मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ३८

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 38

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

ईश्वर उवाच ।

एष देवः स परमः पूज्य एष सदा सताम् ।

चिन्मात्रमनुभूत्यात्मा सर्वगः सर्वसंश्रयः

॥१॥

घटे पटे वटे कुड्ये शकटे वानरे स्थितः ।

शिवो हरो हरिर्ब्रह्मा शक्रो वैश्रवणो यमः

॥२॥

बहिरन्तश्च सर्वात्मा सदा स्वात्मा सुबुद्धिभिः ।

विविधेन क्रमेणैव भगवान्परिपूज्यते

॥३॥

बहिस्तावन्महाबुद्धे क्रमेण परिपूज्यते ।

येन तच्छृणु तत्त्वज्ञ श्रोष्यस्यन्तःक्रमं ततः

॥४॥

पूजाक्रमेषु सर्वेषु देहगेहं पवित्रकम् ।

त्याज्यं देहावबोधात्म परं यत्नात्पवित्रकम्

॥५॥

पूजनं ध्यानमेवान्तर्नान्यदस्त्यस्य पूजनम् ।

तस्मात्त्रिभुवनाधारं नित्यं ध्यानेन पूजयेत्

॥६॥

चिद्रूपं सूर्यलक्षाभं समस्ताभासभासनम् ।

अन्तस्थचित्प्रकाशं स्वमहंतासारमाश्रयेत्

॥७॥

अपारपरमाकाशविपुलाभोगकन्धरम् ।

अनन्ताधस्तनाकाशकोशपादसरोरुहम्

॥८॥

अनन्तदिक्तटाभोगभुजमण्डलमण्डितम् ।

नानाविधमहालोकगृहीतपरमायुधम्

॥९॥

हृत्कोशकोणविश्रान्तब्रह्माण्डौघपरम्परम् ।

प्रकाशपरमाकाशपारगापारविग्रहम्

॥१०॥

अध ऊर्ध्वं चतुर्दिक्षु विदिक्षु च निरन्तरम् ।

ब्रह्मेन्द्रहरिरुद्रेशप्रमुखामरमण्डितम्

॥११॥

इमां भूतश्रियं तस्य रोमालिं प्रविचिन्तयेत् ।

विविधारम्भकारिण्यस्त्रिजगद्यन्त्ररज्जवः

॥१२॥

इच्छाद्याः शक्तयस्तस्य चिन्तनीयाः शरीरगाः ।

एष देवः स परमः पूज्य एष सदा सताम्

॥१३॥

चिन्मात्रमनुभूत्यात्मा सर्वगः सर्वसंश्रयः ।

घटे पटे वटे कुड्ये शकटे वानरे स्थितः

॥१४॥

शिवो हरो हरिर्ब्रह्मा शक्रो वैश्रवणो यमः ।

अनन्तैकपदाधारसत्तामात्रैकविग्रहः

॥१५॥

विवर्तितजगज्जालः कालोऽस्य द्वारपालकः ।

सशैलभुवनाभोगमिदं ब्रह्माण्डमण्डलम्

॥१६॥

देहकोणोऽस्य कस्मिंश्चित्स्वाङ्गावयवतां गतम् ।

विचिन्तयेन्महादेवं सहस्रश्रवणेक्षणम्

॥१७॥

सहस्रशिरसं शान्तं सहस्रभुजभूषणम् ।

सर्वत्रेक्षणशक्त्याढ्यं सर्वतो घ्राणशक्तिकम्

॥१८॥

सर्वतः स्पर्शनमयं सर्वतो रसनान्वितम् ।

सर्वत्र श्रवणाकीर्णं सर्वत्र मननान्वितम्

॥१९॥

सर्वतो मननातीतं सर्वतः परमं शिवम् ।

सर्वदा सर्वकर्तारं सर्वसंकल्पितार्थदम्

॥२०॥

सर्वभूतान्तरावस्थं सर्वं सर्वैकसाधनम् ।

इति संचिन्त्य देवेशमर्चयेद्विधिवत्ततः

॥२१॥

विधानमर्चनस्येदं श्रृणु ब्रह्मविदां वर ।

स्वसंविदात्मा देवोऽयं नोपहारेण पूज्यते

॥२२॥

न दीपेन न धूपेन न पुष्पविभवार्पणैः ।

नान्नदानादिदानेन न चन्दनविलेपनैः

॥२३॥

न च कुङ्कुमकर्पूरभोगैश्चित्रैर्न चेतरैः ।

नित्यमक्लेशलभ्येन शीतलेनाऽविनाशिना

॥२४॥

एकेनैवाऽमृतेनैष बोधेन स्वेन पूज्यते ।

एतदेव परं ध्यानं पूजैषैव परा स्मृता

॥२५॥

यदनारतमन्तस्थशुद्धचिन्मात्रवेदनम् ।

पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन्

॥२६॥

प्रलपन्विसृजन्गृह्णन्शुद्धसंविन्मयो भवेत् ।

ध्यानामृतेन संपूज्य स्वयमात्मानमीश्वरम्

॥२७॥

परमास्वादयुक्तेन मुक्तेन कुसुमेहितैः ।

ध्यानोपहार एवात्मा ध्यानं ह्यस्य समीहितम्

॥२८॥

ध्यानमर्घ्यं च पाद्यं च शुद्धसंवेदनात्मकम् ।

ध्यानसंवेदनं पुष्पं सर्वं ध्यानपरं विदुः

॥२९॥

विना तेनेतरेणायमात्मा लभ्यत एव नो ।

ध्यानात्प्रसादमायाति सर्वभोगसुखश्रियः

॥३०॥

अयमात्मा मुने भुङ्क्ते देहरूपो गृहे यथा ।

ध्यानेनानेन सुमते निमेषांस्तु त्रयोदश

॥३१॥

मूढोऽपि पूजयित्वेशं गोप्रदानफलं लभेत् ।

पूजयित्वा निमेषाणां शतमेकमिति प्रभुम्

॥३२॥

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।

पूजयित्वा स्वमात्मानं घटिकार्धमिति प्रभुम्

॥३३॥

अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।

ध्यानवल्युपहारेण स्वयमात्मानमात्मना

॥३४॥

घटिकां पूजयेद्यस्तु राजसूयं लभेत सः ।

मध्याह्नपूजनादित्थं राजसूयैकलक्षभाक्

॥३५॥

दिवसं पूजयित्वैवं परे धाम्नि वसेन्नरः ।

एषोऽसौ परमो योग एषा सा परमा क्रिया ।

बाह्यसंपूजनं प्रोक्तमेतदुत्तममात्मनः

॥३६॥

एतत्पवित्रमखिलाघविघातहेतुं

यस्त्वाचरिष्यति नरः क्षणमप्यखिन्नः ।

तं वन्दयिष्यति सुरासुरलोकपूगः

प्राप्तास्पदं जगति मामिव मुक्तमात्मन्

॥३७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पूर्वार्धे बाह्यपूजनं नामाष्टत्रिंशः सर्गः ।। ३८ ।।