मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः २३

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 23

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

य उत्तमपदालम्बी चक्रभ्रमवदास्थितः ।

शरीरनगरीराज्यं कुर्वन्नपि न लिप्यते

॥१॥

तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा ।

सुखायैव न दुःखाय स्वशरीरमहापुरी

॥२॥

श्रीराम उवाच ।

नगरीत्वं शरीरस्य कथं नाम महामुने ।

एतां चाधिवसन्योगी कथं राजसुखैकभाक्

॥३॥

श्रीवसिष्ठ उवाच ।

रम्येयं देहनगरी राम सर्वगुणान्विता ।

ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता

॥४॥

नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा ।

करप्रतोलीविस्तारप्राप्तपादोपजाङ्गला

॥५॥

रोमराजीलतागुल्मा त्वचाजालकमालिता ।

गुल्फाङ्गुल्यां प्रविश्रान्तजङ्घोरुस्तम्भमण्डला

॥६॥

रेखाविभक्तपादाग्रशिलाप्रथमनिर्मिता ।

चर्ममर्मशिरासारसंधिसीमामनोरमा

॥७॥

उरूरुतनुभागाग्रनिर्मितोपस्थनिम्नगा ।

कचत्केशावलीकाचदलप्रस्थवनावृता

॥८॥

भ्रूललाटोष्ठसच्छायवदनोद्यानशोभिता ।

दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थली

॥९॥

वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका ।

घनरोमावलीच्छन्नस्कन्धक्रीडाशिलोच्चया

॥१०॥

उदरश्वभ्रनिक्षिप्तस्वान्नेष्टा भक्ष्यतत्परा ।

दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता

॥११॥

हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता ।

अनारतनवद्वारप्रवहत्प्राणनागरा

॥१२॥

आस्यस्फारवदादृष्टदन्तास्थिशकलाकुला ।

मुखास्पदाभ्रमज्जिह्वाचण्डीचर्वितभोजना

॥१३॥

रोमशष्पतरच्छन्ना कर्णकोटरकूपका ।

स्फिक्श्रृंखलास्थितोपान्तपृष्ठविस्तीर्णजङ्गला

॥१४॥

गुदोत्थानारघट्टान्तप्रद्रुतानन्तकर्दमा ।

चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना

॥१५॥

धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा ।

वदनोद्यानहसनपुष्पोद्गममनोरमा

॥१६॥

स्वशरीरमनोज्ञस्य सर्वसौभाग्यसुन्दरी ।

सुखायैव न दुःखाय परमाय हिताय च

॥१७॥

अज्ञस्येयमनन्तानां दुःखानां कोशमालिका ।

ज्ञस्य त्वियमनन्तानां सुखानां कोशमालिका

॥१८॥

किंचिदस्यां प्रनष्टायां ज्ञस्य नष्टमरिन्दम ।

स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा

॥१९॥

यदेनां ज्ञः समारुह्य संसारे विहरत्यलम् ।

अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः

॥२०॥

शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः ।

अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा

॥२१॥

सुखदुःखक्रियाजालं यदेषोद्वहति स्वयम् ।

तदेषा राम सर्वज्ञसर्ववस्तुभरक्षमा

॥२२॥

तस्यां शरीरपुर्यां हि राज्यं कुर्वन्गतज्वरः ।

ज्ञस्तिष्ठति गतव्यग्रः स्वपुर्यामिव वासवः

॥२३॥

न क्षिपत्यवटाटोपे मनोमत्ततुरङ्गमम् ।

न लोभदुर्द्रुमादाय प्रज्ञापुत्रीं प्रयच्छति

॥२४॥

अज्ञानपरराष्ट्रं च न रन्ध्रं त्वस्य पश्यति ।

संसारारिभयस्यान्तर्मूलान्येव निकृन्तति

॥२५॥

तृष्णासारपरावर्ते कामसंभोगदुर्ग्रहे ।

न निमज्जति पर्यस्तः सुखदुःखप्रदेवने

॥२६॥

करोत्यविरतं स्नानं बहिरन्तरवीक्षणात् ।

सरित्संगमतीर्थेषु मनोरथगतः क्रमात्

॥२७॥

सकलाक्षजनादृश्यसुखप्रेक्षापराङ्मुखः ।

ध्याननाम्नि सुखं नित्यं तिष्ठत्यन्तःपुरान्तरे

॥२८॥

सुखावहैषा नगरी नित्यं वै विदितात्मनः ।

भोगमोक्षप्रदा चैषा शक्रस्येवामरावती

॥२९॥

स्थितया संस्थितं सर्वं किंचिन्नष्टं न नष्टया ।

यया पुर्या महीयस्या सा कथं न सुखावहा

॥३०॥

विनष्टे देहनगरे ज्ञस्य नष्टं न किंचन ।

आक्रान्तकुम्भाकाशस्य खस्य कुम्भक्षये यथा

॥३१॥

विद्यमानं घटं वायुः किंचित्स्पृशति नास्थितम् ।

यथा तथैव देही स्वां शरीरनगरीमिमाम्

॥३२॥

अत्रस्थः पुरुषो भोगानात्मा सर्वगतोऽपि सन् ।

विश्वकल्पकृतान्भुक्त्वा पुंसामधिगतार्थभाक्

॥३३॥

कुर्वन्नपि न कुर्वाणः समस्तार्थक्रियोन्मुखः ।

कदाचित्प्रकृतान्सर्वान्कार्यार्थाननुतिष्ठति

॥३४॥

कदाचिल्लीलया लोलं विमानमधिरोहति ।

अनाहतगतिः कान्तं विहर्तुममलं मनः

॥३५॥

तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया ।

रमते रामया मैत्र्या नित्यं हृदयसंस्थितः

॥३६॥

द्वे कान्ते तिष्ठतः सम्यक् पार्श्वयोः सत्यतैकते ।

इन्दोरिव विशाखे द्वे समाह्लादितचेतसी

॥३७॥

क्षपितानखिलान्लोकान्दुःखक्रकचदारितान् ।

वल्लीवनस्थान्नभसः पृष्ठादर्क इवेक्षते

॥३८॥

चिरं पूरितसर्वाशः सर्वसंपत्तिसुन्दरः ।

अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते

॥३९॥

सेव्यमानोऽपि भोगौघो न खेदायास्य जायते ।

कालकूटः किलेशस्य कण्ठे प्रत्युत राजते

॥४०॥

परिज्ञातोपभुक्तो हि भोगो भवति तुष्टये ।

विज्ञाय सेवितो मैत्रीमेति चोरो न शत्रुताम्

॥४१॥

नरनारीनटौघानां विरहे दूरगामिनाम् ।

ज्ञेन यात्रेव सुभगा भोगश्रीरवलोक्यते

॥४२॥

अशङ्कितोपसंप्राप्ता ग्रामयात्रा यथाध्वगैः ।

प्रेक्ष्यन्ते तद्वदेव ज्ञैर्व्यवहारमयाः क्रियाः

॥४३॥

अयत्नोपनतेऽप्यक्षि पदार्थेषु यथा पुनः ।

नीरागमेव पतति तद्वत्कार्येषु धीरधीः

॥४४॥

इन्द्रियाणां न हरति प्राप्तमर्थं कदाचन ।

नाददाति तथाऽप्राप्तं संपूर्णो ज्ञोऽवतिष्ठते

॥४५॥

अप्राप्तचिन्ताः संप्राप्तसमुपेक्षाश्च सन्मतिम् ।

न कम्पयन्ति तरलाः पिच्छाघाता इवाचलम्

॥४६॥

संशान्तसर्वसंदेहो गलिताखिलकौतुकः ।

संक्षीणकल्पनादेहो ज्ञः सम्राडिव राजते

॥४७॥

आत्मन्येव न मात्यन्तः स्वात्मनात्मनि जृम्भते ।

संपूर्णोऽपारपर्यन्तः क्षीरार्णव इवार्णवे

॥४८॥

भोगेच्छाकृपणाञ्जन्तून्दीनान्दीनेन्द्रियाणि च ।

अनुन्मत्तमनाः शान्तो हसत्युन्मत्तकानिव

॥४९॥

इच्छतोऽन्योज्झितां जायां यथैवान्येन हस्यते ।

इन्द्रियस्येच्छतो भोगं तद्वज्ज्ञेन विहस्यते

॥५०॥

त्यजत्स्वात्मसुखं सौम्यं मनो विषयविद्रुतम् ।

अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत्

॥५१॥

भोगेषु प्रसरो यस्या मनोवृत्तेश्च दीयते ।

साप्यादावेव हन्तव्या विषस्येवाङ्कुरोद्गतिः

॥५२॥

ताडितस्य हि यः पश्चात्संमानः सोऽप्यनन्तकः ।

शालेर्ग्रीष्माभितप्तस्य कुसेकोऽप्यमृतायते

॥५३॥

अनार्तेन हि सन्मानो बहुमानो न बुध्यते ।

पूर्णानां सरितां प्रावृट्पूरः स्वल्पो न राजते

॥५४॥

पूर्णस्तु प्राकृतोऽप्यन्यत्पुनरप्यभिवाञ्छते ।

जगत्पूरणयोग्याम्बुर्गृह्णात्येवार्णवो जलम्

॥५५॥

मनसोऽभिगृहीतस्य या पश्चाद्भोगमण्डना ।

तामेवालब्धविस्तारां क्लिष्टत्वाद्बहु मन्यते

॥५६॥

बन्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति ।

परैरबद्धो नाक्रान्तो न राज्यं बहु मन्यते

॥५७॥

हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।

अङ्गान्यङ्गैरिवाक्रम्य जयेश्चेन्द्रियशात्रवान्

॥५८॥

जेतुमन्यं कृतोत्साहैः पुरुषैरिह पण्डितैः ।

पूर्वं हृदयशत्रुत्वाज्जेतव्यानीन्द्रियाण्यलम्

॥५९॥

एतावति धरणितले

सुभगास्ते साधुचेतनाः पुरुषाः ।

पुरुषकलासु च गण्या

न जिता ये चेतसा स्वेन

॥६०॥

हृदयबिले कृतकुण्डल.

कलनाविवशो मनोमहाभुजगः ।

यस्योपशान्तिमागत-

मलमुदितं तं सुनिर्मलं वन्दे

॥६१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे शरीरनगरविभूतियोगो नाम त्रयोविंशः सर्गः ।। २३ ।।