मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ३१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 31

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

ईश्वर उवाच ।

चिनोत्यलीकमेवैवं सदुःखास्मीति भावनात् ।

चित्स्वप्नक्षीबतामोहपतिता संभ्रमे यथा

॥१॥

अमृतापि मृतास्मीति विपर्यस्तमतिर्वधूः ।

यथा रोदित्यनष्टैव नष्टास्मीति तथैव चित्

॥२॥

अकारणं विपर्यस्ता मतिर्भ्रान्तमपि स्थिरम् ।

यथा जगत्पश्यतीदं तथाहंताभ्रमाच्चितिः

॥३॥

चित्तं हि कारणं त्वस्याः संसारानुभवे चितेः ।

न च तत्कारणं किंचिच्चित्त्वान्यत्वात्यसंभवात्

॥४॥

एवं हि कारणाभावाच्चेत्यस्यासंभवादिति ।

नासौ चित्तं ततश्चेत्यं यत्नतश्चेत्यते यया

॥५॥

न दृश्यदर्शनद्रष्ट्ररूपं तैलमिवोपले ।

न कर्तृकर्मकरणं दृशीन्दाविव कृष्णता

॥६॥

न मातृमेयमानानि नभसीव नवाङ्कुरः ।

न चिच्चेतनचेत्यादि नन्दने खदिरो यथा

॥७॥

नाहंत्वत्वंत्वतत्त्वादि पर्वतत्वमिवाम्बरे ।

सदेहत्वान्यदेहत्वे शङ्खत्वमिव कज्जले

॥८॥

नानाऽनाना न चाप्यन्तरणाविव सुमेरवः ।

न च शब्दार्थशब्दश्रीर्महोषरलता यथा

॥९॥

नेति नेति न चैवार्कमण्डले रजनी यथा ।

न वस्तुतावस्तुते च तुषारे तु यथोष्णता

॥१०॥

न शून्यताशून्यते वा शिलाकोश इव द्रुमः ।

शून्यताशून्यता नाम महती ख इवाखता

॥११॥

केवल केवलीभावस्वच्छतैवावशिष्यते ।

न चित्तात्कस्यचिद्दोषाज्जातयैतदवाप्यते

॥१२॥

तत्सर्वभावनामात्रेणानर्थः प्रकृतः स्थितः ।

तज्ज्ञेऽप्यभावनामात्रेणानर्थ उपशाम्यति

॥१३॥

तज्ज्ञेऽप्यभावनामात्रादृतेऽन्यत्रोपयुज्यते ।

न तृणं न च त्रैलोक्यमिति स्वायत्ततात्र या

॥१४॥

स्वायत्त एव चैषोऽर्थो दुःसाध्यो भावनास्थितः ।

यद्यन्न साध्यते पुंसा तत्कथं क्वेव लभ्यते

॥१५॥

निर्विकल्पाद्वितीया चिद्यासौ सकलगा सती ।

परमैका परा साच्छा दीपिका तेजसामपि

॥१६॥

सैषावभासनकरी सर्वगा नित्यनिर्मला ।

नित्योदिता निर्मनस्का निर्विकारा निरञ्जना

॥१७॥

घटे पटे वटे कुड्ये शकटे वानरे खरे ।

असुरे सागरे भूते नरे नागे च संस्थिता

॥१८॥

साक्षिवत्तिष्ठति सती स्पन्दते न च कुत्रचित् ।

दीपः प्रकाशनायेव करोति न पुनः क्रियाम्

॥१९॥

मलिनाप्यमुनैषा साऽविकल्पाढ्या विकल्पिनी ।

जडेवाप्यजडाभासा न सर्वा सर्वगैव च

॥२०॥

निर्विकल्पा परा सूक्ष्मा चिच्चिनोति स्वसंविदम् ।

वातावाताङ्गमर्मादि यथा यन्त्रादिवेष्टने

॥२१॥

रूपालोकमनस्कारवलिता चिदबोधतः ।

बोधतश्चैव भवति निद्रां सदसती यतः

॥२२॥

सा परैव चिदत्यच्छा चिन्तामायाति चेतनात् ।

साधुरेव यथाऽसाधुर्भाविते दुर्जनैषणाः

॥२३॥

मलेन स्वर्णमायाति ताम्रतां मलमार्जनात् ।

पुनः कनकतामेति यथा चित्परमा तथा

॥२४॥

स्वारोपशान्त्या स्वादर्शो यथैति प्रतिमास्थितिम् ।

तथा सर्गमिवागम्य बोधात्स्वं याति तत्पदम्

॥२५॥

अभाववेदनादस्याः संसारः संप्रवर्तते ।

स्वभाववेदनादेष त्वसदेवोपशाम्यति

॥२६॥

यदा चित्त्वाच्चिनोत्यन्तरन्यतामसतीं तदा ।

अहंतामिव संप्राप्य नश्यतीवाप्यनाशिनी

॥२७॥

ईषत्स्पन्दादधो याति भृगुप्रान्तात्तरोः फलम् ।

यथा तथैष संवित्तेरधःपातो महानिव

॥२८॥

रूपादीनां तु सत्तैषा चित एवामलैव चित् ।

द्वित्वैकत्वे त्वबोधोत्थे बोधेन विलयं गते

॥२९॥

सत्तामात्रेण चित्तस्य बोधश्चित्तेन्द्रियादिषु ।

आलोकसत्तामात्रेण व्यवहारः क्रियास्विव

॥३०॥

वातात्कनीनिकास्पन्दस्तद्दीप्तिर्दृष्टिरुच्यते ।

तद्बाह्यवति तद्रूपरूपबोधस्तु चित्परा

॥३१॥

त्वङ्मारुतौ जडौ तुच्छौ तत्सङ्गः स्पर्श उच्यते ।

मननं स्पर्शसंवित्तिस्तत्संवित्तिस्तु चित्परा

॥३२॥

गन्धतन्मात्रपवनसंबन्धो गन्धसंविदः ।

आसां तु मनसा हीनं वेदनं परमैव चित्

॥३३॥

शब्दतन्मात्रश्रवणवातसङ्गान्मनो विना ।

सुषुप्तसदृशी संवित्परमा चिदुदाहृता

॥३४॥

क्रियोन्मुखत्वं संकल्पात्संकल्पो मननक्रमः ।

मननं चित्तकालुष्यमात्मा चिन्निर्मला भवेत्

॥३५॥

चित्प्रकाशात्मिका नित्या स्वात्मन्येवावसंस्थिता ।

इदमन्तर्जगद्धत्ते सन्निवेशं यथा शिला

॥३६॥

अद्वितीया दधानेदं विकारादिविवर्जितम् ।

नास्तमेति न चोदेति स्पन्दते नो न वर्धते

॥३७॥

संकल्पाज्जीवतामेत्य निःसंकल्पात्मनात्मना ।

चिज्जडं नो जडं भावं भावयन्ती स्वसंस्थिता

॥३८॥

रथस्त्वस्याश्चितेर्जीवो जीवस्याहंकृती रथः ।

अहंकृते रथो बुद्धिस्ततो बुद्धेर्मनो रथः

॥३९॥

मनसस्तु रथः प्राणः प्राणस्याक्षगणो रथः ।

अक्षौघस्य रथो देहो देहस्य स्यन्दनो रथः

॥४०॥

स्पन्दनं कर्म संसारे जरामरणपञ्जरम् ।

एवं प्रवर्तितं चक्रमिदमादिविभूतिजम्

॥४१॥

प्रतिभासत एवात्मन्यसत्स्वप्न इवाततः ।

मनागपि न सत्यात्म मृगतृष्णाम्बुवत्स्थितम्

॥४२॥

रथस्त्वत्र स्मृतः प्राणः कल्पनाया मुनीश्वर ।

यत्र प्राणमरुत्तत्र मननं परितिष्ठति

॥४३॥

आलोकश्रीः स्थिता यत्र रूपं तत्रैव राजते ।

प्राणो बली स्थितो यत्र तदेव परिवेपति

॥४४॥

यत्प्रयाति वनं वात्या तदेव परिघूर्णते ।

मनस्याकाशसंलीने न प्राणः परिवेपति

॥४५॥

तेजस्यसत्तामायाते न रूपमिव राजते ।

प्राणे प्रशान्ते मरुति मनोन्तर्न मनागपि

॥४६॥

वात्यायामुपशान्तायां रजो न परिकम्पते ।

यत्र प्राणो मरुद्याति मनस्तत्रैव तिष्ठति

॥४७॥

यत्र यत्रानुसरति रथस्तत्रैव सारथिः ।

प्राणसंप्रेरितं चित्तं याति देशान्तरे क्षणात्

॥४८॥

क्षेपणोन्मुक्तपाषाण इव तत्रान्यथा क्षयि ।

यत्र पुष्पं तत्र गन्धो यत्राग्निस्तत्र सोष्णता

॥४९॥

यत्र प्राणो मरुद्याति यत्रेन्दुस्तत्र तच्छविः ।

संवित्तिः पवनस्पन्दान्नाडीसंस्पर्शनश्च सः

॥५०॥

संवित्तिस्फारता चित्तं मनस्तत्प्राणकोटरे ।

सर्वत्र विद्यते संविद्व्योमस्वच्छा जडाजडे

॥५१॥

क्षुभ्यन्तीव तु सा प्राणस्पन्दादित्यनुभूयते ।

सत्तामात्रस्वरूपेण जडेषु समवस्थिता

॥५२॥

प्राणसंबोधिता वेत्ति वेदनात्मतया जडे ।

नानास्फारसमुल्लासैर्यः पूर्वं परिवल्गति ।

प्राणेऽतीते त्वमननः स एवाशु न वेपति

॥५३॥

पुर्यष्टके चित्परमा स्वे मुने प्रतिबिम्बति ।

आदर्श एव प्रतिमा दृश्यते नोपलादिषु

॥५४॥

मनः पुर्यष्टकं विद्धि सर्वकार्यैककारणम् ।

तदैव भेदैः कथितमन्यैः स्वाशयकल्पितैः

॥५५॥

यस्मादुदेति कलनाकुलदृश्यजालं

यत्तत्र च स्थितवदित्यनुभूतमुच्चैः ।

यस्मान्मनो विपरिवर्तति देहदृष्ट्या

सर्वं तु तत्परमवस्त्विति विद्धि विश्वम्

॥५६॥