मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ९

3
योगवासिष्ठम् · उपशमप्रकरणम् · 9

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

इति सिद्धगणोद्गीता गीताः श्रुत्वा महीपतिः ।

विषादमाजगामाशु भीरू रणरवादिव

॥१॥

जगाम परिवारं स्वमाकर्षन्स्वगृहं प्रति ।

स्वतीरवृक्षानुगतः सरिदोघ इवार्णवम्

॥२॥

परिवारमशेषेण विसृज्य स्वं स्वमालयम् ।

एक एवारुरोहाग्र्यं गृहमर्क इवाचलम्

॥३॥

तत्र प्रोड्डयनालोलखगपक्षतिचञ्चलाः ।

आलोकयंल्लोकगतीर्विललापेदमाकुलः

॥४॥

हा कष्टमतिकष्टासु लोकलोलदशास्वयम् ।

पाषाणेष्विव पाषाणा आलुठामि बलादहम्

॥५॥

अपर्यन्तस्य कालस्य कोऽप्यंशो जीव्यते मया ।

तस्मिन्भावं निबध्नामि धिङ्नामधमचेतनम्

॥६॥

कियन्मात्रमिदं नाम राज्यमाजीवितं मम ।

किमेतेन विना दुःखं तिष्ठामि हतधीर्यथा

॥७॥

आदावन्तेऽप्यनन्तोऽहं मध्ये पेलवजीवितः ।

बालश्चित्रेन्दुनेवाहं किं मुधा धृतिमास्थितः

॥८॥

प्रपञ्चरहितेनाहमिन्द्रजालेन जालिना ।

हा कष्टमतिमुह्यामि केनास्मि परिमोहितः

॥९॥

यद्वस्तु यच्च वा रम्यं यदुदारमकृत्रिमम् ।

किंचित्तदिह नास्त्येव किंनिष्ठेह मतिर्मम

॥१०॥

दूरस्थमप्यदूरस्थं यन्मे मनसि वर्तते ।

इति निश्चित्य बाह्यार्थभावनां संत्यजाम्यहम्

॥११॥

लोकाजवं जवीभावः सलिलावर्तभङ्गुरः ।

दृष्टोऽद्यापि हि दुःखाय केयमास्था सुखं प्रति

॥१२॥

प्रत्यब्दं प्रतिमासं च प्रत्यहं च प्रतिक्षणम् ।

सुखानि दुःखपिण्डानि दुःखानि तु पुनः पुनः

॥१३॥

परामृष्टं विशिष्टं हि दृष्टं नष्टं न भावितम् ।

अत्रस्थं न तदस्तीह सतां यत्रास्तु संस्थितिः

॥१४॥

अद्य ये महतां मूर्ध्नि ते दिनैर्निपतन्त्यधः ।

हतचित्तमहत्तायां कैषा विश्वस्तता वत

॥१७॥

अरज्जुरेव बद्धोऽहमपङ्कोऽस्मि कलङ्कितः ।

पतितोस्म्युपरिस्थोपि हा ममात्मन्हता स्थितिः

॥१६॥

कस्मादकस्मान्मोहोयमागतो धीमतोऽपि मे ।

असितः पिहितालोको भास्कराग्रमिवाम्बुदः

॥१७॥

क इमे मे महाभोगाः क इमे मम बान्धवाः ।

बालो भूतमयेनेव संकेतेनाहमाकुलः

॥१८॥

स्वयमेव निबध्नामि जरामरणरागिणीम् ।

किमिमामहमेतेषु धृतिमुद्वेगकारिणीम्

॥१९॥

यातु तिष्ठतु वा सम्यङ् ममैतां प्रति को ग्रहः ।

बुद्बुदश्रीरिवैषा हि मिथ्यैवेत्थमुपस्थिता

॥२०॥

ते महाविभवा भोगास्ते सन्तः स्निग्धबान्धवाः ।

सर्वं स्मृतिपथं प्राप्तं वर्तमानेऽपि का धृतिः

॥२१॥

क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा ।

प्राक्तनानि प्रयातानि केयं विश्वस्तता मम

॥२२॥

गिलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि ।

मां जीवितनिबद्धास्थं विहसिष्यन्ति साधवः

॥२३॥

ब्रह्मणां कोटयो याता गताः सर्गपरम्पराः ।

प्रयाताः पांसुवद्भूपाः का धृतिर्मम जीविते

॥२४॥

संसाररात्रिदुःस्वप्ने चेत्ये देहमये भ्रमे ।

आस्थां चेदनुबध्नामि तत्रेमां तु धिगस्थितिम्

॥२५॥

अयं सोऽहमिति व्यर्थकल्पनाऽसत्स्वरूपिणी ।

अहंकारपिशाचेन किमज्ञवदहं स्थितः

॥२६॥

हतं हतमिदं कस्मादायुराततयानया ।

पश्यन्नपि न पश्यामि सूक्ष्मया काललेखया

॥२७॥

पादपीठे कृतेशानाः शार्ङ्गिक्रीडनकन्दुकाः ।

कालकापालिकाग्रस्ताः किमास्थे मयि वल्गसि

॥२८॥

अजस्रमुपयान्त्येते यान्ति चाद्यापि वासराः ।

अविनष्टैकसद्वस्तुर्दृष्टो नाद्यापि वासरः

॥२९॥

सारसाः सरसीवैते सर्वस्मिञ्जनचेतसि ।

भोगा एव स्फुरन्त्यन्तर्न तु स्वपददृष्टयः

॥३०॥

कष्टात्कष्टतरं प्राप्तो दुःखाद्दुःखतरं गतः ।

अद्यापि न विरक्तोस्मि हा धिङ्मामधमाशयम्

॥३१॥

येषु येषु दृढा बद्धा भावना भव्यवस्तुषु ।

तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम्

॥३२॥

यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् ।

सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम्

॥३३॥

येषु येषु पदार्थेषु धृतिं बध्नाति मानवः ।

तेषु तेष्वेव तस्यायं दृष्टो नाशोदयो भृशम्

॥३४॥

श्वःश्वः पापीयसीमेष श्वःश्वः क्रूरतरामपि ।

श्वःश्वः स्वेदकरीमेति दशामिह जडो जनः

॥३५॥

अज्ञानैकहतो बाल्ये यौवने मदनाहतः ।

शेषे कलत्रचिन्तार्तः किं करोति कदा जडः

॥३६॥

आगमापायि विरसं दशावैषम्यदूषितम् ।

असारसारं संसारं किं तत्पश्यति दुर्मतिः

॥३७॥

राजसूयाश्वमेधाद्यैरिष्ट्वा यज्ञशतैरपि ।

महाकल्पान्तमप्यंशं स्वर्गं प्राप्नोति नाधिकम्

॥३८॥

कोऽसौ स्वर्गोऽस्ति भूमौ वा पाताले वा प्रदेशकः ।

न यत्राभिभवन्त्येता दुर्भ्रमर्य इवापदः

॥३९॥

निजचेतोविलव्यालाः शरीरस्थलपल्लवाः ।

आधयो व्याधयश्चैते निवार्यन्ते कथं किल

॥४०॥

सतोऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येष्वरम्यता ।

सुखेषु मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम्

॥४१॥

जायन्ते च म्रियन्ते च प्राकृताः क्षुद्रजन्तवः ।

धरा तैरेव नीरन्ध्रा दुर्लभाः साधुसाधवः

॥४२॥

नीलोत्पलालिनयनाः परमप्रेमभूषणाः ।

हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः

॥४३॥

येषां निमेषणोन्मेषैर्जगतां प्रलयोदयौ ।

तादृशाः पुरुषाः सन्ति मादृशां गणनैव का

॥४४॥

सन्ति रम्यतराद्रम्याः सुस्थिरादपि सुस्थिराः ।

चिन्तापर्यवसानेयं पदार्थश्रीः किमीहसे

॥४५॥

संपदश्च विचित्रा यास्ताश्चेच्चित्तेन संमताः ।

तत्ता अपि महारम्भा हन्त मन्ये महापदः

॥४६॥

आपदोऽपि विचित्रा यास्ताश्चेन्मनसि संमताः ।

तत्ता अपि महारम्भा मन्ये मनसि संपदः

॥४७॥

मनोमात्रविवर्तेऽस्मिञ्जगत्यब्धीन्दुभङ्गुरे ।

ममेदमित्यपूर्वेयं कुतस्त्याऽक्षरमालिका

॥४८॥

काकतालीययोगेन संपन्नायां जगत्स्थितौ ।

धूर्तेन कल्पिता व्यर्थं हेयोपादेयभावना

॥४॥

इयत्ताच्छिन्नतप्तासु सुखनाम्नीषु दृष्टिषु ।

कास्वेतास्वनुरक्तोऽस्मि पतङ्गोऽग्निशिखास्विव

॥५०॥

वरमेकान्तदाहेषु लुठनं रौरवाग्निषु ।

नत्वालूनविवर्तासु स्थितं संसारवृत्तिषु

॥५१॥

संसार एव दुःखानां सीमान्त इति कथ्यते ।

तन्मध्यपतिते देहे सुखमासाद्यते कथम्

॥५२॥

अकृत्रिममहादुःखे संसारे ये व्यवस्थिताः ।

त एतेऽन्यानि दुःखानि जानते मधुराण्यलम्

॥५३॥

अहमप्यधमोत्कृष्टकाष्ठलोष्टसमस्थितिः ।

अज्ञैरेवागतः साम्यं परमामृष्टवस्तुभिः

॥५४॥

सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ।

अस्य संसारवृक्षस्य मनो मूलमहाङ्कुरः

॥५५॥

संकल्पमेव तन्मन्ये संकल्पोपशमेन तत् ।

शोषयामि यथा शोषमेति संसारपादपः

॥५५॥

आकारमात्ररम्यासु मनोमर्कटवृत्तिषु ।

परिज्ञातास्विहाद्यैव न रमे नाशनीष्वहम्

॥५७॥

आशापाशशतप्रोताः पातोत्पातोपतापदाः ।

संसारवृत्तयो भुक्ता इदानीं विश्रमाम्यहम्

॥५८॥

हा हतोऽस्मि विनष्टोऽस्मि मृतोऽस्मीति पुनःपुनः ।

शोचितं गतमेवाहमिदानीं नानुरोदिमि

॥५९॥

प्रबुद्धोऽस्मि प्रहृष्टोऽस्मि दृष्टश्चोरोऽयमात्मनः ।

मनो नाम निहन्म्येनं मनसास्मि चिरं हतः

॥६०॥

एतावन्तमिमं कालं मनोमुक्ताफलं मम ।

अविद्धमासीदधुना विद्धं तु गुणमर्हति

॥६१॥

मनस्तुषारकणिका विवेकार्कातपेन मे ।

चिरप्रवृत्तये नूनमचिराल्लयमेष्यति

॥६२॥

विविधैः साधुभिः सिद्धैरहं साधु प्रबोधितः ।

आत्मानमनुगच्छामि परमानन्दसाधनम्

॥६३॥

आत्मानं मणिमेकान्ते लब्ध्वैवालोकयन्सुखम् ।

तिष्ठाम्यस्तमितान्येहः शारदीवाचलेऽम्बुदः

॥६४॥

अयमहमिदमाततं ममेति

स्फुरितमपास्य बलादसत्यमन्तः ।

रिपुमतिबलिनं मनो निहत्य

प्रशममुपैमि नमोऽस्तु ते विवेक

॥६५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो. उपशमप्रकरणे जनकवितर्को नाम नवमः सर्गः ।। ९ ।।