मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ६७

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 67

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

मनस्त्वयोग्यो जीवोऽयं को भवेत्परमात्मनः ।

कथं वास्मिन्समुत्पन्नः को वायं वद मे पुनः

॥१॥

श्रीवसिष्ठ उवाच ।

समस्तशक्तिखचितं ब्रह्म सर्वेश्वरं सदा ।

ययैव शक्त्या स्फुरति प्राप्तां तामेव पश्यति

॥२॥

स्वयं यां वेत्ति सर्वात्मा चिरं चेतनरूपिणीम् ।

सा प्रोक्ता जीवशब्देन सैव संकल्पकारिणी

॥३॥

स्वभावात्कारणं द्वित्वं पूर्वसंकल्पचित्स्वयम् ।

नानाकारणतां पश्चाद्याति जन्ममृतिस्थितेः

॥४॥

श्रीराम उवाच ।

एवं स्थिते मुनिश्रेष्ठ दैवं नाम किमुच्यते ।

किमुच्यते तथा कर्म कारणं च किमुच्यते

॥५॥

श्रीवसिष्ठ उवाच ।

स्पन्दास्पन्दस्वभावं हि चिन्मात्रमिह विद्यते ।

खे वात इव तत्स्पन्दात्सोल्लासं शान्तमन्यथा

॥६॥

चित्त्वं चित्तं भावितं सत्स्पन्द इत्युच्यते बुधैः ।

दृश्यत्वभावितं चैतदस्पन्दनमिति स्मृतम्

॥७॥

स्पन्दात्स्फुरति चित्सर्गो निःस्पन्दाद्ब्रह्म शाश्वतम् ।

जीवकारणकर्माद्या चित्स्पन्दस्याभिधा स्मृता

॥८॥

य एवानुभवात्मायं चित्स्पन्दोऽस्ति स एव हि ।

जीवकारणकर्माख्यो बीजमेतद्धि संसृतेः

॥९॥

कृतद्वित्वचिदाभासवशाद्देहमुपस्थितम् ।

संकल्पाद्विविधार्थत्वं चित्स्पन्दो याति सृष्टिषु

॥१०॥

नानाकारणतां यातश्चित्स्पन्दो मुच्यते चिरात् ।

कश्चिज्जन्मसहस्रेण कश्चिदेकेन जन्मना

॥११॥

स्वभावात्कारणाद्वित्वं चित्समेत्याधिगच्छति ।

स्वर्गापवर्गनरकबन्धकारणतां शनैः

॥१२॥

हेम्नीव कटकादित्वं काष्ठलोष्टसमस्थितौ ।

देहे तिष्ठति नानात्वं जडे भावविकारजम्

॥१३॥

अजातमप्यसद्रूपं पश्यतीदं मनोभ्रमः ।

जातः स्थितोमृतोऽस्मीति भ्रमार्तः पत्तनं यथा

॥१४॥

अहंममेत्यसद्रूपमेव चेतः प्रपश्यति ।

अदृष्टपरमार्थत्वादाशाविवशसंस्थिति

॥१५॥

मथुराधिपते राज्ञो यथा श्वपचसंभ्रमः ।

आसीदेवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः

॥१६॥

सर्वमेव मनोमात्रभ्रान्त्युल्लासविजृम्भणम् ।

इदं जगत्तया राम प्रस्फुरत्यम्बुभङ्गवत्

॥१७॥

शिवात्प्राक्कारणात्पूर्वं चिच्चेत्यकलनोन्मुखी ।

उदेति सौम्याज्जलधेः पयःस्पन्दो मनागिव

॥१८॥

स्फुरणाज्जीवचक्रत्वमेति चित्तोर्मितां दधत् ।

चिद्वारिब्रह्मजलधौ कुरुते सर्गबुद्बुदान्

॥१९॥

स्वस्थः सौम्य समस्यैतद्यत्सिंहस्य विजृम्भणम् ।

ब्रह्मणः संविदाभासस्तत्संचेत्यमिव स्वयम्

॥२०॥

चित्संवित्त्योच्यते जीवः संकल्पात्स मनो भवेत् ।

बुद्धिश्चित्तमहंकारो मायेत्याद्यभिधं ततः

॥२१॥

तन्मात्रकल्पना पूर्वं तनोतीदं जगन्मनः ।

असत्यं सत्यसंकाशं गन्धर्वनगरं यथा

॥२२॥

यथा शून्ये दृशः स्फारान्मुक्तावल्यादिदर्शनम् ।

यथा स्वप्ने भ्रमश्चैव तथा चित्तस्य संसृतिः

॥२३॥

शुद्ध आत्मा नित्यतृप्त इव शान्तः समस्थितः ।

अपश्यन्पश्यतीवेमं चित्ताख्यं स्वप्नविभ्रमम्

॥२४॥

संसृतिर्जाग्रदित्युक्तं स्वप्नं विदुरहंकृतिम् ।

चित्तं सुषुप्तभावः स्याच्चिन्मात्रं तुर्यमुच्यते

॥२५॥

अत्यन्तशुद्धे सन्मात्रे परिणामनिरामयम् ।

तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति

॥२६॥

तस्मिन्सर्वमुदेतीदं तस्मिन्नेव प्रलीयते ।

न चेदं न च तत्रेदं दृष्टौ मुक्तावली यथा

॥२७॥

अरोधकत्वात्खं हेतुर्यथा वृक्षसमुन्नतेः ।

अकर्तापि तथा कर्ता चेतनाब्धिर्जगत्स्थितेः

॥२८॥

संनिधानाद्यथा लौहः प्रतिबिम्बस्य हेतुताम् ।

यात्यादर्शस्तथैवायं चिन्मयोऽप्यर्थवेदने

॥२९॥

बीजमङ्कुरपत्रादियुक्त्या यद्वत्फलं भवेत् ।

चिन्मात्रं चित्तजीवादियुक्त्या तद्वन्मनो भवेत्

॥३०॥

स्वतोबीजफला विप्रुड् यथा बीजं पुनर्भवेत् ।

तथा चिच्चेत्यचित्तादि त्यक्त्वा स्वस्था न तिष्ठति

॥३१॥

यद्यप्यबोधे बोधे वा बीजान्तस्तरुबीजयोः ।

इयान्भेदोऽस्ति न जगद्ब्रह्मणोरपि चित्तयोः

॥३२॥

तथापि व्यज्यते बोधे सत्यात्मकमखण्डितम् ।

रूपश्रीरिव दीपेन चिन्मात्रालोकरूपि यत्

॥३३॥

यद्यन्निखन्यते भूमेर्यथा तत्तन्नभो भवेत् ।

या या विचार्यते विद्या तथा सा सा परं भवेत्

॥३४॥

स्फटिकान्तःसन्निवेशः स्थाणुताऽवेदनाद्यथा ।

शुद्धेऽनानापि नानेव तथा ब्रह्मोदरे जगत्

॥३५॥

ब्रह्म सर्वं जगद्वस्तु पिण्डमेकमखण्डितम् ।

फलपत्रलतागुल्मपीठबीजमिव स्थितम्

॥३६॥

श्रीराम उवाच ।

अहो चित्रं जगदिदमसत्सदिव भासते ।

अहो बृहदहो स्वस्थमहो स्फुटमहो तनु

॥३७॥

ब्रह्मणि प्रतिभासात्मा तन्मात्रगुणगोलकः ।

अवश्यायकणाभासो यथा स्फुरति तच्छ्रुतम्

॥३८॥

यथाऽसौ याति वैपुल्यं यथा भवति चात्मभूः ।

यथा स्वभावसिद्धार्थात्तथा कथय मे प्रभो

॥३९॥

श्रीवसिष्ठ उवाच ।

अत्यन्तासंभवद्रूपमनन्यत्स्वस्वभावतः ।

अत्यन्ताननुभूतं सत्स्वानुभूतमिवाग्रतः

॥४०॥

उल्लासफुल्लो फुल्लाङ्ग इति बालहृदि स्फुटम् ।

यथोदेति तथोदेति परे ब्रह्मणि जीवता

॥४१॥

मानमेयात्मिका शुद्धा सत्यैवासत्यवत्स्थिता ।

भिन्नेव च न भिन्ना स्याद्ब्रह्मणो ब्रंह्मणात्मिका

॥४२॥

यथा ब्रह्म भवत्याशु जीवः कलनजीवितः ।

तथा जीवो भवत्याशु मनो मननवेदनात्

॥४३॥

चित्तं तन्मात्रमननं पश्यत्याशु स्वरूपवत् ।

एष सद्योऽनिललवप्रख्यः स्फुरति खान्तरे

॥४४॥

अस्तनिमेषोऽनुभवत्यवश्यायकणोपमम् ।

संवेदनात्मकं कालकलितं कान्तमात्मनि

॥४५॥

अहं किमिति शब्दार्थवेदनाभोगसंविदम् ।

संविदं तत्त्वशब्दार्थं जीवः पश्यति सार्थकम्

॥४६॥

तादृक्षवेदनात्सोऽथ रसशब्दार्थवेदनम् ।

भाविजिह्वार्थनाम्नैकदेशेऽनुभवति क्षणात्

॥४७॥

तादृक्षवेदनात्तेजःशब्दार्थोन्मुखतां गतः ।

भविष्यन्नेत्रनाम्नैकदेशे भवति भासनम्

॥४८॥

तादृक्षवेदनात्सोऽथ घ्राणं तद्दृष्टिवेदनात् ।

स्थितो यस्मिन्भवतीति तावद्दृश्यादिता स्थिता

॥४९॥

एवंप्रायः स जीवात्मा काकतालीयवच्छनैः ।

विशिष्टसंनिवेशत्वं भावितं पश्यति स्वतः

॥५०॥

स तस्य संनिवेशस्य त्वसतोऽपि सतः सतः ।

शब्दभावैकदेशत्वं श्रवणार्थेन विन्दति

॥५१॥

स्पर्शभावैकदेशत्वं त्वक्शब्दार्थेन विन्दति ।

रसभावैकदेशत्वं रसनात्वेन विन्दति

॥५२॥

रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति ।

गन्धभावैकदेशत्वं नासिकात्वेन पश्यति

॥५३॥

एवं भावमयैः सत्ताप्रकटीकरणक्षमम् ।

भविष्यदिन्द्रियाख्यं स रन्ध्रं पश्यति देहके

॥५४॥

इत्येवमादि जीवस्य राघवाद्यतनस्य च ।

उदेति प्रतिभासात्मा देह एवातिवाहिकः

॥५५॥

अनाख्येयं परा सत्तास्यातिवाहिकतामिव ।

सा गच्छत्यप्यगच्छन्ती तादृक्सत्यात्मभावनात्

॥५६॥

मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात् ।

तदातिवाहिकोक्तीनां कः प्रसङ्गस्तदेव तत्

॥५७॥

अन्यत्ववेदनादन्यः परस्मादातिवाहिकः ।

ब्रह्मत्ववेदनाद्ब्रह्म सा संवित्तिर्हि नान्यजा

॥५८॥

श्रीराम उवाच ।

असंभवादसंवित्तेर्ब्रह्मात्मैकतयाथवा ।

को मोक्षः को विचारश्चेत्यलं भेदविकल्पनैः

॥५९॥

श्रीवसिष्ठ उवाच ।

सिद्धान्तकाल एवैष प्रश्नस्ते राम राजते ।

अकालपुष्पमाला हि शोभनापि न शोभते

॥६०॥

सार्थैवानर्थिकाऽकालमाला विलसिता यथा ।

तथैवाऽकालमिज्जन्तौ सर्वं काले हि शोभते

॥६१॥

प्रतिबन्धाभ्यनुज्ञानां कालो दातेति दृश्यते ।

ननु सर्वपदार्थानां कालेन फलयोगतः

॥६२॥

एवमेव स जीवात्मा स्वप्नात्मा समुपस्थितः ।

पितामहत्वमुच्छूनं पश्यन्नात्मनि कालतः

॥६३॥

ओंमुच्चारणसंवित्तिवेदनाच्च प्रपश्यति ।

यत्करोति मनोराज्यं भवत्याशु स तन्मयः

॥६४॥

इदमेवमसत्सर्वमिव व्योम्नि ततात्मनि ।

पर्वतोच्चाकृतिर्व्योम जगद्व्योम्नि विजृम्भते

॥६५॥

नेह प्रजायते किंचिन्नेह किंचिद्विनश्यति ।

जगद्गन्धर्वनगररूपेण ब्रह्म जृम्भते

॥६६॥

यथैव पद्मजादीनां जीवानां सदसन्मयी ।

सत्ता तथैव सर्वेषामासरीसृपमासुरम्

॥६७॥

संवित्संभ्रम एवायमेवमभ्युत्थितोऽप्यसन् ।

आब्रह्मकीटसंवित्तेः सम्यक्संवेदनात्क्षयः

॥६८॥

यथा संपद्यते ब्रह्मा कीटः संपद्यते तथा ।

कीटस्तु रूढभूतौघवलनात्तुच्छकर्मकः

॥६९॥

यदेव जीवनं जीवे चेत्योन्मुखचिदात्मकम् ।

तदेव पौरुषं तस्मिन्सारं कर्म तदेव च

॥७०॥

ब्रह्मणः सुकृतात्पापात्कीटकस्य समुत्थितेः ।

चित्तन्मात्रात्मिका भ्रान्तिः प्रेक्षामात्रं भवेत्क्षयः

॥७१॥

मातृमानप्रमेयाणि न चिन्मात्रेतरद्यतः ।

ततो द्वैतैक्यवादार्थः शशशृङ्गाज्जिनीसमः

॥७२॥

भावदार्ढ्यात्मकं मिथ्या ब्रह्मानन्दो विभाव्यते ।

आत्मैव कोशकारेण लालादार्ढ्यात्मकं यथा

॥७३॥

मनसा ब्रह्मणा यद्यद्यथा दृष्टं विभावितम् ।

तत्तथा दृश्यते तज्ज्ञैः स्वभावस्यैव निश्चयः

॥७४॥

यथा यदुदितं वस्तु तत्तत्तन्न विना भवेत् ।

निमेषमपि कल्पं वा स्वभावस्यैष निश्चयः

॥७५॥

अलीकमिदमुत्पन्नमलीकं च विवर्धते ।

अलीकमेव स्वदते तथालीकं विलीयते

॥७६॥

शुद्धं सर्वगतं ब्रह्मानन्तमद्वितीयं दुःखबोधवशाद

शुद्धमिवासदिवानेकमिवासर्वगमिवावबुध्यते

॥७७॥

जलमन्यत्तरङ्गोऽन्य इति बालकुकल्पनया भेदः

कल्प्यत एवमवास्तवस्तस्माद्यो योऽयमाभाति भेदः

स केवलमतत्त्वविद्भिः परिकल्पितो रज्ज्वां सर्प

इव एवं भेदाभेदशक्त्योररिमित्रयोरेव ब्रह्मण्येव

संभवेत्

॥७८॥

तेनात्मनाऽद्वितीयेनैव द्वित्वमिवाततं यथासलि-

लेन तरंगकल्पनया सुवर्णेन कटककल्पनयैवमिति

अतस्तेन स्वयमेवात्मनात्मान्य इव चेत्यते

॥७९॥

अतः कलना जाता सैव स्फारतां प्राप्य मनः

संपन्नं तेनाहंभावः कल्पितो निर्विकल्पप्रत्यक्षरूप-

मेतत्प्रथमं तन्मनस्तदहं भवति क्षिप्रमहंशब्दार्थ-

भावनात्

॥८०॥

ततो मनोहंकाराभ्यां स्मृतिरनुसंहिता तैस्त्रिभिस्तदनुभूततन्मात्राणि कल्पितानि तन्मात्रेषु जीवेन

चित्तात्मना स्वयं काकतालीयवद्ब्रह्मोपादानादि

यान्संनिवेशः कल्पितो दृश्यते

॥८१॥

एवं यदेव मनः कल्पयति तदेव पश्यति । सद्वा भवत्वसद्वा चित्तं यत्कल्पयत्यभिनेविष्टम् । तत्तत्पश्यति यास्यति सदिव प्रतिभासमुपगतं सद्यः

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे सत्योपदेशो नाम सप्तषष्टितमः सर्गः ।। ६७ ।।