मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ४०

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 40

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

ईश्वर उवाच ।

यथाकालं यथारम्भं न करोषि करोषि यत् ।

चिन्मात्रस्य शिवस्यान्तस्तदेवार्चनमात्मनः

॥१॥

तेनैवाह्लादमायाति याति प्रकटतां तथा ।

तथा स्थितेन रूपेण स्वेनैव स्वयमीश्वरः

॥२॥

रागद्वेषादिशब्दार्थानात्मन्यन्यतयामले ।

संभवन्ति पृथग्रूपावह्नौ वह्निकणा इव

॥३॥

यद्यद्राजत्वदीनत्वसुखदुःखादिवेदनम् ।

आत्मीयं परकीयं च तत्तदर्चनमात्मनः

॥४॥

विश्वसंवित्तिरेवार्चा नित्यस्यात्मन एव च ।

घटाद्यात्मतया ब्रह्म स्वयमात्मा तथैव च

॥५॥

शिवं शान्तमनाभासमेकं भास्वरमागतम् ।

जगत्प्रत्ययवत्सर्वमात्मरूपमिदं स्थितम्

॥६॥

अहो नु चित्रमात्मैव घटाद्यन्यद्व्यवस्थितम् ।

जीवादिस्वस्वभावोऽन्तर्नूनं विस्मृतिमानिव

॥७॥

सर्वात्मकस्यानन्तस्य शिवस्यान्तः किलात्मनः ।

पूज्यपूजकपूजाख्यो विभ्रमः प्रोदितः कुतः

॥८॥

नियताकारता शान्ते न च संभवतीश्वरे ।

यत्र संकल्प्यते ब्रह्मन्पूज्यपूजामयः क्रमः

॥९॥

पूज्यपूजाद्यवच्छिन्नो देवो नित्यामलात्मनः ।

सर्वशक्तेरनन्तस्य नेश्वरत्वस्य भाजनम्

॥१०॥

त्रिजगत्प्रसृताच्छाच्छसंविद्रूपस्य चात्मनः ।

नेश्वरस्याकृतेर्ब्रह्मन्व्यपदेशो हि युज्यते

॥११॥

देशकालपरिच्छिन्नो येषां स्यात्परमेश्वरः ।

अस्माकमुपदेश्यास्ते न विपश्चिद्विपश्चिताम्

॥१२॥

तदीयां दृष्टिमुत्सृज्य तथेमामवलम्ब्य च ।

समः स्वच्छमनाः शान्तो वीतरागो निरामयः

॥१३॥

कामोपहारैरभितो यथाप्राप्तैरखिन्नधीः ।

आत्मानमर्चयंस्तिष्ठ सुखदुःखशुभाशुभैः

॥१४॥

अधिगतवति साधौ चैकमेवानुरूपं

त्वयि तरलितजीवे जन्मदुःखादि किंचित् ।

न लगति परिशून्ये सर्वतः स्फाटिकाङ्गे

नवसदन इवाङ्के निष्कलङ्के कलङ्कः

॥१५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० देवतातत्त्वविचारो नाम चत्वारिशः सर्गः ।। ४० ।।