मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ५९

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 59

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अनन्तरं नभःकोशकुंटीकोटरतो मुने ।

तव ध्यानात्प्रबुद्धस्य वृत्तं वर्षशतेन किम्

॥१॥

श्रीवसिष्ठ उवाच ।

ततो ध्यानात्प्रबुद्धोऽहं श्रुतवांस्तत्र निःस्वनम् ।

मृदु व्यक्तपदं हृद्यं न च वाच्यनुगो यतः

॥२॥

स्त्रीस्वभावादिव मृदु मधुरं वा निनादि वा ।

स्वल्पाङ्गत्वादनिर्ह्रादि मया तद्वाक्यमूहितम्

॥३॥

इन्दिन्दिररुताकारं तन्त्रीरणितरञ्जनम् ।

न रोदनं च पठनं बिसकोशसमस्वनम्

॥४॥

तदाकर्ण्याशु तत्रेदमहं चिन्तितवानथ ।

शाब्दिकान्वीक्षणात्पश्यन्दिशो दश सविस्मयः

॥५॥

व्योम्नोऽयं सिद्धसंचारमार्गशून्यान्यनन्तरम् ।

भागो योजनलक्षाणि समतिक्रम्य संस्थितः

॥६॥

तदिहेदृग्विधस्य स्यात्कुतः शब्दस्य संभवः ।

शाब्दिकं न च पश्यामि यत्नेनापि विलोकयन्

॥७॥

अनन्तमिदमाशून्यं पुरो मे निर्मलं नभः ।

इह भूतं प्रयत्नेन प्रेक्ष्यमाणं न दृश्यते

॥८॥

यदेति चिन्तयित्वाहं भूयोभूयो विलोकयन् ।

शब्देश्वरं न पश्यामि तदा चिन्तितवानिदम्

॥९॥

आकाश एव भूत्वाहमाकाशेनैकतां गतः ।

आकाशगुणशब्दार्थान्करोम्याकाशकोशके

॥१०॥

देहाकाशमिह स्थाप्य ध्यानेनेह यथास्थितम् ।

चिदाकाशवपुर्व्योम्ना याम्यैक्यं वारिवाम्बुना

॥११॥

चिन्तयित्वेत्यहं त्यक्तुं देहं पद्मासनस्थितः ।

आसं समाधिमाधातुं पुनरामीलितेक्षणः

॥१२॥

त्यक्त्वा बाह्यार्थसंस्पर्शानैन्द्रियानान्तरानपि ।

चित्ताकाशोऽहमभवं संवित्स्पन्दमयात्मकः

॥१३॥

क्रमात्तदपि संत्यज्य बुद्धितत्त्वपदं गतः ।

संपन्नोऽहं चिदाकाशे जगज्जालैकदर्पणः

॥१४॥

ततस्तेन स्वभावेन भूतव्योमैकतामहम् ।

संप्रयातोऽम्बुनैवाम्बु सौरभं सौरभेण वा ओ

॥१५॥

संपन्नोऽथ महाकाशं व्याप्यानन्तोऽथ सर्वगः ।

अनाकारोऽप्यनाधारः सर्वार्थाधारतां गतः

॥१६॥

अहं त्रैलोक्यवृन्दानि संसाराणां शतानि च ।

तत्र ब्रह्माण्डलक्षाणि पश्याम्यगणितान्यपि

॥१७॥

परस्परमदृष्टानि मिथः खान्यमलानि च ।

नानाचारविचाराणि शून्यान्येव परस्परम्

॥१८॥

स्वप्नरूपाणि सुप्तानां तुल्यकालं नृणामिव ।

महारम्भानुमृष्टानि शून्यानि च परस्परम्

॥१९॥

जायमानानि नश्यन्ति वर्धमानानि भूरिशः ।

वर्तमानान्यतीतानि भविष्यन्ति च सर्वशः

॥२०॥

अनेकचित्रजालानि महाभित्तीनि खानि च ।

मनसेवोग्रराज्यानि कृतानि विविधैर्जनैः

॥२१॥

निरावरणरूपाणि तथैकावरणानि च ।

पञ्चावरणयुक्तानि षडेकावरणानि च

॥२२॥

दशावरणचित्राणि षोडशावरणानि च ।

चतुर्विशत्यावृतीनि षट्त्रिंशत्खावृतानि च

॥२३॥

शून्यानि भूतपूर्णानि पञ्चभूतमयान्यपि ।

एकपृथ्व्यादिभूतानि चतुःपृथ्व्यादिकानि च

॥२४॥

त्रिःपृथ्व्यादीनि चान्यानि द्विःपृथ्व्यादीन्यथापि च ।

तथा सप्तमहाभूतान्येकजातिमयानि च

॥२५॥

त्वादृशानुभवाभोगविरुद्धातिदशानि तु ।

तथा नित्यान्धकाराणि सूर्यादिरहितानि च 1

॥२६॥

तथा मीलितसर्गाणि एकनाथावृतानि च ।

विलक्षणप्रजेशांशविचित्राचारवन्ति च

॥२७॥

तथा निर्वेदशास्त्राणि निःशास्त्राणि तथैव च ।

कृमिक्रमसमारम्भदेवादिप्राणिमन्ति च

॥२८॥

जात्या तु पारम्पर्येण संकेताचारवन्ति च ।

तथा नित्यप्रकाशानि ज्वलिताग्निमयानि च

॥२९॥

तथा जलैकपूर्णानि पवनैकमयानि च ।

स्तब्धानि परमाकाशे वहन्ति च तथानिशम्

॥३०॥

जायमानानि पुष्यन्ति परिपुष्टानि चाभितः ।

तिर्यग्गच्छन्ति चान्यानि पूर्णसर्वमयान्यपि

॥३१॥

देवमात्रैकसर्गाणि नरमात्रमयानि च ।

दैत्यवृन्दमयान्येव कृमिनिर्विवराणि च

॥३२॥

अन्तरन्तस्तदन्तश्च स्वकोशेऽप्यणुकं प्रति ।

जातानि जायमानानि कदलीदलपीठवत्

॥३३॥

परस्परमदृष्टानि नानुभूतानि वै मिथः ।

सैनिकस्वप्नजालानि जातानीव महान्त्यपि

॥३४॥

विविधान्यप्यनन्तानि स्वच्छाकाशात्मकान्यलम् ।

अन्योन्यमन्यवृत्तीनि न मिथोऽन्यस्थितीनि च

॥३५॥

मिथश्चान्यान्यशास्त्राणि मिथोऽनन्तानि यानि च ।

अन्योन्यसन्निवेशानि मिथोऽन्योन्यानि यानि च

॥३६॥

अन्योन्यं परलोकानि मिथः सिद्धपुराणि च ।

अन्यादृशमहाभूतान्यन्यादृग्दिग्गिरीणि च

॥३७॥

त्वादृशानुभवेहानामगम्याभ्यागतानि च ।

असमञ्जसरूपाणि कथ्यमानानि मादृशैः ओ

॥३८॥

अणुवत्सेष्यमाणानि चिदादित्यांशुमण्डले ।

परमार्थश्रियो व्योम्नि रश्मिजालानि कुण्डले

॥३९॥

कानिचित्तानि तान्येव भूत्वा भूत्वा भवत्यलम् ।

कानिचित्तादृशान्येव जातानि वनपर्णवत्

॥४०॥

अन्योन्यत्वाच्च सदृशान्यन्यानि सदृशान्यपि ।

कंचित्कालं सुसदृशान्यन्यान्येव च कानिचित्

॥४१॥

फलानि तान्यनन्तानि परमार्थमहातरोः ।

अनन्यान्येव चान्यानि तन्मयान्येव वै ततः

॥४२॥

कानिचित्स्वल्पकल्पानि दीर्घकल्पानि कानिचित् ।

अन्यान्यनियतं भूरि नियतं भूरि कानिचित्

॥४३॥

अन्यान्यज्ञातकालानि यदृच्छावशतः स्वयम् ।

जायमानानि पुष्टानि सुस्थिराणि स्थितानि च

॥४४॥

तानि शून्यत्वजालानि परमाकाशकोशके ।

अपरिज्ञातकालानि रूढान्यज्ञातदोषके

॥४५॥

अब्ध्यर्काकाशमेर्वादि शतैरावलितान्यलम् ।

चिच्चमत्कारखे स्वप्नजालान्याभान्ति चाविलम्

॥४६॥

अनुभूतेर्भ्रमात्मत्वात्कारणानामभावतः ।

पृथ्व्यादीनामहेतूनामत्यन्तं सन्त्यसन्ति च

॥४७॥

मृगतृष्णाम्बुभरवद्द्विचन्द्रव्योमवर्णवत् ।

संपन्नानि न सत्यानि सत्यान्यप्यनुभूतितः

॥४८॥

चित्संकल्पनभस्येव भासमानानि भूरिशः ।

वासनावातनुन्नानि विलुठन्त्यात्मचेष्टितैः

॥४९॥

सुरासुरादिमशका बहुशोदुम्बरद्रुमे ।

फलानि रसपूर्णानि घूर्णमानानि मारुतैः

॥५०॥

अभिजातस्वभावस्य सर्गारम्भकरस्य च ।

शुद्धचित्तत्त्वबालस्य संकल्पनगराणि खे

॥५१॥

त्वमहं स इदं चेति धिया बलदृढान्यलम् ।

संपन्नान्यर्कदीप्त्येव पङ्कक्रीडनकानि च

॥५२॥

वृत्तानि रसशालिन्या नियत्या नित्यतृप्तया ।

वनान्युग्रफलानीव वसन्तरसलेरवया

॥५३॥

महाकर्तृण्यकर्तॄणि न कृतान्येव खानि वा ।

स्वयं संपन्नरूपाणि चिद्व्योन्येव कृतानि वा

॥५४॥

परमार्थमयान्येव तदन्यद्वोदितान्यपि ।

अलब्धान्येव लब्धानि सदाऽसन्त्येव सन्ति च

॥५५॥

चतुर्दशदशैकादिविधभूतगणानि च ।

पुनस्तान्येव तान्यन्तरन्यान्यन्यान्यथो बहिः ०

॥५६॥

नरकस्वर्गपातालबन्धुमित्रमयान्यपि ।

महारम्भमयान्येव शून्यानि परमार्थतः

॥५७॥

क्षीराम्बुधेर्जलानीव स्नेहसाराणि सर्वतः ।

तरङ्गभङ्गुराण्यन्तर्बहिश्चावृत्तिमन्ति च

॥५८॥

आभासमात्ररूपाणि तेजस्यात्मविवस्वतः ।

जातानीव स्वतस्तानि स्पन्दनानि नभस्वतः

॥५९॥

वृक्षरूपाणि पत्राणां बुद्ध्यहंकारचेतसाम् ।

असतामप्यसन्त्येव स्वप्ने न्यस्तनृणामिव

॥६०॥

पुराणवेदसिद्धान्तकल्पनातल्पपालिषु ।

घननिद्राणि सुप्तानि बिभ्रन्ति शवतामिव

॥६१॥

परमार्थमहारण्ये चिद्गन्धर्वकृतानि वै ।

सूर्यदीपकदीप्तानि गृहाणि गहनात्मनि

॥६२॥

प्रजायमानानि नभस्यनन्ते

विशीर्यमाणानि च निर्निमित्तम् ।

तदा त्वहं वै तिमिराक्षदृष्ट-

केशोण्ड्रकानीव जगन्त्यपश्यम्

॥६३॥

इत्यार्षे श्रीवासिष्ठमहारामोयणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे पा० जगर्ज्जालवर्णनं नामैकोनषष्टितमः सर्गः ।। ५९ ।।