मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ६२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 62

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

यदेतद्भवता दृष्टं चिद्व्योमवपुषा तदा ।

तदेकदेशसंस्थेन किमुत भ्रमताम्बरे

॥१॥

श्रीवसिष्ठ उवाच ।

संघशोऽहमनन्तात्मा व्यापी व्योम तदा किल ।

स्यातां तस्यामवस्थायां कीदृशी तौ गमागमौ

॥२॥

नैकस्थानस्थितमयो नाहं गतिमयोऽभवम् ।

तदनेन स्व एवास्मिन्दृष्टमेतन्मयात्मनि

॥३॥

यथाङ्गानि शरीरत्वे पश्याम्यापादमस्तकम् ।

चिन्नेत्रेणाप्यनेत्रेण तथैतद्दृष्टवानहम्

॥४॥

अनाकृतेर्निरवयवस्थितेस्तदा

तथाऽभवाद्विमलचिदम्बरात्मनः ।

जगन्ति तान्यवयवजालकानि मे

यथा स्वतो न विगलिता न वस्तुता

॥५॥

प्रमाणमत्र ते स्वप्नदृष्टोऽभुवनविभ्रमः ।

स्वप्नेऽनुभूयते दृश्यं न च किंचित्खमेव तत्

॥६॥

यथा पश्यति वृक्षः स्वं पत्रपुष्पफलादिकम् ।

स्वसंवेदननेत्रेण तथैतद्दृष्टवानहम्

॥७॥

यथाम्बुधिरनन्तात्मा वेत्ति सर्वान् जलेचरान् ।

तरङ्गावर्तफेनांश्च तथैतद्बुद्धवानहम्

॥८॥

अवयवान्स्वानवयवी यथा वेत्ति निजात्मनि ।

अनन्यानात्मनः सर्गांस्तथैतान्बुद्धवानहम्

॥९॥

अद्यापि तानहं देहे व्योम्नि शैले जले स्थले ।

तथैव सर्गान्पश्यामि राम बोधैकतां गतः

॥१०॥

पुरोऽस्माकमिदं विश्वं गृहस्यान्तर्बहिस्तथा ।

पूर्णमेतज्जगद्वृन्दैर्वेद्मि बोधैकतां गतः

॥११॥

यथाम्भो रसतां वेत्ति शैत्यं वेत्ति यथा हिमम् ।

स्पन्दं वेत्ति यथा वायुस्तथैतद्वेत्ति शुद्धधीः

॥१२॥

यो यो नाम विवेकात्मा शुद्धबोधैकतां गतः ।

सम एव मयैकात्मा वेद्मि स्वात्मानमीदृशम्

॥१३॥

अस्या दृष्टेः परिणतेर्वेत्तृवेदनवेद्यधीः ।

न काचिदस्त्यभ्युदिता विज्ञानात्मैकता यतः

॥१४॥

दिव्या दृगद्रिसंस्थस्य तथा योजनकोटिगान् ।

भावान्वेत्ति बहिश्चान्तरेवं तद्बुद्धवानहम्

॥१५॥

यथा भूमण्डलं भावान्निधिधातुरसादिकान् ।

वेत्त्येवं तन्मया बुद्धमनन्यदृश्यमात्मनः

॥१६॥

श्रीराम उवाच ।

ब्रह्मन्ननुभवत्येवं त्वयि तामरसेक्षण ।

सा किं कृतवती ब्रूहि कान्ताऽर्यापाठपाठिनी

॥१७॥

वसिष्ठ उवाच ।

तामेवार्यां पठन्ती सा तथैवानुनयान्विता ।

मत्समीपे नभोदेहा व्योम्नि देवीव संस्थिता

॥१८॥

यथाहमाकाशवपुस्तथैवासौ खरूपिणी ।

तेन दृष्टा न सा पूर्वं देहेन ललना मया

॥१९॥

अहमाकाशमात्रात्मा सा खमात्रशरीरिणी ।

जगज्जालं खमात्रं तदिति तत्र तदा स्थितम्

॥२०॥

श्रीराम उवाच ।

शरीरस्थानकरणप्रयत्नप्राणसंभवैः ।

यदुदेति वचो वर्णैस्तत्कुतस्तादृशाकृतेः

॥२१॥

रूपालोकमनस्कारः कुतो नामात्मनामिति ।

ब्रूहि मे भगवंस्तत्त्वं यथावृत्तश्च निश्चयम्

॥२२॥

श्रीवसिष्ठ उवाच ।

रूपालोकमनस्काराः शब्दपाठवचांसि च ।

यथा स्वप्ने नभस्येव सन्ति तत्र तथाम्बरे

॥२३॥

रूपालोकमनस्कारैः स्वप्ने चिन्नभ एव ते ।

यथोदेति तथा तत्र तद्दृश्यं खात्मकं स्थितम्

॥२४॥

न केवलं तु तद्दृश्यं यावत्तु विषये वयम् ।

जगच्चेदं खमेवाच्छं यथा तन्नस्तथाखिलम् ]

॥२५॥

परमार्थमहाधातुर्वेद्यनिर्मुक्तचिद्वपुः ।

एवं नाम स्वयं भाति स्वभावस्येव निश्चयः ।०

॥२६॥

शरीरस्थानकरणसत्तायां का तव प्रमा ।

यथैव तेषां देहादि तथास्माकमिदं स्थितम्

॥२७॥

यथैव तत्तथैवेदं तथैवेदं यथैव तत् ।

असत्सत्तामिव गते सच्चासदिव च स्थितम्

॥२८॥

यथा स्वप्ने धराध्वादिपृष्ठव्यवहृतिर्नभः ।

तदा ह्यहं च त्वं सा च तदिदं च तथा नभः

॥२९॥

यथा स्वप्ने नृभिर्युद्धकोलाहलगमागमाः ।

असन्तोऽप्यनुभूयन्ते संसारनिकरास्तथा

॥३०॥

वक्षि चेत्स्वप्नदृश्यश्रीः कस्मात्तदसमञ्जसम् ।

अवाच्यमेतद्धेतुर्हि नान्योऽस्त्यनुभवस्थितेः ।०

॥३१॥

कथमालक्ष्यते स्वप्न इति प्रष्टुः प्रकथ्यते ।

यथैवं पश्यसीत्येव हेतुरत्रास्ति नेतरः

॥३२॥

स्वप्नजन्तुरिव व्योम्नि भाति प्रथमसर्गतः ।

प्रभृत्येव विराडात्मा खे खमेव परस्परे

॥३३॥

स्वप्नशब्देन बोधार्थं तव व्यवहराम्यहम् ।

दृश्यं त्विदं न सन्नासन्न स्वप्नो ब्रह्म केवलम्

॥३४॥

अथ राघव सा कान्ता मया कान्तानुषङ्गिणी ।

संविदं तन्मयीं कृत्वा पृष्टेदं दृश्यरूपिणी

॥३५॥

व्यवहारो यथोदेति स्वप्ने स्वप्नजनैः सह ।

तथा तदा तया सार्धं व्यवहारो ममोदितः

॥३६॥

यथैव स्वप्नसंकाशो व्यवहारः खमेव सः ।

तथैव त्वमिमं विद्धि मामात्मानं जगच्च खम्

॥३७॥

यथा स्वप्नजगद्रूपं खमेवैवमिदं जगत् ।

जाग्रदादौ स हि स्वप्नः सर्गादौ जगदुद्भवः

॥३८॥

स्वप्नोऽयं जगदाभोगो न किंचिद्वा खमेव च ।

निर्मलं ज्ञप्तितामात्रमित्थं सन्मात्रसंस्थितम्

॥३९॥

स्वप्नस्य विद्यते द्रष्टा साकारो युष्मदादिकः ।

द्रष्टा तु सर्गस्वप्नस्य चिद्व्योमैवामलं स्वतः

॥४०॥

यथा द्रष्टामलं व्योम दृश्यं तद्वद्गतं तथा ।

स्वप्नरूपजगत्युच्चैर्जगत्त्वेनामलं नभः

॥४१॥

चिद्व्योम्नोऽनाकृतेः स्वप्नो हृदि स्फुरति यः स्वतः ।

सर्गस्तस्य कुतस्तेन साकृतित्वं कथं भवेत्

॥४२॥

साकारस्यैव यत्स्वप्नजगत्तद्व्योम निर्मलम् ।

निराकारस्य चिद्व्योम्नः सर्गः स्वप्नः कथं न खम्

॥४३॥

निरुपादानसंभारमभित्तावेव चिन्नभः ।

पश्यत्यकृतमेवेमं जगत्स्वप्नं कृतं यथा

॥४४॥

मृद्व्या चिदाकाशमृदा ब्रह्मणा ब्राह्मणेन खे ।

कृतोऽपि न कृतः सर्गमण्डपोऽक्षगवाक्षकः

॥४५॥

नो कर्तृता न च जगन्ति न भोक्तृतास्ति

नास्तीति नास्ति न च किंचिदतो बुधः सन् ।

पाषाणमौनमवलम्ब्य यथाप्रवाहमाचारमाचर शरीरमिहास्तु मा वा ओ

॥४६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्त० पाषा० चिदैक्यं नाम द्विषष्टितमः सर्गः ।।६२।।