मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः १३

3
योगवासिष्ठम् · उपशमप्रकरणम् · 13

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

एवं जनकवद्राम विचार्यात्मानमात्मना ।

पदं विदितवेद्यानामविघ्नेनाधिगच्छसि

॥१॥

ये हि पाश्चात्यजन्मानः प्राज्ञा राजससात्त्विकाः ।

प्राप्नुवन्ति स्वयं प्राप्यं ते जना जनका इव

॥२॥

तावत्तावद्विजित्यारीनिन्द्रियाख्यान्पुनःपुनः ।

यावदात्मात्मनैवायमात्मन्येव प्रसीदति

॥३॥

प्रसन्ने सर्वगे देवे देवेशे परमात्मनि ।

स्वयमालोकिते सर्वाः क्षीयन्ते दुःखदृष्टयः

॥४॥

मुष्टयो मोहबीजानां वृष्टयो विविधापदाम् ।

कुदृष्टयः क्षयं यान्ति दृष्टे तस्मिन्परावरे ।। ऽ

सदा जनकवद्राम सर्वारम्भवदात्मना ।

प्रज्ञयात्मानमालक्ष्य लक्ष्मीवानुत्तमो भव

॥५॥

नित्यमन्तर्विचारस्य पश्यतश्चञ्चलं जगत् ।

जनकस्येव कालेन स्वयमात्मा प्रसीदति

॥७॥

न दैवं नच कर्माणि न धनानि न बान्धवाः ।

शरणं भवभीतानां स्वप्रयत्नादृते नृणाम्

॥८॥

ये दैवनिष्ठाः कृत्यादौ कुविकल्पपरायणाः ।

तेषां मन्दा मतिस्तात नानुगम्या विनाशनी

॥९॥

विवेकं परमाश्रित्य विलोक्यात्मानमात्मना ।

धिया विरागोद्धुरया संसारजलधिं तरेत्

॥१०॥

एषा सा कथिता राम नभःफलनिपातवत् ।

सुखदा ज्ञानसंप्राप्तिरज्ञानतरुशातनी

॥११॥

जनकस्येव सद्बुद्धेः स्वयमेव विलोकिनः ।

विकासमेत्ययं देही देवः प्रातरिवाम्बुजम्

॥१२॥

संसारमननं चित्रं विचारेण विलीयते ।

गलद्वशीकृतस्पर्शमातपेन हिमं यथा

॥१३॥

अयमेवाहमित्यस्या निशाया उदिते क्षये ।

स्वयं सर्वगतः स्फारः स्वालोकः संप्रवर्तते

॥१४॥

अयमेवाहमित्यस्मिन्संकोचे विलयं गते ।

अनन्तभुवनव्यापी विस्तार उपजायते

॥१५॥

जनकेन परित्यक्ता यथाहंकारवासना ।

तथा त्वमपि सद्बुद्धे विचार्यान्तः परित्यज

॥१६॥

अहंकाराम्बुदे क्षीणे चिद्व्योम्नि विमले तते ।

नूनं संप्रौढतामेति स्वालोको भास्करः परः

॥१७॥

एतावदेवातितमो यदहंभावभावनम् ।

तस्मिंश्च शममानीते प्रकाश उपजायते

॥१८॥

नाहमस्ति न चान्योस्ति नच नास्तीति भावितम् ।

मनः प्रशान्तिमायातं नोपादेयेषु मज्जति

॥१९॥

उपादेयानुपतनं हेयैकान्तविवर्जनम् ।

यदेतन्मनसो राम तद्बन्धं विद्धि नेतरत्

॥२०॥

मा खेदं भज हेयेषु नोपादेयपरो भव ।

हेयादेयदृशौ त्यक्त्वा शेषस्थः स्वच्छतां व्रज

॥२१॥

येषामिदमुपादेयमिदं हेयमिति स्थितिः ।

विलीना ते न वाञ्छन्ति त त्यजन्तीह किंचन

॥२२॥

हेयोपादेयकलने क्षीणे यावन्न चेतसः ।

न तावत्समता भातिसाभ्रे व्योम्नीवचन्द्रिका

॥२३॥

अवस्त्विदमिदं वस्तु यस्येति लुलितं मनः ।

तस्मिन्नोदेति समता शाखोट इव मञ्जरी

॥२४॥

युक्तायुक्तैषणा यत्र लाभालाभविलासिनी ।

समता स्वच्छता तत्र कुतो वैराग्यभासिनी

॥२५॥

एकस्मिन्ब्रह्मतत्त्वेऽस्मिन्विद्यमाने निरामये ।

नानाऽनानातया नित्यं किमयुक्तं क्व युक्तता

॥२६॥

ईप्सितानीप्सिताशङ्के मर्कट्यौ चित्तपादपे ।

चञ्चले स्फुरतो यस्मिन्कुतस्तस्येह सौम्यता

॥२७॥

निराशता निर्भयता नित्यता समता ज्ञता ।

निरीहता निष्क्रियता सौम्यता निर्विकल्पता

॥२८॥

धृतिर्मैत्री मतिस्तुष्टिर्मृदुता मृदुभाषिता ।

हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम्

॥२९॥

धावमानमधोभागे चित्तं प्रत्याहरेद्बलात् ।

प्रत्याहारेण पतितमधो वारीव सेतुना

॥३०॥

बाह्यानर्थानिमांस्त्यक्त्वा तिष्ठन्गच्छन्स्वपन्श्वसन् ।

सर्वथा सर्वदा सर्वानान्तरांश्च विचारय

॥३१॥

गृहीततृष्णाशफरि वासनाजालमाविलम् ।

संसारवारिप्रसृतं चिन्तातन्तुभिराततम्

॥३२॥

अनया तीक्ष्णया तात च्छिन्धि बुद्धिशलाकया ।

वात्ययेवाम्बुदं काले वहन्त्या वितते पदे

॥३३॥

अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् ।

भव्यधीरेण धैर्येण प्रोद्धरोद्धुरया धिया

॥३४॥

मनसैव मनश्छित्त्वा कुठारेणेव पादपम् ।

पदं पावनमासाद्य सद्य एव स्थिरो भव

॥३५॥

मनसैव मनच्छित्त्वा विस्मृत्या चरमं मनः ।

वर्तमानमपि च्छित्त्वा च्छिन्नसंसारतां व्रज

॥३६॥

मोहो विस्मृत्य संसारं न भूयः परिरोहति ।

चित्तं विस्मृत्य संसारो न भूयः परिरोहति

॥३७॥

तिष्ठन्गच्छन्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् ।

असदेवेदमित्यन्तर्निश्चित्यास्थां परित्यज

॥३८॥

समतामलमाश्रित्य संप्राप्तं कार्यमाहरन् ।

अचिन्तयंस्तथाऽप्राप्तं विहरेह हि राघव

॥३९॥

यथा शर्वोऽपि लिङ्गानि न बिभर्ति बिभर्ति च ।

त्वमेवमिह कार्याणि कुरु मा कुरु चानघ

॥४०॥

त्वमेव वेत्ता त्वमजस्त्वमात्मा त्वं महेश्वरः ।

आत्मनोऽव्यतिरिक्तः संस्त्वयेत्थमिदमाततम्

॥४१॥

येनात्मदृश्यसद्भावादभितो भावनोज्झिता ।

स न संगृह्यते दोषैर्हर्षामर्षविषादजैः

॥४२॥

रागद्वेषविनिर्मुक्तः समलोष्टाश्मकाञ्चनः ।

युक्त इत्युच्यते योगी त्यक्तसंसारवासनः

॥४५॥

स यत्करोति यद्भुङ्क्ते यद्ददाति निहन्ति यत् ।

तत्र मुक्तधियस्तस्य समता सुखदुःखयोः

॥४४॥

प्राप्तं कर्तव्यमेवेति त्यक्तेष्टानिष्टभावनः ।

प्रवर्तते यः कार्येषु न स मज्जति कुत्रचित्

॥४५॥

चित्सत्तामात्रमेवेदमिति निश्चयवन्मनः ।

त्यक्तभोगाभिमननं शममेति महामते

॥४६॥

मनः प्रकृत्यैव जडं चित्तत्त्वमनुधावति ।

मांसगर्धेन मार्जारो वने मृगपतिं यथा

॥४७॥

सिंहवीर्यवशाल्लब्धं मांसं भुङ्क्तेऽनुगो हरेः ।

चिद्वीर्यवशतः प्राप्तं दृश्यमाश्रयते मनः

॥४८॥

मन एवमसत्कल्पं चित्प्रसादेन जीवति ।

भावयन्विश्वमेवैकं चिन्तामेत्य चिदप्युत

॥४९॥

जडं यत्किल निर्हीनं चिता दीपिकयौजसा ।

तन्मनः शवसंकाशमचिदुत्तिष्ठते कथम्

॥५०॥

चित्स्वभावपरामृष्टा स्पन्दशक्तिरसन्मयी ।

कल्पना चित्तमित्युक्त्या कथ्यते शास्त्रदृष्टिभिः

॥५१॥

यश्चित्तफणिकूत्कारः सैवेयं कलनोच्यते ।

चिदेवाहमिति ज्ञात्वा सा चित्तामेव गच्छति

॥५२॥

चेत्येन रहिता यैषा चित्तद्ब्रह्म सनातनम् ।

चेत्येन सहिता यैषा चित्सेयं कलनोच्यते

॥५३॥

किंचिदामृष्टरूपं यद्ब्रह्म तच्च स्थिरं मनः ।

कल्पना सत्सदैवैतत्सदिवोपस्थिता हृदि

॥५४॥

चित्तमित्येव रूढेयं यदैव कलनोदिता ।।

तदैव चित्त्वं विस्मृत्य सा जडेव व्यवस्थिता

॥५५॥

संपन्ना कलनानाम्नी संकल्पानुविधायिनी ।

अवच्छेदवती वाग्रा हेयोपादेयधर्मिणी

॥५६॥

सैषा चिदेव जगतामागतेव स्वशक्तितः ।

न संप्रबोधिता यावद्रूपं तावन्न बुध्यते

॥५७॥

अतः शास्त्रविचारेण वैराग्येण परेण च ।

निग्रहेणेन्द्रियाणां च बोधयेत्कलनां स्वयम्

॥५८॥

कलना सर्वजन्तूनां विज्ञानेन शमेन च ।

प्रबुद्धा ब्रह्मतामेति भ्रमतीतरथा जगत्

॥५९॥

व्यामोहमदिरामत्तां लुठितां विषयावटे ।

आत्मावेदनसंसुप्तां कलनामेव बोधयेत्

॥६०॥

अप्रबुद्धा यदा ह्येषा न किंचिदवबुध्यते ।

संकल्पकलनेवान्तर्दृश्यमानाप्यसन्मयी

॥६१॥

तया परमया दृष्ट्या कलनैषान्तरस्थया ।

मञ्जरी गन्धशक्त्येव पदार्थेषु विराजते

॥६२॥

तनुः संकल्पिता यैषा कलनेति जगत्त्रये ।

सा हि किंचिद्विजानाति नित्यं ज्ञानैकधर्मिणी

॥६३॥

चेतनेन जडा राम कलनोपलरूपिणी ।

पद्मिनीवातपेनासौ परेणैव प्रबोध्यते

॥६४॥

यथा शिलामयी कन्या चोदितापि न नृत्यति ।

तथेयं कलना देहे न किंचिदवबुध्यते

॥६५॥

लिपिकर्मनृपैर्युद्धं क्व कृतं घर्घरारवम् ।

क्वचिन्न चन्द्रकिरणैरोषध्यः प्रतिबोधिताः

॥६६॥

असृगालिप्तगात्रैश्च शवैः क्व परिवल्गितम् ।

क्व गीतं मधुरध्वानं वनपाषाणखण्डकैः

॥६७॥

क्व पुंसा विहितैरर्कैः क्षपितं यामिनीतमः ।

क्व संकल्पमयैश्छाया क्रियते व्योमकाननैः

॥६८॥

क्व जडैरुपलाकारैर्मिथ्याभ्रमभरोत्थितैः ।

मृगतृष्णामयैरेभिर्मनोभिः क्रियते क्रिया

॥६९॥

यथातपे क्षते स्फारे मृगतृष्णातरङ्गिणी ।

कलना तद्वदेवेयं स्फुरत्यात्मनि सत्यलम्

॥७०॥

यदेतत्स्पन्दितं नाम तन्मनोऽधिगतं शठैः ।

मरुतां विद्धि तां शक्तिमन्तः प्राणशरीरिणीम्

॥७१॥

येषां संविदनाक्रान्ता संकल्पलवनिश्चयैः ।

अनाक्षिप्तरसाकारा प्रभैषा पारमात्मिकी

॥७२॥

अयं सोऽहमिदं तन्म इति या कलनाविला ।

प्राणात्मतत्त्वयोस्तस्याः संज्ञा जीवेति कथ्यते

॥७३॥

धीश्चित्तं जीव इत्येताः संकल्पस्यासतो मताः ।

संज्ञाः संकल्पितास्तज्ज्ञैर्न राम परमार्थतः

॥७४॥

मनो नो न मतिर्नापि धीरेषा न शरीरकम् ।

अस्तीह परमार्थेन स्वात्मैवेहास्ति सर्वदा

॥७५॥

आत्मैवेदं जगत्सर्वमात्मा कालक्रमस्तथा ।

स चाकाशादच्छतरो नास्तीवास्त्येव चामलः

॥७६॥

अच्छत्वादसदाभासः संविद्रूपतया तु सत् ।

आत्मा सर्वपदातीतः स्वानुभूत्यानुभूयते

॥७७॥

मनस्तत्र परिक्षीणं यत्र संवित्परात्मनः ।

अन्धकारक्षयस्तत्र यत्रालोकः प्रवर्तते

॥७८॥

यत्रात्मसंविदोऽच्छायाः संकल्पोत्थतया मताः ।

तत्रात्मनो विस्मरणं स्मरणं चित्तजन्मनः

॥७९॥

परस्य पुंसः संकल्पमयत्वं चित्तमुच्यते ।

अचित्तत्वमसंकल्पान्मोक्षस्तेनाभिजायते

॥८०॥

एतावच्चेतसो जन्म बीजं संसारभूतये ।

संकल्पोन्मुखतां यातः संविदो वा किलात्मनः

॥८१॥

निर्विकल्पाच्चितः सत्ता संकल्पाङ्ककलङ्किता ।

कलनेत्युच्यते तेन पुंस्त्ववद्बुद्ध्यते मनः

॥८२॥

प्राणशक्तौ निरुद्धायां मनो राम विलीयते ।

द्रव्यच्छायानु तद्द्रव्यं प्राणरूपं हि मानसम्

॥८३॥

देशान्तरानुभवनं प्राणो वेत्ति हृदि स्थितम् ।

स्पन्दवेदनतो यत्तन्मन इत्यभिधीयते

॥८४॥

वैराग्यात्कारणाभ्यासाद्युक्तितो व्यसनक्षयात् ।

परमार्थावबोधाच्च रोध्यन्ते प्राणवायवः

॥८५॥

दृषदो विद्यते शक्तिः कदाचिच्चलनैधसाम् ।

न पुनर्मनसामस्ति शक्तिः स्पन्दावबोधने

॥८६॥

स्पन्दः प्राणमरुच्छक्तिश्चलद्रूपैव सा जडा ।

चिच्छक्तिः स्वात्मनः स्वच्छा सर्वदा सर्वगैव सा

॥८७॥

चिच्छक्तेः स्पन्दशक्तेश्च संबन्धः कल्प्यते मनः ।

मिथ्यैव तत्समुत्पन्नं मिथ्या ज्ञानं तदुच्यते

॥८८॥

एषा ह्यविद्या कथिता मायैषा सा निगद्यते ।

परमेतत्तदज्ञानं संसारादिविषप्रदम्

॥८९॥

चिच्छक्तेः स्पन्दशक्तेश्च सङ्गे संकल्पकल्पनम् ।

न कृतं चेत्परिक्षीणास्तदिमा भवभीतयः

॥९०॥

वायुतः स्पन्दशक्तिर्या सा चिता चेत्यते यदा ।

सचेत्या चित्तदैवान्तः संकल्पाद्याति चित्तताम्

॥९१॥

चित्ततैषा चितो मिथ्या कल्पिता बालयक्षवत् ।

अखण्डमण्डलाकारस्पन्दरूपा चिदेव यत्

॥९२॥

सैषा चित्ता तदन्येन केन संबाध्यते किल ।

अखण्डशक्तेरिन्द्रस्य केन स्यात्सह संगरः

॥९३॥

अतः संबन्धिनोऽभावात्संबन्धोऽत्र न विद्यते ।

संबन्धेन विना कस्य सिद्धं तत्कीदृशं मनः

॥९४॥

चित्स्पन्दयोरेकतायां किं नाम मन उच्यते ।

का सेना हयमातङ्गसङ्गसंघट्टनं विना

॥९५॥

तस्मान्नास्त्येव दुष्टात्म चित्तं राम जगत्त्रये ।

सैषा सम्यक्परिज्ञानाच्चेतसो जायते क्षतिः

॥९६॥

मुधा मैवमनर्थाय मनः संकल्पयानघ ।

मनो मिथ्यासमुदितं नास्त्यत्र परमार्थतः

॥९७॥

मा त्वमन्तः क्वचित्किंचित्संकल्पय महामते ।

मनः संकल्पकं राम यस्मान्नास्तीह कुत्रचित्

॥९८॥

असम्यग्ज्ञानसंभूता कल्पना मृगतृष्णिका ।

हृन्मरौ तव संशान्ता सम्यगालोकनान्मुने

॥९९॥

जडत्वान्निःस्वरूपत्वात्सर्वदैव मृतं मनः ।

मृतेन मार्यते लोकश्चित्रेयं मौर्ख्यचक्रिका

॥१००॥

यस्य नात्मा न देहोऽस्ति नाधारो नापि चाकृतिः ।

तेनेदं भक्ष्यते सर्वं चित्रेयं मौर्ख्यवागुरा

॥१०१॥

सर्वसामग्र्यहीनेन हन्यते मनसापि यः ।

नीलोत्पलदलाघातैर्मन्ये दलितमस्तकम्

॥१०२॥

जडेन मूकेनान्धेन निहतो मनसापि यः ।

मन्ये स दह्यते मूढः पूर्णचन्द्रमरीचिभिः

॥१०३॥

विद्यमानोऽपि यः शूरो लोकस्तेनाभिभूयते ।

अविद्यमानमेवेदं हन्यते मुग्धतोदिता

॥१०४॥

मिथ्यासंकल्पकलितं मिथ्यावस्थितिमागतम् ।

अन्विष्टमपि नो दृष्टं का तस्य किल शक्तता

॥१०५॥

अहो नु खलु चित्रेयं मायामयविधायिनी ।

चेतसाप्यतिलोलेन लोकोऽयमभिभूयते

॥१०६॥

मौर्ख्यं यदापदान्विष्टः का हि नापदजानतः ।

पश्य मौर्ख्यादियं सृष्टिरज्ञानेनैव जन्यते

॥१०७॥

हा कष्टमपि दुर्बुद्धेः सृष्टिर्मौर्ख्यवशं गता ।

असतैव यदेतेन जीवेनाप्युपपाद्यते

॥१०८॥

मन्ये मौर्ख्यमयी सृष्टिरियमत्यन्तपेलवा ।

वास्तरङ्गप्रवाहेण कणशः परिशीर्यते

॥१०९॥

नीलाञ्जनालवालेन यन्त्रेणैव विचूर्ण्यते ।

इन्दोराभोगपूर्णस्य करस्पर्शेन मुह्यति

॥११०॥

रिपुभिर्नयनोन्मुक्तैर्दृष्टः सूत्रैर्निबध्यते ।

संकल्पकृतया शूरसेनया परिभूयते

॥१११॥

तस्मात्किलेयं मनसा न स्थितेनैव कुत्रचित् ।

कल्पितेन मुधान्येन कृपणेन निहन्यते

॥११२॥

मूर्खलोकमयी सृष्टिर्मन एवासदुत्थितम् ।

यः शक्तो न वशीकर्तुं नासौ रामोपदिश्यते

॥११३॥

अभिजाताऽस्वरूपैषा प्रज्ञा क्षोदेषु न क्षमा ।

नोपदेशगिरां योग्या परिपूर्णेव संस्थिता

॥११४॥

विभेत्येषापि वीणायास्तन्त्रीगुणतनुध्वनेः ।

बन्धोरपि सनिद्रस्य विभेति वदनद्युतेः

॥११५॥

असतोऽपि जनादुच्चैर्गीताद्भीता पलायते ।

स्वेनैव मनसाप्यज्ञा किलैषा विवशीकृता

॥११६॥

सुखलवविवशा द्विषेव तप्ता

हृदयगतेन निजेन चेतसैव ।

विधुरितधिषणा न वेत्ति सत्यं

तदपि कथं परिमोहितो मुधैव

॥११७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे मनोविनिवारणं नाम त्रयोदशः सर्गः ।। १३ ।।