मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १३९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 139

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

चित्तमेव जगत्कर्तृ संकल्पयति यद्यथा ।

असत्सत्सदसच्चैव तत्तथा तस्य तिष्ठति

॥१॥

तेन संकल्पितः प्राणः प्राणो मे गतिरित्यपि ।

न भवामि विनानेन तेन तत्तत्परायणम्

॥२॥

अहं कतिपयं कालं ननु प्राणविनाकृतः ।

न भवामि पुनर्नूनं भवाम्येवेति कल्पितम्

॥३॥

यत्र तेनाङ्गं तत्रैतत्प्राणेनाशु क्षणाद्वपुः ।

उदितं पश्यति मनो मायापुरमिवाततम्

॥४॥

न भवाम्येव भूयोऽहं प्राणदेहविनाकृतः ।

दृढनिश्चयभागित्थं चितो भवति नो पुनः

॥५॥

दोलायितं तु संदेहाद्दुःखमास्ते कुनिश्चयम् ।

विकल्पेनैवमस्यैतज्ज्ञानान्नाल्पेन यास्यति

॥६॥

यस्यायमहमित्यस्ति तस्य तन्नोपशाम्यति ।

वर्जयित्वात्मविज्ञानं केनचिन्नाम हेतुना

॥७॥

नान्यत्र प्रथते ज्ञानं मोक्षोपायविचारणात् ।

ऋते तस्मात्प्रयत्नेन मोक्षोपायो विचार्यताम्

॥८॥

किलाहमिदमित्येव नाविद्या विद्यते क्वचित् ।

मोक्षोपायादृते नैतत्कुतश्चिदयतेऽन्यतः

॥९॥

एवं यन्मनसाभ्यस्तमुपलब्धं तथैव तत् ।

तेन मे जीवितं प्राणा इति प्राणे मनः स्थितम्

॥१०॥

देहे सौम्ये स्थिते प्राणे मनो मननवद्भवेत् ।

क्षुब्धे प्राणगतं क्षोभं पश्यन्नान्यत्प्रपश्यति

॥१४॥

यदा स्वकर्मणि स्पन्दे व्यग्रः प्राणो भृशं भवेत् ।

तदा तदीहितव्यग्रः प्राणो नात्मोद्यमी भवेत्

॥१२॥

एते हि प्राणमनसी त्वन्योन्यं रथसारथी ।

के नाम नानुवर्तन्ते रथसारथिनौ मिथः

॥१३॥

इत्यादिसर्गे स्वात्मैव चेतितः परमात्मना ।

तेनैषाद्यापि नियतिर्नाबुधानां निवर्तते

॥१४॥

देशकालक्रियाद्रव्यैर्मनःप्राणशरीरिणाम् ।

प्रयान्त्यधिगता देहेष्वरूढानां परे पदे

॥१५॥

स्वं प्राणमनसी साम्यात्कुर्वती कर्म तिष्ठतः ।

वैषम्याद्विषमं चैकं शान्ते शान्ता सुषुप्तता

॥१६॥

यदाहारादिरुद्धासु नाडीषु क्वापि पिण्डितः ।

शान्तमास्ते जडः प्राणस्तदोदेति सुषुप्तता

॥१७॥

नाडीष्वन्नावपूर्णासु तथा क्षीणासु वा क्लमात् ।

निःस्पन्दस्तिष्ठति प्राणस्तदोदेति सुषुप्तता

॥१८॥

नाडीनां मृदुरूपत्वात्पूर्णत्वाद्वा व्रणोदरे ।

क्वापि प्राणे स्थिते लीने निःस्पन्दास्ते सुषुप्तता

॥१९॥

तापस उवाच ।

अथ यस्य प्रविष्टोऽहं हृदये सोऽभवन्निशि ।

सुषुप्तघननिद्रालुराहारपरितृप्तिमान्

॥२०॥

तेन सार्धमहं तत्र तच्चित्तेनैकतां गतः ।

सुषुप्तनिद्रां सुघनां गुणीभूतोऽनुभूतवान्

॥२१॥

ततोऽन्धस्यस्य जीर्णेऽन्तर्नाडीमार्गे स्फुटे स्थिते ।

प्राकृते स्पन्दिते प्राणे सुषुप्तं तनुतां ययौ

॥२२॥

सुषुप्ते तनुतां याते हृदयादिव निर्गतम् ।

अपश्यमहमत्रैव भुवनं भास्करादिमत्

॥२३॥

तच्च क्षुब्धार्णवोत्थेन पूर्यमाणं महाम्भसा ।

विमुक्तेनेव कल्पाभ्रैरभ्रंकषतरंगिणा

॥२४॥

प्रोह्यत्पर्वतपूरेण महावर्तविराविणा ।

वहद्वनालीतृण्याढ्यैर्व्याप्तेनोन्मूलितागया

॥२५॥

पूर्वमेवावदग्धायास्त्रिलोक्याः खण्डखण्डकैः ।

पूर्णेन परितः प्रौढैः खपुराद्रिमहीमयैः

॥२६॥

अहं तत्रैव पश्यामि यावत्कस्मिंश्चिदास्पदे ।

कस्यांचित्पुरि कस्मिंश्चिद्गुहे वध्वा पुरे स्थितः

॥२७॥

सदारः सहभृत्योऽहं सपुत्रः सहबान्धवः ।

सहभाण्डोपस्करणः सगृहोऽपहृतोऽम्भसा

॥२८॥

उह्यमानं क्षयाम्भोभिस्तद्गृहं तच्च पत्तनम् ।

लङ्घ्यमानं द्रुमाकारैः पूर्यमाणं च वारिभिः

॥२९॥

बृहत्कलकलारावं जेतुमब्धिमिवोद्यतम् ।

अतिक्षुभितवास्तव्यमनपेक्षितपुत्रकम्

॥३०॥

आवर्ततरलाढ्याभिर्वृत्तिभिर्व्यूढमाकुलम् ।

साक्रन्दोरस्ताडनोत्कजनजम्बालभीषणम्

॥३१॥

स्फुटत्कुड्यत्रुटत्काष्ठरटच्छङ्कुकृतोद्रटम् ।

प्रपतच्छादनच्छत्रगवाक्षस्थाङ्गनामुखम्

॥३२॥

इति यावत्क्षणं पश्यन्नहं तद्भावमागतः ।

परिरोदिमि दीनात्मा तावत्तत्सकलं गृहम्

॥३३॥

चतुर्धा भित्तिभेदेन वृद्धबालाङ्गनान्वितम् ।

जगाम शतधा वीच्यां शिलायामिव निर्झरः

॥३४॥

उह्यमानोऽहमभवं ततः प्रलयवारिणि ।

त्यक्तसर्वकलत्रादिचित्तः प्राणपरायणः

॥३५॥

क्षिप्तस्तरङ्गजालेन योजनाद्योजनव्रजे ।

उह्यमानद्रुमशिखाज्वालान्तरितजर्जरः

॥३६॥

काष्ठकुड्यतटीपीठकटुसंघट्टघट्टितः ।

आवर्तनृत्यपातालतले गत्वोत्थितश्चिरात्

॥३७॥

चलाचलागमापायवलद्गुलुगुलारवे ।

जले बहुलकल्लोले मग्नोन्मग्नः पुनः पुनः

॥३८॥

संघट्टभग्नशैलेन्द्रपङ्किले सलिले क्षणम् ।

पल्वले वारण इव मग्नः सत्पयसोद्धृतः

॥३९॥

यावदाश्वसिमि क्षिप्रं डिण्डीरे चाद्रिखण्डके ।

तावदेत्य हतो वेगाद्वैरिणेवातिवारिणा

॥४०॥

नानावलनकल्लोलजलजालजुषा तदा ।

न तदस्ति न यद्दृष्टं दुःखं दुःखात्मना मया

॥४१॥

एतस्मिन्नन्तरे तत्र तदा तत्तामसेक्षण ।

यावज्जीवचिराभ्यासाद्विषादित्वात्सचेतसः

॥४२॥

प्राक्तनं संस्मृते रूपं स्वं समाधिमयं मया ।

आ अहो नु जगत्यन्यरूपेऽहं तापसः स्थितः

॥४३॥

अहं कस्यचिदन्यस्य स्वप्नदृष्टिदिदृक्षया ।

प्रविष्टोऽहमयं स्वप्ने पश्यामीमं भ्रमं त्विति

॥४४॥

वर्तमानदृढाभ्यासमिथ्याज्ञानमयात्मनि ।

कल्लोलैरुह्यमानोऽपि ततोऽहं सुखितः स्थितः

॥४५॥

इदं वारितयापश्यं प्रलयाब्धिविवर्तनाः ।

उह्यमानाद्रिनगरग्रामोर्वीखण्डपादपाः

॥४६॥

उह्यमानामराहीन्द्रनारीनरनभश्चराः ।

उह्यमानमहारम्भलोकपालपुरालयाः

॥४७॥

अथाहमद्रिमिश्राम्बुकल्लोलाद्रिविघट्टनाः ।

मुहुः पश्यञ्जगन्नाशमनन्तरमचिन्तयम्

॥४८॥

चित्रमेष त्रिनेत्रोऽपि जीर्णं तृणमिवार्णवे ।

उह्यते हा हतविधेर्नाऽकार्यं नाम विद्यते

॥४९॥

चतुर्धा भित्तिभेदेन प्रकटाशयतामहम् ।

पद्मानीव गृहाण्यप्सु दर्शयन्ति रवेः प्रभाः

॥५०॥

चित्रं तरङ्गवलनासु समुल्लसन्ति

गन्धर्वकिंनरनरामरनागनार्यः ।

भूरिभ्रमैर्भ्रमरहारमिव ह्रदिन्यः

पद्मिन्य एव सकलामलजङ्गमाख्याः

॥५१॥

विद्याधरीभुजलतावलितेन्दुकान्त-

कक्ष्याविभागमणिजालगवाक्षलक्ष्म्यः ।

देवासुरोरगमहागृहभित्तिभागाः

सौवर्णनौगणवदम्बुभरे भ्रमन्ति

॥५२॥

मत्तेभकुम्भपरिणाहिनि कुङ्कुमाङ्के

शच्याः पयोधरभरे रतिखेदखिन्नः ।

लग्नः सुखादिव करोति तरङ्गदोलाः

संशीर्यमाणमणिगेहगतोऽत्र शक्रः

॥५३॥

हा वान्ति वारिवलनावलितान्तरिक्ष-

मृक्षावधूतकुसुमप्रकरान्किरन्तः ।

वाताः पतद्विबुधमन्दिररत्नसाना-

बुद्यानकोटरगता इव साक्षतेन

॥५४॥

यन्त्रोत्थहेमदृषदा सदृशाम्बुरूपं

क्षुब्धाद्रिभीमजलवीचिशिखेरितं खे ।

व्यावर्तते दिवि दलावृतकर्णिकास्थ-

ध्यानैकनिष्ठपरमेष्ठिसरोजमेतत्

॥५५॥

मेघा इवातिघनघुंघुमघोषभीमा

वीचीचयाः कनकपत्तनविद्युतोऽमी ।

व्योम्नि भ्रमन्ति गजवाजिमृगेन्द्रनाग-

वृक्षाद्रिकाननमहीतलतुल्यदेहाः

॥५६॥

उह्यमानोदभूवीच्यामतसीकुसुमश्रियाम् ।

यमोऽप्ययं यमेनेव वारिपूरेण नीयते

॥५७॥

एते बुद्ध्यन्ति सलिलेऽखिललोकपाला

नागा नगैश्च नगरैः सह लक्षसंख्याः ।

लक्ष्म्याकरोदरगुहागतवारिपूर-

व्यावर्तनागुडगुडैरभिलक्ष्यपूराः

॥५८॥

दुर्वारवारिवलनापरिपूरितेषु

पातालभूतलनभस्तलदिक्तटेषु ।

मत्स्या इवेन्द्रयमयक्षसुरासुरौघाः

सग्रामपत्तनविमाननगा भ्रमन्ति

॥५९॥

उह्यमानस्य कृष्णस्य तनुरेवाम्बुरूपिणी ।

मातृजङ्घेव वत्सस्य कष्टं बन्धनतां गता

॥६०॥

अन्योन्यमावलयतामहो बुडबुडारवः ।

श्रूयते देवदैत्यानां स्वस्त्रीहलहलाकुलः

॥६१॥

कोलाहलाकुलपुरोत्तमवेगपात-

विक्षुब्धवारिपटलीवलिताम्बरासु ।

दिक्षु भ्रमज्जलदजालघनास्विवैष

संलक्ष्यते जलमयः स्फुटकुड्यबन्धः

॥६२॥

हा कष्टमेष तरसा पयसापनीत

आवर्तवृत्तिपरिवर्तनया स्वधस्तात् ।

एते कुबेरयमनारदवासवाद्याः

प्राणान्पयोभ्रपटलैर्विधुरास्त्यजन्ति

॥६३॥

प्राज्ञाः प्रशान्तजडदेहमिहोह्यमानं

मानोज्झिताः शवतयैव च तद्वहन्ति ।

ब्रह्मेन्द्रविष्णुपुरखण्डकसंकटाम्बु

संघट्टनेन कटुकुट्टनदृक्षु तेन

॥६४॥

स्त्रीणां गणोऽर्धपरिपिष्ट इहैति कष्टं

कस्त्रातुमेनमपरः कुजडं समर्थः ।

न ह्यन्तकस्य दशनैरभिचर्व्यमाणा

त्रातुं परस्परमियं जनता समर्था

॥६५॥

पर्वतप्रतिघसर्पसर्पणाः

संसरन्ति विपुला जलोच्चयाः ।

तेषु नाव इव देवपत्तना-

न्युन्नमय्य वपुराशु यान्त्यधः

॥६६॥

द्वीपाद्रीन्द्रसुरासुरोरगनरैर्नागाप्सरश्चारणै-

व्याप्तं वारिविलोलितैः सरसिजैरालूनमूलैरिव ।

एकाम्भोधिसरः स्थितं त्रिभुवनं कालेन निर्मूलितं

कष्टं ते क्व गता महर्द्धिविभवा देवा जगन्नायकाः

॥६७॥