२६ ।।