मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उत्पत्तिप्रकरणम् — सर्गः ५०

3
योगवासिष्ठम् · उत्पत्तिप्रकरणम् · 50

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

तस्मिंस्तदा वर्तमाने घोरे समरविभ्रमे ।

सर्वारिसैन्यनाशार्थमेकं स्वबलशान्तये

॥१॥

सस्मार स्मृतिमानन्तो महोदाराधिधैर्यभृत् ।

अस्त्रमस्त्रेश्वरं श्रीमद्वैष्णवं शंकरोपमम्

॥२॥

अथ योऽसौ शरस्तेन वैष्णवास्त्राभिमन्त्रितः ।

मुक्तस्तस्य फलप्रान्तादुल्मुका दिवि निर्ययौ

॥३॥

पङ्क्तयः स्फारचक्राणां शतार्कीकृतदिक्तटाः ।

गदानामभियान्तीनां शतवंशीकृताम्बराः

॥४॥

वज्राणां शतधाराणां तृणराजीकृताम्बराः ।

पट्टिशानां सपद्मानां दीनवृक्षीकृताम्बराः

॥५॥

शराणां शितधाराणां पुष्पजालीकृताम्बराः ।

खङ्गानां श्यामलाङ्गानां पत्रराशीकृताम्बराः

॥६॥

अथ राजा द्वितीयोऽपि वैष्णवास्त्रस्य शान्तये ।

ददौ वैष्णवमेवास्त्रं शत्रुनिष्ठावपूरकम्

॥७॥

ततोऽपि निर्ययुर्नद्यो हेतीनां हतहेतयः ।

शरशक्तिगदाप्रासपट्टिशादिपयोमयाः

॥८॥

शस्त्रास्त्रसरितां तासां व्योम्नि युद्धमवर्तत ।

रोदोरन्ध्रक्षयकरं कुलशैलेन्द्रदारणम्

॥९॥

शरपातितशूलासिखड्गकुट्टितपट्टिशम् ।

मुसलप्रतनाप्रासशूलशातितशक्तिकम्

॥१०॥

शराम्बुराशिमथनमत्तमुद्गरमन्दरम् ।

गदावदनतो युक्तं दुर्वारास्त्रिनिभासिनि

॥११॥

रिष्टारिष्टप्रशमनभ्रमत्कुन्तेन्दुमण्डलम् ।

प्रासप्रसरसंरब्धप्रोद्यतान्तकृतान्तकम्

॥१२॥

चक्रावकुण्ठितोर्ध्वास्त्रं सर्वायुधक्षयंकरम् ।

शब्दस्फुटद्विरिञ्चाण्डं घातभग्नकुलाचलम्

॥१३॥

धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः ।

मदस्त्रवारणेनेव वज्राविजरपर्वतम्

॥१४॥

शङ्कुशङ्कितसूत्कारकाशिशूलशिलाशतम् ।

भुशुण्डीनिर्जितोद्दण्डभिन्दिपालोग्रमण्डलम्

॥१५॥

परशूलकराभैकपरशूलैकलम्पितम् ।

वहदुच्छिन्नचञ्चूरचारणं शत्रुवारणम्

॥१६॥

स्फुटच्चटचटास्फोटरुद्धत्त्रिपथगारयम् ।

हेत्यस्त्रीचूर्णसंभारमहाधूमवितानकम्

॥१७॥

अन्योन्यशस्त्रसंघट्टाद्भ्रमज्जालोल्लसत्तडित् ।

शब्दस्फुटद्विरिञ्चाण्डं धातमग्नकुलाचलम्

॥१८॥

धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः ।

मदस्त्रवारणेनैव कालोपायोऽचलात्मनः

॥१९॥

अयं कियद्बल इति सिन्धौ तिष्ठति हेलया ।

विदूरथोऽस्त्रमाग्नेयं तत्याजाशनिशब्दवत्

॥२०॥

ज्वालयामास स रथं सिन्धोः कक्षमिवारसम् ।

एतस्मिन्नन्तरे व्योम्नि हेतिनिर्विवरोदरे

॥२१॥

ससन्नाह इव प्रावृट्पयोदतटिनीव यः ।

अस्त्रे राज्ञोः क्षणं कृत्वा युद्धं परमदारुणम्

॥२२॥

अन्योन्यं शममायाते सवीर्ये सुभटाविव ।

एतस्मिन्नन्तरे सोऽग्नी रथं कृत्वा तु भस्मसात्

॥२३॥

प्राप दग्ध्वा वनं सिन्धुं मृगेन्द्रमिव कन्दरात् ।

सिन्धुरभ्यासतोऽग्न्यस्त्रं वारुणास्त्रेण शामयन्

॥२४॥

रथं त्यक्त्वावनिं प्राप्य खड्गास्फोटकवानभूत् ।

अक्ष्णोर्निमेषमात्रेण रथाश्वानां रिपोः खुरान्

॥२५॥

लुलाव करवालेन मृणालानीव लाघवात् ।

विदूरथोऽपि विरथो बभूवास्फोटकासिमान्

॥२६॥

समायुधौ समोत्साहौ चेरतुर्मण्डलानि तौ ।

खड्गौ क्रकचतां यातौ मिथः प्रहरतोस्तयोः

॥२७॥

दन्तमालेयमस्येव बले चर्वयतः प्रजाः ।

शक्तिमादाय चिक्षेप खङ्गं त्यक्त्वा विदूरथः

॥२८॥

सिन्ध्वम्बुघर्घरारावो महोत्पात इवाशनिः ।

अविच्छिन्ना समायाता पतिता सास्य वक्षसि

॥२९॥

अप्रियस्य यथा भर्तुरनिच्छन्ती स्वकामिनी ।

तेन शक्तिप्रहारेण नासौ मरणमाप्तवान्

॥३०॥

केवलं रुधिरव्रातं नागो जलमिवात्यजत् ।

तद्देशलीला तं दृष्ट्वा भग्नं तम इवेन्दुना

॥३१॥

सविकासघनानन्दा पूर्वलीलामुवाच ह ।

देवि पश्य नृसिंहेन हतो भर्त्रायमावयोः

॥३२॥

शक्तिकोटिनखैर्दैत्यः सिन्धुरुद्घुरकन्धरः ।

सरःस्थलस्थनागेन्द्रकरफूत्कृतवारिवत्

॥३३॥

पिष्टो रसोऽस्य निर्याति रक्तं चुलचुलारवैः ।

हा कष्टं रथमानीतं सिन्धुरारोढुमुद्यतः

॥३४॥

सौवर्णं मैरवं शृङ्गं पुष्करावर्तको यथा ।

पश्य देवि रथोऽस्यासौ मुद्गरेण विचूर्णितः

॥३५॥

भ्रमत्पार्थनिपातेन सौवर्णं नगरं यथा ।

प्रवृत्तो रथमारोढुमानीतं पतिरेष मे

॥३६॥

कष्टं वज्रमिवेन्द्रेण मुसलं सिन्धुनेक्षितम् ।

जवात्पतिः प्रयातो मे सैन्धवं मुसलायुधम्

॥३७॥

वञ्चयित्वा विलासेन रथमारुह्य लाघवात् ।

हा धिक्कष्टमसौ सिन्धुरार्यपुत्ररथं रयात्

॥३८॥

हरिश्वभ्रमिवारूढं प्लवेनोर्ध्वमिव द्रुमम् ।

क्रीडित्वा पीडयामास शरवर्षैर्विदूरथम्

॥३९॥

छिन्नध्वजं छिन्नरथं छिन्नाश्वं छिन्नसारथिम् ।

छिन्नकार्मुकवर्माणं भिन्नसर्वाङ्गमाकुलम्

॥४०॥

हृदि स्फोटशिलापट्टदृढे पीवरमूर्धनि ।

भित्त्वा वज्रसमैर्बाणैः पातयत्येव भूतले

॥४१॥

अथान्यं रथमानीतं कृच्छ्रेण प्राप्य चेतनाम् ।

खङ्गेनारोहतोऽस्यांसं छिन्नं भर्तुर्विलोकय

॥४२॥

पद्मरागगिरिद्योतमिवर्द्धासृग्विमुञ्चति ।

हा हा धिक्कष्टमेतेन सिन्धुना खड्गधारया

॥४३॥

जङ्घयोर्मे पतिश्छिन्नः क्रकचेनेव पादपः ।

हा हा हतास्मि दग्धास्मि मृतास्म्युपहतास्मि च

॥४४॥

मृणाले इव पत्युर्मे लूने द्वे अपि जानुनी ।

इत्युक्त्वा सा तदालोक्य भर्तुर्भावभयातुरा

॥४५॥

लता परशुकृत्तेव मूर्च्छिता भुवि सापतत् ।

विदूरथोऽपि निर्जानुः प्रहरन्नेव विद्विषि

॥४६॥

पपात स्यन्दनस्याधश्छिन्नमूल इव द्रुमः ।

पतन्नेवैष सूतेन रथेनैवापवाहितः

॥४७॥

यदा तदाहतिं तस्य कण्ठेऽदात्सिन्धुरुद्धतः ।

अर्धविच्छिन्नकण्ठोऽसावनुयातोऽथ सिन्धुना

॥४८॥

स्यन्दनेनाविशत्सद्म पद्मं रविकरो यथा ।

सरस्वत्याः प्रभावाढ्यं तत्प्रवेष्टुमसौ गृहम् ।

नाशकन्मशको मत्तो महाज्वालोदरं यथा

॥४९॥

खङ्गावकृत्तगलगर्तगलत्सवात-

रक्तच्छटाछुरितवस्त्रतनुत्रगात्रम् ।

तत्याज तं भगवतीमभितो गृहान्तः

सूतः प्रवेश्य मृतितल्पतले गतोऽरिः

॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० विदूरथमरणवर्णनं नाम पञ्चाशः सर्गः ।। ५० ।।