मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ८७

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 87

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

शिखिध्वज उवाच ।

सर्गे स्फुरद्भिर्मत्पुण्यैर्मन्ये संप्रेषितो भवान् ।

अलक्ष्यैः संभृतैरद्रौ बृहद्वातैरिवाम्बुदः

॥१॥

अद्य तिष्ठाम्यहं साधो धन्यानां धुरि धर्मतः ।

अमृतस्यन्दिवचसा यत्त्वयास्मि समागतः

॥२॥

न केचन तथा भावाश्चेतः शीतलयन्ति मे ।

राज्यलाभादयोऽप्येते यथा साधुसमागमः

॥३॥

निरर्गलरसो यत्र सामान्येन विजृम्भते ।

मुक्तरागादिमननं तत्कल्पनसुखावहम्

॥४॥

श्रीवसिष्ठ उवाच ।

एवंवादिनि सैवास्य वाक्यमाक्षिप्य भूपतेः ।

भूयः प्रोवाच चूडाला मुनिदारकरूपिणी

॥५॥

चूडालोवाच ।

आस्तामेषा कथा तावत्सर्वं ते वर्णितं मया ।

त्वं मे कथय हे साधो कस्त्वमद्रौ करोषि किम्

॥६॥

कियत्पर्यवसानेयं भवतो वनवासिता ।

सत्यं कार्यं च नोऽसत्यं वक्तुं जानन्ति तापसाः

॥७॥

शिखिध्वज उवाच ।

देवपुत्रोऽसि जानासि सर्वमेव यथास्थितम् ।

लोकवृत्तान्ततज्ज्ञोऽसि किमन्यत्कथयाम्यहम्

॥८॥

संसारभयभीतत्वान्निवसामि वनान्तरे ।

जानतोपि हि मामार्य कथयाम्येव ते मनाक्

॥९॥

शिखिध्वजोऽहं भूपालस्त्यक्त्वा राज्यमिहास्थितः ।

भृशं भीतोस्मि तत्त्वज्ञ संसृतौ जन्मनः पुनः

॥१०॥

सुखं पुनः पुनर्दुःखं पुनर्मरणजन्मनी ।

भवतस्तेन तप्येऽहं तत्त्वज्ञ वनवीथिषु

॥११॥

भ्रमन्नपि दिगन्तेषु चरन्नपि परंतपः ।

नासादयामि विश्रान्तिमेकां निधिमिवाधनः

॥१२॥

अयत्नोऽप्यफलोऽप्येको ह्यपूर्णोऽप्यस्तसंगतिः ।

शुष्याम्यत्र वने साधो घुणक्षुण्ण इव द्रुमः

॥१३॥

इमामखण्डितां सम्यक् क्रियां संपादयन्नपि ।

दुःखाद्गच्छामि दुःखौघममृतं मे विषं स्थितम्

॥१४॥

चूडालोवाच ।

पितामहमहं पूर्वं कदाचित्पृष्टवानिदम् ।

यत्क्रियाज्ञानयोरेकं श्रेयस्तद्ब्रूहि मे प्रभो

॥१५॥

ब्रह्मोवाच ।

ज्ञानं हि परमं श्रेयः कैवल्यं तेन वेत्त्यलम् ।

कालातिवाहनायैव विनोदायोदिता क्रिया

॥१६॥

अलब्धज्ञानदृष्टीनां क्रिया पुत्रपरायणम् ।

यस्य नास्त्यम्बरं पट्टं कम्बलं किं त्यजत्यसौ

॥१७॥

वासनामात्रसारत्वादज्ञस्य सफलाः क्रियाः ।

सर्वा एवाफला ज्ञस्य वासनामात्रसंक्षयात्

॥१८॥

सर्वा हि वासनाभावे प्रयान्त्यफलतां क्रियाः ।

अशुभाः फलवन्त्योपि सेकाभावे लता इव

॥१९॥

ऋत्वन्तरे यथा याति विलयं पूर्वमार्तवम् ।

तथैव वासनानाशे नाशमेति क्रियाफलम्

॥२०॥

न स्वभावेन फलति यथा शरलता फलम् ।

क्रिया निर्वासना पुत्र फलं फलति नो तथा

॥२१॥

सयक्षवासनो बालो यक्षं पश्यति नान्यथा ।

सदुःखवासनो मूढो दुःखं पश्यति नान्यथा

॥२२॥

आकारभासुरात्युच्चैर्न ददाति फलं क्रिया ।

शुभाशुभा वा तज्ज्ञस्य फुल्ला शरलता यथा

॥२३॥

वासना चेह नास्त्येव साहंकारादिरूपिणी ।

असत्यैवोदिता मौर्ख्यान्मरुभूमाविवाम्बुधिः

॥२४॥

यस्य मौर्ख्यं क्षयं यातं सर्वं ब्रह्मेति भावनात् ।

नोदेति वासना तस्य प्राज्ञस्येवाम्बुधिर्मरौ

॥२५॥

वासनामात्रसंत्यागाज्जरामरणवर्जितम् ।

पदं भवति जीवोऽन्तर्भूयो जन्मविवर्जितम्

॥२६॥

सवासनं मनो ज्ञेयं ज्ञानं निर्वासनं मनः ।

ज्ञानेन ज्ञेयमभ्येत्य पुनर्जीवो न जायते

॥२७॥

चूडालोवाच ।

ज्ञानमेव परं श्रेय इति ब्रह्मादयोऽपि ते ।

प्राहुर्महान्तो राजर्षे त्वं किमज्ञानवान्स्थितः

॥२८॥

इतः कमण्डलुरितो दण्डकाष्ठमितो बृसी ।

इत्यनर्थविलासेऽस्मिन्रमसे किं महीपते

॥२९॥

कोऽहं कथमिदं जातं कथं शाम्यति चेति भोः ।

राजन्नावेक्षसे कस्मात्किमज्ञ इव तिष्ठसि

॥३०॥

कथं बन्धः कथं मोक्ष इति प्रश्रानुदाहरन् ।

पारावारविदां पादान्कस्माद्राजन्न सेवसे

॥३१॥

दुःस्पन्दसंविदा शैलकोटरे क्रिययानया ।

जीवितं क्षिपयन्किं त्वं शिलाकीटवदास्थितः

॥३२॥

साधूनां समदृष्टीनां परिप्रश्नेन सेवया ।

संगमेन च सा युक्तिर्लभ्यते मुच्यते यया

॥३३॥

साधुनैव समं ग्रासं भुञ्जानो वनकोटरे ।

तिष्ठावष्टब्धदुश्चेष्टो धराविवरकीटवत्

॥३४॥

श्रीवसिष्ठ उवाच ।

कान्तया देवरूपिण्या तयैवं प्रतिबोधितः ।

अश्रुपूर्णमुखो वाक्यं शिखिध्वज उवाच ह

॥३५॥

शिखिध्वज उवाच ।

अहो नु बोधितोऽस्म्यद्य चिरात्सुरसुत त्वया ।

मौर्ख्यादार्यसमासङ्गं मुक्त्वाहमवसं वने

॥३६॥

अहो नु मे क्षयं यातं मन्ये पापमशेषतः ।

यत्त्वमेव समागत्य संप्रबोधयसीह माम्

॥३७॥

गुरुस्त्वं मे पिता त्वं मे मित्रं त्वं मे वरानन ।

शिष्यो नमस्करोम्यद्य पादौ तव कृपां कुरु

॥३८॥

यदुदारतमं वेत्सि यस्मिन् ज्ञाते न शोच्यते ।

भवामि निर्वृतो येन तद्ब्रह्मोपदिशाशु मे

॥३९॥

घटज्ञानादयो ज्ञाने विभागाः सन्त्यनेकशः । ज्ञानानां परमं ज्ञानं कतरत्तारकं भवेत् ।।

चूडालोवाच ।

यद्युपादेयवाक्योऽहं राजर्षे तद्वदामि ते ।

यथा ज्ञानमिदं किंचिन्न वक्ष्ये स्थाणुकाकवत्

॥४१॥

अनुपादेयवाक्यस्य वक्तुः पृष्टस्य लीलया ।

व्रजन्त्यफलतां वाचस्तमसीवाक्षसंविदः

॥४२॥

शिखिध्वज उवाच ।

यद्वक्षि तदुपादेयं मया विधिरिव श्रुतेः ।

अविचारितमेवाशु सत्यमेतद्वचो मम

॥४३॥

चूडालोवाच ।

यथा बालः पितुर्वाक्यं मुक्तहेतूपपादनम् ।

आदत्ते हि तथैव त्वं गृहाणैतद्वचो मम

॥४४॥

श्रवणानन्तरं बुद्ध्या शुभमित्येव भावयन् ।

श्रृणु गीतमिव त्यक्त्वा हेत्वर्थित्वं वचो मम

॥४५॥

स्वचरितसदृशं तथोदयन्त्या-

श्चिरसमयेन विबोधनं च बुद्धेः ।

भवभयसुतरं महामतीनां

श्रृणु कथयामि कथाक्रमं मनोज्ञम्

॥४६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाण० पू० चू० शिखिध्वजावबोधो नाम सप्ताशीतितमः सर्गः ।।८७।।