मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः २६

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 26

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

भुशुण्ड उवाच ।

एषा हि चित्तविश्रान्तिर्मया प्राणसमाधिना ।

क्रमेणानेन संप्राप्ता स्वयमात्मनि निर्मले

॥१॥

एतां दृष्टिमवष्टभ्य संस्थितोऽस्मि महामुने ।

न चलामि निमेषांशमपि मेरुविचालतः

॥२॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।

स्वप्नेऽपि न चलत्येष सुसमाधिर्ममात्मनि

॥३॥

नित्यानित्यासु लोलासु जगत्स्थितिषु सुस्थितः ।

अन्तर्मुखोऽस्मि तिष्ठामि स्वकामेनात्मनात्मनि

॥४॥

अपि संरुध्यते वायुरपि वा सलिलं गतेः ।

नैतस्मात्सुसमाधानाद्विरुद्धं संस्मराम्यहम्

॥५॥

प्राणापानानुसरणात्परमात्मावलोकनात् ।

अशोकमनुजातोऽस्मि पदमाद्यं महातपः

॥५॥

आमहाप्रलयाद्ब्रह्मन्नुन्मज्जननिमज्जनम् ।

अहमद्यापि भूतानां पश्यञ्जीवामि धीरधीः

॥७॥

न भूतं न भविष्यं च चिन्तयामि कदाचन ।

दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना

॥८॥

यथा प्राप्तेषु कार्येषु परित्यक्तफलैषणः ।

सुषुप्तसमया बुद्ध्या परितिष्ठामि केवलम्

॥९॥

भावाभावमयीं चिन्तामीहितानीहितान्विताम् ।

विमृश्यात्मनि तिष्ठामि चिरं जीवाम्यनामयः

॥१०॥

प्राणापानसमायोगसमयं समनुस्मरन् ।

स्वयमात्मनि तुष्यामि चिरं जीवाम्यनामयः

॥११॥

इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् ।

इति चिन्ता न मे तेन चिरं जीवाम्यनामयः

॥१२॥

न स्तौमि न च निन्दामि क्वचित्किंचित्कदाचन ।

आत्मनोऽन्यस्य वा साधो तेनाहं शुभमागतः

॥१३॥

न तुष्यति शुभप्राप्तौ नाशुभेष्वपि खिद्यते ।

मनो मम समं नित्यं तेनाहं शुभमागतः

॥१४॥

परमं त्यागमालम्ब्य सर्वमेव सदैव हि ।

जीवितादि मया त्यक्तं तेनाहं शुभमागतः

॥१५॥

प्रशान्तचापलं वीतशोकं स्वस्थं समाहितम् ।

मनो मम मुने शान्तं तेन जीवाम्यनामयः

॥१६॥

काष्ठं विलासिनीं शैलं तृणमग्निं हिमं नभः ।

समं सर्वत्र पश्यामि तेन जीवाम्यनामयः

॥१७॥

किमद्य मम संपन्नं प्रातर्वा भविता पुनः ।

इति चिन्ताज्वरो नास्ति तेन जीवाम्यनामयः

॥१८॥

जरामरणदुःखेषु राज्यलाभसुखेषु च ।

न बिभेमि न हृष्यामि तेन जीवाम्यनामयः

॥१९॥

अयं बन्धुः परश्चायं ममायमयमन्यतः ।

इति ब्रह्मन्न जानामि तेन जीवाम्यनामयः

॥२०॥

सर्वं सर्वपदाभासमनाद्यन्तमनामयम् ।

अहं चिदिति जानामि तेन जीवाम्यनामयः

॥२१॥

आहरन्विहरंस्तिष्ठन्नत्तिष्ठन्नुच्छ्वसन्स्वपन् ।

देहोऽहमिति नो वेद्मि तेनास्मि चिरजीवितः

॥२२॥

इमं सांसारमारम्भं सुषुप्तपदवत्स्थितः ।

असन्तमिव जानामि तेन जीवाम्यनामयः

॥२३॥

यथाकालमुपायातावर्थानर्थौ समौ मम ।

हस्ताविव शरीरस्थौ तेन जीवाम्यनामयः

॥२४॥

अपरिचलया शक्त्या सुदृशा स्निग्धमुग्धया ।

ऋजु पश्यामि सर्वत्र तेन जीवाम्यनामयः

॥२५॥

आपादमस्तकान्तेऽस्मिन्न देहे ममता मम ।

त्यक्ताहंकारपङ्कस्य तेन जीवाम्यनामयः

॥२६॥

यत्करोमि यदश्नामि तत्त्यक्त्वा तद्वतोऽपि मे ।

मनो नैष्कर्म्यमादत्ते तेन जीवाम्यनामयः

॥२७॥

यदा यदा मुने किंचिद्विजानामि तदा तदा ।

मतिरायाति नौद्धत्यं तेन जीवाम्यनामयः

॥२८॥

करोमीशोऽपि नाक्रान्तिं परितापे न खेदवान् ।

दरिद्रोऽपि न वाञ्छामि तेन जीवाम्यनामयः

॥२९॥

पश्यद्रूपे शरीरेऽस्मिन्भूतस्थात्मा चिदास्पदः ।

भूतवृन्दमहं साम्यात्तेन जीवाम्यनामयः

॥३०॥

आशापाशविनुन्नायाश्चित्तवृत्तेः समाहितः ।

संस्पर्शे न ददाम्यन्तस्तेन जीवाम्यनामयः

॥३१॥

असत्तां जगतः सत्तामात्मनः करबिल्ववत् ।

सुप्तः प्रबुद्धः पश्यामि तेनास्मि चिरजीवितः

॥३२॥

जीर्णं भिन्नं श्लथं क्षीणं क्षुब्धं क्षुण्णं क्षयं गतम् ।

पश्यामि नववत्सर्वं तेन जीवाम्यनामयः

॥३३॥

सुखितोऽस्मि सुखापन्ने दुःखितो दुःखिते जने ।

सर्वस्य प्रियमित्रं च तेन जीवाम्यनामयः

॥३४॥

आपद्यचलधीरोऽस्मि जगन्मित्रं च संपदि ।

भावाभावेषु नैवास्मि तेन जीवाम्यनामयः

॥३५॥

नाहमस्मि न चान्यो मे नाहमन्यस्य कस्यचित् ।

इति मे भावितं चित्तं तेन जीवाम्यनामयः

॥३६॥

अहं जगदहं व्योम देशकालक्रमावहम् ।

अहं क्रियेति मे बुद्धिस्तेन जीवाम्यनामयः

॥३७॥

घटश्चिच्चित्पटश्चित्खं चिद्वनं शकटं च चित् ।

चित्सर्वमिति मे भावस्तेन जीवाम्यनामयः

॥३८॥

इत्यहं मुनिशार्दूल त्रिलोककमलालिकः ।

भुशुण्डो नाम काकोलः कथितश्चिरजीवितः

॥३९॥

ब्रह्मार्णवे विलुलितं त्रिजगत्तरङ्गमुत्पादनाद्यभिभवेन विभिन्नरूपम् ।

आलीनमुन्नमितमाकुलदृश्यदृश्यमालोकयन्प्रकलयंश्च चिरं स्थितोऽस्मि

॥४०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भुशुं० चिरजीवितहेतुकथनं नाम षड्विंशः सर्गः ।।२६ ।।