मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ४७

3
योगवासिष्ठम् · उपशमप्रकरणम् · 47

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

मुहूर्तद्वितयेनाथ गाधिराधिभवभ्रमात् ।

प्रशशासाकुलीभावो वेलावर्त इवाम्बुधेः

॥१॥

मनोनिर्माणसंमोहात्तस्मात्स विरराम ह ।

कल्पान्तसमये ब्रह्मा जगद्विरचनादिव

॥२॥

बोधमाप शनैः शान्तः स्वमेवोन्निद्रधीरिव ।

क्षीबतायां प्रशान्तायां यथा परिणताशयः

॥३॥

अयं सोऽहमिदं कार्यमिदं नेति ददर्श ह ।

निशाव्यपगमे लोको यथा क्षीणे तमःपटे

॥४॥

स्मृतस्वरूपोऽथ पदमुद्दध्रे स जलान्तरात् ।

शिशिरान्ते प्रवृत्तास्यं सरोजमिव माधवः

॥५॥

एतद्वारिककुबूव्योमवतीं वसुमतीमिमाम् ।

अन्यामिव पुनः पश्यन्विस्मयं परमं ययौ

॥६॥

कोऽहं किमिव पश्यामि किमकार्षमहं किल ।

एवं विचारयंश्चित्रं सभ्रूभङ्गमभूत्क्षणम्

॥७॥

श्रान्तस्तत्क्षणमात्रेण संभ्रमं दृष्टवानहम् ।

इति विज्ञाय सलिलादुदस्थादुदयार्कवत्

॥८॥

चिन्तयामास च तटे क्व सा माता क्व सा प्रिया ।

यदाहं मृतिमायातो मध्ये मातृमहेलयोः

॥९॥

बालस्य मातापितरौ नष्टौ किल ममामतेः ।

वातनीतस्य पत्रस्य वल्लीवृक्षमिवासिना

॥१०॥

अविवाहोऽस्मि जानामि न स्वरूपमपि स्त्रियः ।

दुष्टायाः क्षोभकारिण्या मदिराया इव द्विजः

॥११॥

अतिदूरतरीभूताः स्वदेशस्य स्वबान्धवाः ।

के नाम मम येषां ते मध्ये जीवं त्यजाम्यहम्

॥१२॥

तस्मादेतत्समुद्भूतमहं किं नाम दृष्टवान् ।

विविधारम्भसंरम्भं गन्धर्वनगरं यथा

॥१३॥

तदास्तामेतदेषा हि बन्धुमध्ये मृतस्थितिः ।

मायामोहे मनागस्मिन्न सत्यमुपलभ्यते

॥१४॥

नित्यमेवमनन्तासु भ्रान्तिदृष्टिषु देहिनाम् ।

चेतो भ्रमति शार्दूलो वनराजिष्विवोन्मदः

॥१५॥

अवधार्येति तं चित्ते मोहं गाधिर्निनाय सः ।

दिनानि कतिचित्तस्मिन्स्वक एवाश्रमे तदा

॥१६॥

एकदा गाधिमगमत्कश्चित्तत्र प्रियोऽतिथिः ।

ब्रह्माणमिव दुर्वासाः स विशश्राम सश्रमः

॥१७॥

परमां तुष्टिमानीतः फलपुष्परसाशनैः ।

सोऽतिथिर्गाधिना तेन वसन्तेनेव पादपः

॥१८॥

मिथो वन्दितसंध्यौ तौ कृतजाप्यावुभावपि ।

क्रमाच्छयनमासाद्य तस्थतुर्मृदुपल्लवम्

॥१९॥

ततः प्रावर्तते शान्ता तयोस्तापसयोः कथा ।

स्वव्यापारोचिता पुष्पश्रीरिवर्तुत्वमाशयोः

॥२०॥

तं पप्रच्छातिथिं गाधिः प्रसङ्गपतितं वचः ।

किं ब्रह्मन्सुकृशाङ्गस्त्वं किमिति श्रमवानसि

॥२१॥

अतिथिरुवाच ।

ममातिकार्श्यश्रमयोर्भगवन् श्रृणु कारणम् ।

कथयामि तथाभूतं वयं नासत्यवादिनः

॥२२॥

अस्त्यस्मिन्वसुधापीठे उत्तराशानिकुञ्जके ।

कीरो नामातिविख्यातः श्रीमाञ्जनपदो महान्

॥२३॥

तत्राहमवसं मासं पूज्यमानः पुरे जनैः ।

नानात्मस्वादलोलात्मा चित्तवेतालमोहितः

॥२४॥

एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित् ।

इहाभूच्छ्वपचो राजा वर्षाण्यष्टौ द्विजेति मे

॥२५॥

ततो ग्रामेषु तत्पृष्टैः प्रोक्तं सकलजन्तुभिः ।

राजा बभूव श्वपचो वर्षाण्यष्टाविहेति तैः

॥२६॥

सोऽयमन्ते परिज्ञातः प्रविष्टो ज्वलनं जवात् ।

ततो द्विजशतानीह प्रविष्टानि हुताशनम्

॥२७॥

इति तेषां मुखाच्छ्रुत्वा तस्मान्निर्गत्य मण्डलात् ।

प्रयागेऽकरवं शुद्ध्यै प्रायश्चित्तमहं द्विज

॥२८॥

कृत्वा चान्द्रायणस्यान्ते तृतीयस्याद्य पारणम् ।

इहाहमागतस्तेन श्रान्तोस्म्यतिकृशोस्मि च

॥२९॥

श्रीवसिष्ठ उवाच ।

इति श्रुतवता तेन गाधिना स तदा द्विजः ।

भूयः पृष्टोऽप्येतदेव कथयामास नान्यथा

॥३०॥

अथ विस्मयवान्गाधिस्तां नीत्वा तत्र शर्वरीम् ।

जगद्गेहमहादीपे रवावुदयमागते

॥३१॥

कृतप्रातःस्नानविधावापृच्छय स्वातिथौ गते ।

इदं संचिन्तयामास विस्मयोद्धुरया धिया

॥३२॥

यन्मया संभ्रमे दृष्टं सत्यभूतं द्विजेन तत् ।

उक्तं ममेति किं नाम स्यान्मायाशम्बरक्रमः

॥३३॥

यद्बन्धुमध्ये मरणं मया तद्दृष्टमात्मनः ।

सा मायैव न संदेहः शेषं पश्यामि तस्य तम्

॥३४॥

तदात्मश्वपचोदन्तं द्रष्टुं तावदखिन्नधीः ।

भूतमण्डलपर्यन्तग्रामं गच्छामि सत्वरम्

॥३५॥

इति संचिन्तयन्गन्तुं मण्डलान्तरमादरात् ।

उत्तस्थौ भास्करः पार्श्वं मेरोर्द्रष्टुमिवोद्यतः

॥३६॥

मनोराज्यमपि प्राज्ञा लभन्ते व्यवसायिनः ।

गाधिना स्वप्नसंदृष्टं गत्वा लब्धमखण्डितम्

॥३७॥

सर्वमध्यवसायेन दुष्प्रापमपि लभ्यते ।

पश्यन्गाधिर्जगन्मायां प्रमेयीकर्तुमुद्यतः

॥३८॥

विनिर्गत्याभवन्मार्गे प्रावृडोघजवेन सः ।

देशानुल्लंघयामास बहून्वाततुरङ्गवत्

॥३९॥

तच्चेदृशनिजाचारं भूतमण्डलमागतः ।

करभः कण्टकार्थ्येकः कारञ्जमिव काननम्

॥४०॥

तत्र संवित्स्थितेनैव संनिवेशेन वै पुनः ।

अपश्यद्भ्रामकं कंचिद्गन्धर्व इव पत्तनम्

॥४१॥

ददर्श तस्य पर्यन्ते तमेव श्वपचालयम् ।

अधस्ताद्भूवनस्येव पाताले नरकव्रजम्

॥४२॥

चित्तचिन्तितविस्तारं तन्निवेशमयं परम् ।

गन्धर्ववदसावात्मश्वपचत्वं च दृष्टवान्

॥४३॥

तेनैव संनिवेशेन प्राग्दृष्टं श्वपचास्पदम् ।

तस्य कामपि वैराग्यपदवीमनयन्मनः

॥४४॥

प्रावृडासारलुठितं भित्तिजातयवाङ्कुरम् ।

पर्यस्तच्छादनार्धाङ्कं किंचिदादृष्टतल्पकम्

॥४५॥

दारिद्र्यं तद्दृढमिव दौर्भाग्यमिव कुड्यमत् ।

भ्रष्टाङ्गमिव दौरात्म्यं दौःस्थित्यमिव खण्डितम्

॥४६॥

गाधिर्दन्तावदलितैर्गवाश्वमहिषास्थिभिः ।

धवलैर्व्याप्तपर्यन्तं साक्ष्यं कर्तुमिव स्थितैः

॥४७॥

भुक्तं पीतं पुरा तेन येषु खर्परकेषु वै ।

तैरस्पन्दाभ्रसलिलैः पानपूर्णैरिवावृतम्

॥४८॥

ताभिरेवान्त्रतन्त्रीभिः संशुष्काभिलतावृतैः ।

तृष्णाभिरिव दीर्घाभिः परितः परिवेष्टितम्

॥४९॥

चिरमालोकयामास स तदात्मगृहं जवात् ।

प्राक्तनं शुष्कशवतां यातं देहमिवात्मवान्

॥५०॥

अतिविस्मयमातस्थौ ग्रामकं समुपाययौ ।

उल्लंघ्य म्लेच्छनगरमार्यदेशमिवाध्वगः

॥५१॥

तत्रापृच्छज्जनं साधो कच्चित्स्मरति भो भवान् ।

प्राग्वृत्तमस्य ग्रामस्य पर्यन्ते श्वपचक्रमम्

॥५२॥

सर्व एव हि धीमन्तश्चिरवृत्तमपि स्फुटम् ।

करस्थमिव पश्यन्ति मयेति सुजनाच्छ्रुतम्

॥५३॥

अत्र श्वपचमेकान्ते वासिनं वृद्धमुत्तमम् ।

स्मरस्येनं किमुत भो दुःखानामिव देहकम्

॥५४॥

यदि जानासि भोः साधो तन्मे कथय तत्त्वतः ।

पान्थ संशयविच्छेदे महत्पुण्यफलं स्मृतम्

॥५५॥

भूयो भूय इति ग्राम्याः पृष्टा गाधिद्विजन्मना ।

अनल्पस्मयसंरम्भमार्तेनेव चिकित्सकाः

॥५६॥

ग्राम्या ऊचुः ।

यथा कथयसि ब्रह्मंस्तत्तथा न तदन्यथा ।

कटंजनामा श्वपच इहाभूद्दारुणाकृतिः

॥५७॥

पुत्रपौत्रसुहृद्भृत्यबन्धुस्वजनपेटकम् ।

यस्यातिविस्तीर्णमभूत्पत्रवृन्दं तरोरिव

॥५८॥

यस्य वृद्धस्य तत्सर्वं कलत्रं मृत्युराच्छिनत् ।

अद्रेः पुष्पफलोपेतं दावो वनमिवानलः

॥५९॥

यस्ततो देशमुत्सृज्य ययौ कीरपुरान्तरम् ।

वर्षाण्यष्टावनुद्वेगं तत्र राजा बभूव सः

॥६०॥

यस्तत्रार्थं परिज्ञाय जनैर्दूरे निराकृतः ।

यथा राशिरनर्थस्य यथा ग्रामे विषद्रुमः

॥६१॥

ततो जनेऽग्निं प्रविशत्यात्मना यो हुताशनम् ।

आर्यतामार्यसंसर्गादागतः प्रविवेश ह

॥६२॥

किं त्वमेव प्रयत्नेन श्वपचं पृच्छसि प्रभो ।

किं ते बन्धुरसौ कच्चिदभवस्त्वं स्वतोऽथवा

॥६३॥

एवं कथयतो ग्राम्यान्गाधिः पृच्छन्पुनःपुनः ।

सर्वेषु तत्र प्रान्तेषु मासमेकमुवास सः

॥६४॥

यथा तेनानुभूतं तच्छवापचं तत्तथैव तैः ।

ग्रामीणैस्तस्य कथितं सर्वैरेवावखण्डितम्

॥६५॥

अव्याहतं सकलभूतमुखादथैत-

दाकर्ण्य सम्यगवलोक्य यथानुभूतम् ।

गाधिः शशाङ्कमलवद्हृदयेऽधिरूढं

गूढाकृतिः परमविस्मयमाजगाम

॥६६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते प्रत्यक्षावलोकनं नाम सप्तचत्वारिंशः सर्गः ४७