मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १४६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 146

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

व्याध उवाच ।

अनन्तरं मुनिश्रेष्ठ तस्मिन्हृदि तदोजसि ।

स्थितस्य तव किं वृत्तं नामतो भ्रान्तिरूपिणि

॥१॥

मुनिरुवाच ।

अनन्तरं तदा तत्र श्रृणु किंवृत्तमङ्ग मे ।

तेजोधातुनिषण्णस्य तज्जीवावलिताकृतेः

॥२॥

तस्मिंस्तदा वर्तमाने घोरे कल्पान्तसंभ्रमे ।

तृणवत्प्रौढशैलेन्द्रे वहति प्रलयानिले

॥३॥

गिरिवृष्टिर्झटित्येव कुतोऽपि समुपाययौ ।

उह्यमानवनाभोगशिखरग्रामपत्तना ।।

तस्यान्तस्तत्र संप्राप्तं तदा परिणतं यदा ।

तदा तदेव सूक्ष्मोऽहमपश्यं शैलवर्षणम्

॥५॥

तेनान्नलवशैलोच्चपूरेण प्रतिपिण्डितः ।

सुषुप्तमन्धतामिश्रमहमन्वभवं घनम्

॥६॥

अथ कंचित्तदा कालमनुभूय सुषुप्तताम् ।

तदा पद्माकर इव शनैर्बोधोन्मुखोऽभवम्

॥७॥

यथा दृष्टिश्चिराद्ध्वान्ते भाति चक्रकरूपिणी ।

सुषुप्तमेव तत्रासीत्तथा स्वप्नत्वमागतम्

॥८॥

तथा सुषुप्तविश्रान्तेः स्वप्ने निद्रामहं विशम् ।

अपश्यं दृश्यमोजोऽन्तः स्वमूर्मित्वमिवार्णवः

॥९॥

संवित्कोशात्मकं दृश्यं तत्तथा मामुपागतम् ।

अस्पन्दस्यानिलस्यान्तरनन्यत्स्पन्दनं यथा

॥१०॥

अग्न्यादौ च यथोष्णत्वं जलादौ द्रवता यथा ।

मरीचादौ यथा तैक्ष्ण्यं चिद्व्योम्नश्च जगत्तथा

॥११॥

चित्स्वभावैकरूपत्वाज्जगद्दृश्यं तदाततम् ।

तत्सुषुप्तात्मनो दृश्यात्प्रसूतं बालपुत्रवत्

॥१२॥

व्याध उवाच ।

तत्सुषुप्तात्मनो दृश्यादिति तद्व्यपदेशतः ।

सुषुप्तदृश्यं किं वक्षि वद मे वदतां वर

॥१३॥

तत्सुषुप्तात्मनो दृश्यात्त्वत्सुषुप्तात्मनोऽपि च ।

किमन्यज्जायते जन्यमथवान्यसुषुप्तता

॥१४॥

मुनिरुवाच ।

जायते भाति कचति घटादि जगदादि च ।

इति द्वैतोपतप्तानां प्रलापः कल्पनात्मकः

॥१५॥

जातशब्दो हि सन्मात्रपर्यायः श्रूयतां कथम् ।

प्रादुर्भावे जनिस्तूक्तः प्रादुर्भावस्य भूर्वपुः

॥१६॥

सत्तार्थ एव भूः प्रोक्तस्तस्मात्संजातमुच्यते ।

सर्गतो जात इत्युक्ते सन्सर्ग इति शब्दितम्

॥१७॥

बुधानामस्मदादीनां न किंचिन्नाम जायते ।

न च नश्यति वा किंचित्सर्वं शान्तमजं च सत्

॥१८॥

सर्वसत्तात्मकं ब्रह्म सर्वसत्तात्मकं जगत् ।

विधयः प्रतिषेधाश्च वद तत्र लगन्ति के

॥१९॥

या नाम शक्तिः काचित्सा तत्रैवास्ति च नास्ति च

यस्मात्तदात्म तद्ब्रह्म तथैवात्म तदात्मकम्

॥२०॥

जाग्रत्स्वप्नसुषुप्तादिपरमार्थविदां विदाम् ।

न विद्यते किंचिदपि यथास्थितमवस्थितम्

॥२१॥

स्वप्नसंकल्पपुरयोर्नास्त्यप्यनुभवस्थयोः ।

मनागपि यथा रूपं सर्गादौ जगतस्तथा

॥२२॥

द्रष्टास्याः स्वप्नदृष्टेस्तु जीवः संभवतीह हि ।

चिदचेत्या तु सर्गादौ भात्यच्छा गगनादपि

॥२३॥

नेह द्रष्टास्ति नो भोक्ता सर्वमस्तीह तादृशम् ।

यन्न किंचिच्च किंचिच्च मौनमेवातिवागपि

॥२४॥

सर्गादौ कारणाभावाद्यद्यथा कचितं चितौ ।

तत्तथास्ते चिरं रूपं स्वप्नसंकल्पपूर्यथा

॥२५॥

तथास्माच्चेतनाद्द्वैताद्बिभेति न बिभेति वा ।

अङ्गसंस्थाद्यथा चित्रात्स्वरूपात्पुरुषः स्वयम्

॥२६॥

अनादिमध्यान्तमनन्तमेक-

मत्यच्छमेवातिविकारि नाना ।

यथास्थितं भास्वरमप्यशान्त-

मिदं समस्तं परिशान्तमेव

॥२७॥

इत्यार्षे श्रीवासिष्ठमहारा० वा० दे० मो० निर्वा० उ० अ० वि० श० सुषुप्तविचारो नाम षट्चत्वारिंशदधिकशततमः सर्गः ।। १४६ ।।