मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ५६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 56

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

सर्वत्र सर्वथा सर्वं सर्वदा व्योम्नि चिन्मये ।

साधु संभवति स्वच्छं शून्यत्वं ख इवाखिले

॥१॥

यत्र चित्तत्र सर्गश्रीरव्योम्नि व्योम्नि वास्ति चित् ।

चिन्मयत्वात्पदार्थानां सर्वेषां नास्त्यचित्क्वचित्

॥२॥

पदार्थजातं शैलादि यथा स्वप्ने पुरादि च ।

चिदेवैकं परं व्योम तथा जाग्रत्पदार्थभूः

॥३॥

पाषाणाख्यानमत्रेदं शृणु राम रसायनम् ।

पूर्व मयैव यद्दृष्टं चित्र प्रकृतमेव च

॥४॥

अहं विदितवेद्यत्वात्कदाचित्पूर्णमानसः ।

त्यक्तुमिच्छुरिमं लोकव्यवहारं घनभ्रमम् ओ

॥५॥

ध्यानैकतानतामेत्य शनैर्विश्रान्तये चिरम् ।

त्यक्ताजवं जवीभाव एकान्तार्थी शमं व्रजन्

॥६॥

इदं चिन्तितवानस्मि कस्मिंश्चिदमरालये ।

संस्थितो विविधाः पश्यन्भङ्गुरा जागतीर्गतीः

॥७॥

विरसा खल्वियं लोकस्थितिरापातसुन्दरी ।

न जातु सुखदा मन्ये कस्यचित्केनचित्क्वचित्

॥८॥

उद्वेगं जनयत्यन्तस्तीव्रसंवेगखेदतः ।

इमा दृश्यदृशो द्रष्टुरिष्टानिष्टफलप्रदाः ।।

किमिदं दृश्यते किं वा प्रेक्षते कोऽहमेव वा ।

सर्व शान्तमजं व्योम चिन्मात्रात्मनि रिङ्गकम्

॥१०॥

तस्मात्समस्तसिद्धेन्द्रदेवदैत्यादिदुर्गमम् ।

सुप्रदेशमितो गत्वा संगोप्यात्मानमात्मना ०

॥११॥

अदृश्यः सर्वभूतानां निर्विकल्पसमाधिगः ।

समे स्वच्छे पदे शान्ते आसे विगतवेदनम्

॥१२॥

तस्मात्को नु प्रदेशः स्यादत्यन्तं शून्यतां गतः ।

यत्रैता नानुभूयन्ते पञ्च बाह्यार्थवेदनाः

॥१३॥

शब्दकाननवार्यब्दभूतौघाभिसमाकुलाः ।

क्षोभयन्त्यथ संक्षुब्धास्तस्मान्मे गिरयोऽरयः

॥१४॥

नानाविधा नगेन्द्राणामन्तरावलिता जनैः ।

देशा विषमया एव निःशेषा विषयाहिभिः

॥१५॥

जनैर्जलचरैर्व्याप्ताः सागरा नीरकुक्षयः ।

विविधारम्भसंक्षुब्धैर्नगराणीव नागरैः

॥१६॥

तटान्यद्र्यम्बुराशीनां लोकपालपुराणि च ।

भूताकुलानि शृङ्गाणि पातालकुहराणि च

॥१७॥

गायन्त्यनिलभांकारैर्नृत्यन्ति लतिकाः करैः ।

पुष्पैर्हसन्त्यगेन्द्राणां गुहा गहनकोटराः

॥१८॥

मौनिमीनमुनिस्पर्शकम्पिनालचलाम्बुजाः ।

सरस्यो विरसा एव वार्यावर्तविराविताः

॥१९॥

पवनस्पर्शसंक्षुब्धतृणपांसुपताकिनी ।

रटत्यनिलभांकारैर्निर्झरोर्व्यप्यसंयता

॥२०॥

तस्मादाकाशमाशून्यं कस्मिंश्चिद्दूरकोणके ।

अत्र तिष्ठाम्यवष्टभ्य योगयुक्तिमनिन्दिताम्

॥२१॥

कस्मिश्चिदेककोणेऽत्र कृत्वा कल्पनया कुटीम् ।

वज्रोदरदृढं तस्यामन्तस्तिष्ठाम्यवासनम्

॥२२॥

इति संचिन्त्य यातोऽहमाकाशमसि निर्मलम् ।

यावत्तदपि पश्यामि सकलं विततान्तरम्

॥२३॥

क्वचिद्भ्रमत्सिद्धगणं क्वचिदुद्गर्जदम्बुदम् ।

क्वचिद्विद्याधराधारं यक्षोत्क्षिप्तक्षयं क्वचित्

॥२४॥

क्वचिद्भ्रमत्पुरवरं प्रारब्धसमरं क्वचित् ।

क्वचिद्द्र्वज्जलधरं क्वचिदुद्वृत्तयोगिनि

॥२५॥

क्वचिद्दैत्यपुरोड्डीनसगन्धर्वपुरं क्वचित् ।

क्वचिद्भ्रमद्ग्रहगणं तारकाकुलितं क्वचित्

॥२६॥

क्वचित्खे खगसंघृष्टं क्वचित्क्रुद्धमहानिलम् ।

क्वचिदुत्पातवलितं क्वचिन्मण्डलमण्डितम्

॥२७॥

क्वचिदपूर्वभूतौघं नागरावलितं क्वचित् ।

क्वचिदर्करथाक्रान्तं क्वचिदन्यरथोद्धुरम् ।1

॥२८॥

क्वचिदादित्यदाहान्तं शशिशैत्यान्वितं क्वचित् ।

क्वचित्क्षुद्रजनासह्यं क्वचिदग्न्यौष्ण्यदुर्गमम्

॥२९॥

क्वचिदुत्तालवेतालं गरुडोड्डामरं क्वचित् ।

क्वचित्सप्रलयाम्भोदं क्वचित्सप्रलयानिलम्

॥३०॥

ततो भूतगणांस्त्यक्त्वा दूराद्दूरतरं गतः ।

प्राप्तवानहमेकान्तं शून्यमत्यन्तविस्तृतम्

॥३१॥

अत्यन्तमन्दपवनं स्वप्नेऽप्यप्राप्यभूतकम् ।

मङ्गलोत्पातरहितमगम्यं विद्धि संसृतेः

॥३२॥

कल्पिताथ मया तत्र कुटी प्रकटकोटरा ।

नीरन्ध्रकुड्यनिबिडा पद्मकुङ्मलसुन्दरी

॥३३॥

घुणक्षुण्णाङ्गपूर्णेन्दुबिम्बोदरमनोहरा ।

कह्लारकुन्दमन्दारपुष्पश्रीकोशशोभिता

॥३४॥

समस्तभूतागम्यत्वं तत्र संकल्प्य चेतसा ।

अगम्ये सर्वभूतानामहमासं तदा ततः

॥३५॥

बद्धपद्मासनः शान्तमनाः परममौनवान् ।

संवत्सरशतान्तेन निर्णीयोत्थानमात्मनः

॥३६॥

निर्विकल्पसमाधिस्थो निद्रामुद्रामिवागतः ।

समः सौम्यनभःस्वस्थः समुत्कीर्ण इवाम्बरात्

॥३७॥

चिरं यदनुसंधत्ते चेतः पश्यति तत्क्षणात् ।

चिरेण चाशापवनव्यक्तिवद्विततं यदा

॥३८॥

तदा वर्षशतेनात्र बोधबीजं वृतान्तरम् ।

आसीन्मे हृदयक्षेत्रे कालमेकं विकासतः

॥३९॥

संप्रबुद्धोऽभवन्मेऽथ जीवः संबुद्धवेदनः ।

शिशिरक्षीणगात्रस्य मधाविव रसस्तरोः

॥४०॥

तच्छतं तत्र वर्षाणां निमेषमिव मे गतम् ।

बह्व्योऽपि कालगतयो भवन्त्येकधियो मनाक्

॥४१॥

विकासमागतो बाह्यं गतो बुद्धीन्द्रियक्रमः ।

वासन्तः पुष्परूपेण मदस्येव रसो मम

॥२॥

मां प्राणपूरितमुपागतसंविदंश-

मभ्यागतं त्वहमिति प्रसूतः पिशाचः ।

इच्छाङ्गनाविवलितोऽथ कुतोऽपि सद्यः

प्रोन्नामसन्नमनवायुरिवोग्रवृक्षम्

॥४३॥

इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वाण० उ० पाषाणो० आकाशमन्दिरे वसिष्ठसमाधानवर्णनं नाम षट्पञ्चाशः सर्गः ।। ५६ ।।