मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ३६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 36

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

चमत्कुर्वन्त्यथानर्था आवर्ता इव वारिणि ।

एकस्वभावाः सकला यथा वारितरङ्गकाः

॥१॥

सर्वस्यैवास्य विश्वस्य निर्ज्ञेयज्ञेयरूपिणी ।

परमाकाशतारूपं परोपशमसंश्रया

॥२॥

बालचिन्ता पुरोव्योम्नि न किंचिदपि मे यथा ।

तथेदं तत्त्वतो विश्वं सत्यं तु शिशुचेतसि

॥३॥

अरूपालोकमननं शिलापुत्रकसैन्यवत् ।

रूपालोकमनस्कारा भान्ति केवात्र विश्वता

॥४॥

रूपालोकमनस्कारा सारश्चिन्मात्रतां विना ।

न लभ्यतेऽसावपरं व्योमेवात्र क्व विश्वता

॥५॥

विदो वित्त्वं जगद्भ्रान्तिरवित्त्वं तु न विभ्रमः ।

वित्त्वावित्त्वे त्वदायत्ते चित्ताचित्ते यथा तव

॥६॥

परमाकाशरूपत्वाच्चिद्व्योम्नो वितताकृतेः ।

न स्वभावविपर्यासः कश्चित्संभवति क्वचित्

॥७॥

तन्मयस्यास्य विश्वस्य न स्वभावविकारिता ।

विद्यते प्रेक्ष्यमाणापि किमु सास्य भविष्यति

॥८॥

सर्वं चिद्व्योम चैवेदं न सत्त्वमहमित्यपि ।

विकाराद्यस्ति न ज्ञप्तावज्ञप्तिं न लभेत्क्वचित्

॥९॥

सर्वं शान्तं शिवं शुद्धं त्वमहंतादिविभ्रमम् ।

न किंचिदपि पश्यामि व्योमजं काननं यथा

॥१०॥

संविदाकाशशून्यत्वं यत्तद्विद्धि वचो मम ।

इदं त्वत्संविदाकाशे स्वयमात्मनि तिष्ठति

॥११॥

पदमाहुः परं सद्यदनिच्छोदयमासितम् ।

पाषाणपुरुषस्येव चित्रस्थस्येव चासनम्

॥१२॥

स विश्रान्तमना मौनी यस्य प्रकृतकर्मसु ।

स्पन्दो दारुनरस्येव विगतेच्छमनाकुलम्

॥१३॥

अन्तःशून्यं बहिःशून्यं विरसं गतवासनम् ।

जगद्वेणोरिव ज्ञस्य जीवतो भाति जीवनम्

॥१४॥

यस्य न स्वदते दृश्यमदृश्यं स्वदते हृदि ।

सबाह्याभ्यन्तरं शान्तः स वितीर्णो भवार्णवात्

॥१५॥

उच्यन्तां शब्दजालानि वंशवद्गतवासनम् ।

रसेनानङ्गलग्नेन प्रकृतानन्यचोदनैः

॥१६॥

स्पृश्यन्तां स्पर्शनीयानि यथाप्राप्तान्यवासनम् ।

कूटागारवदक्षुब्धमनिच्छममनोदयम्

॥१७॥

स्वाद्यन्तां रसजालानि विगतेच्छाभयैषणम् ।

अपरागाभिलषणं यथाप्राप्तानि दर्विवत्

॥१८॥

दृश्यन्तां रूपजालानि पुनः प्राप्तान्यवासनम् ।

अरसं निर्मनोमानमगर्वं चित्रनेत्रवत्

॥१९॥

जिघ्र्यन्तां गन्धपुष्पाणि विगतेच्छमवासनम् ।

स्पन्दबन्धोपलग्नानि त्यागाय वनवातवत्

॥२०॥

इति चेद्विरसत्वेन बोधयित्वा चिकित्सिताः ।

न भोगरोगास्तद्वच्च शान्त्यै नास्ति कथैव च

॥२१॥

यः स्वादयन्भोगविषं रतिमेति दिने दिने ।

सोऽग्नौ स्वमूर्ति ज्वलिते कक्षमक्षयमुज्झति

॥२२॥

निरिच्छत्वं समाधानमाहुरागमभूषणाः ।

यथा शाम्येन्मनोऽनिच्छं नोपदेशशतैस्तथा

॥२३॥

इच्छोदयो यथा दुःखमिच्छाशान्तिर्यथा सुखम् ।

तथा न नरके नापि ब्रह्मलोकेऽनुभूयते

॥२४॥

इच्छामात्रं विदुश्चित्तं तच्छान्तिर्मोक्ष उच्यते ।

एतावन्त्येव शास्त्राणि तपांसि नियमा यमाः

॥२५॥

यावती यावती जन्तोरिच्छोदेति यथा यथा ।

तावती तावती दुःखबीजमुष्टिः प्ररोहति

॥२६॥

यथा यथेच्छा तनुतां याति जन्तोर्विवेकतः ।

तथा तथोपशाम्यन्ति दुःखचिन्ताविषूचिकाः

॥२७॥

यथा यथेच्छा घनतां याति लोकस्य रागतः ।

तथा तथा विवर्धन्ते दुःखचिन्ताविषोर्मयः

॥२८॥

इच्छा चिकित्स्यते व्याधिर्न स्वयत्नौषधेन चेत् ।

तदत्र बलवन्मन्ये विद्यते नौषधान्तरम्

॥२९॥

इच्छोपशमनं कर्तुं यदि कृत्स्नं न शक्यते ।

स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति

॥३०॥

यस्त्विच्छातानवे यत्नं न करोति नराधमः ।

सोऽन्धकूपे स्वमात्मानं दिनानुदिनमुज्झति

॥३१॥

दुःखप्रसवशालिन्या बीजमिच्छैव संसृतेः ।

सम्यग्ज्ञानाग्निदग्धा सा न भूयः परिरोहति

॥३२॥

इच्छामात्रं हि संसारो निर्वाणं तदवेदनम् ।

इच्छानुत्पादने यत्नः क्रियतां किं वृथाभ्रमैः

॥३३॥

शास्त्रोपदेशगुरवः प्रेक्ष्यन्ते किमनर्थकम् ।

किमिच्छाननुसंधानसमाधिर्नाधिगम्यते

॥३४॥

यस्येच्छाननुसंधानमात्रे दुःसाध्यता मतेः ।

गुरूपदेशशास्त्रादि तस्य नूनं निरर्थकम्

॥३५॥

इच्छाविषविकारिण्यामन्त एव नृणामलम् ।

दुःखप्रसरकारिण्या हरिण्या जन्म जङ्गले

॥३६॥

न बालीक्रियते त्वीषदात्मज्ञानाय चेदसौ ।

इच्छोपशान्तिः क्रियतां तयालं तदवाप्यते

॥३७॥

निरिच्छतैव निर्वाणं सेच्छतैव हि बन्धनम् ।

यथाशक्ति जयेदिच्छां किमेतावति दुष्करम्

॥३८॥

जरामरणजन्मादि करञ्जखदिरावलेः ।

बीजमिच्छा सदैवान्तर्दह्यतां शमवह्निना

॥३९॥

यतो यतो निरिच्छत्वं मुक्ततैव ततस्ततः ।

यावद्गति यथाप्राणं हन्यादिच्छां समुत्थिताम्

॥४०॥

यतो यतश्च सेच्छत्वं बन्धपाशास्ततस्ततः ।

पुण्यपापमया दुःखराशयो विततार्तयः

॥४१॥

इच्छानिरासरहिते गते साधोः क्षणेऽपि च ।

दस्युभिर्मुषितस्येव युक्तमाक्रन्दितुं चिरम्

॥४२॥

यथा यथास्य पुंसोऽन्तरिच्छा समुपशाम्यति ।

तथा तथास्य कल्याणं मोक्षाय परिवर्धते

॥४३॥

आत्मनो निर्विवेकस्य यदिच्छापरिपूरणम् ।

संसारविषवृक्षस्य तदेव परिषेचनम्

॥४४॥

हृद्वृक्षजाः स्वसुखदुःखकुबीजकोशौ

वैरादिवाश्रयकृतादशुभाच्छुभाच्च ।

आसाद्य दुष्कृतकृशानुशिखाः शितान्ता

इच्छाश्छमच्छमिति पुंस्पशुमादहन्ति

॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे संसारबीजकथनं नाम षट्त्रिंशः सर्गः ।। ३६ ।।