मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः ९४

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 94

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथ हेममयाकाशविस्तीर्णायां महाभुवि ।

सौहार्दादेव सिद्धस्य तस्येदमहमुक्तवान्

॥१॥

त्वया न केवलं तावन्मयापि न विचारितम् ।

आव्याप्तिरहिता नाम न संभवति देहिनाम्

॥२॥

कस्मान्मया तवोदन्तं विचार्यासौ स्थिरीकृता ।

न कुटी व्योम्नि तेन त्वमभविष्यः स्थिरस्थितिः

॥३॥

उत्तिष्ठ सिद्धलोकेषु निवसावो यथास्थितम् ।

स्वास्पदस्थितयः सौम्याः स्वात्मसिद्धौ सुसाधनम्

॥४॥

इति निर्णीय तावुच्चैरुत्सृतौ तारकोपमौ ।

सममेकपुटोड्डीनौ व्योम यन्त्रोपलाविव

॥५॥

प्रणामपूर्वमन्योन्यमथ कृत्वा विसर्जनम् ।

गतः सोऽभिमतं देशमहं चाभिमतं गतः

॥६॥

इति वृत्तान्तमखिलमुक्तवानस्मि राघव ।

तवाश्चर्यमयीं पश्य संसृतीनां विचित्रताम्

॥७॥

श्रीराम उवाच ।

भगवंस्तव देहोऽसौ पृथिव्यामणुतां गतः ।

भ्रान्तः केन शरीरेण सिद्धलोकांस्ततो भवान्

॥८॥

श्रीवसिष्ठ उवाच ।

आ स्मृतं श्रृणु वृत्तान्तं ततो मम जगद्गृहे ।

भ्रमतः सिद्धसेनासु लोकपालपुरीषु च

॥९॥

अहमिन्द्रपुरं प्राप्तो न कश्चित्तत्र दृष्टवान् ।

मामिमं देहरहितमातिवाहिकदेहिनम्

॥१०॥

अह किल तदा राम संपन्नो गगनाकृतिः ।

न चाधारो न चाधेयश्चिदाकाशमयात्मकः

॥११॥

न ग्रहीता न च ग्राह्यस्त्वादृशार्थावबोधिनाम् ।

न चैव देशकालानां क्वचिदावृत्तिकारकः

॥१२॥

मनोमननमात्रात्मा पृथ्व्यादिपरिवर्जितः ।

संकल्पपुरुषाकारः पदार्थानामरोधकः

॥१३॥

अरुद्धश्च पदार्थौघैः स्वयं स्वानुभवोन्मुखः ।

व्यवहर्ता तथाभूतैरेवं पुंभिर्मनोमयैः

॥१४॥

स्वप्नानुभूतयो राम दृष्टान्तोऽत्राविखण्डितः ।

अनुभूत्यपलापं तु यः कुर्यात्तेन तेऽस्त्वलम्

॥१५॥

यथा स्वप्नचरो गेहे व्यवहर्ता न दृश्यते ।

तथा तदा न दृष्टोस्मि पुरस्थोऽपि नभोगतैः

॥१६॥

अहमन्यान्प्रपश्यामि पार्थिवाकारभासुरान् ।

मामातिवाहिकात्मानं न कश्चिदपि पश्यति

॥१७॥

श्रीराम उवाच ।

न दृश्यते विदेहत्वाद्भवान्व्योमवपुर्यदि ।

तत्कथं तेन सिद्धेन दृष्टोऽसि कनकावनौ

॥१८॥

श्रीवसिष्ठ उवाच ।

अस्मदादिर्जनो नाम यथा संकल्पकल्पितान् ।

नासंकल्पितमाप्नोति सत्यकामवपुर्यतः

॥१९॥

व्यवहारेषु मग्नेन लौकिकेष्वमलात्मना ।

क्षणाद्विस्मर्यते पुंसा आतिवाहिकमात्मनः

॥२०॥

मया पश्यतु मामेष इति संकल्पितं तदा ।

तेन मां दृष्टवानेष स्वसंकल्पार्थभाजनम्

॥२१॥

जनो जरठभेदत्वान्न संकल्पार्थभाजनम् ।

स एष जीर्णभेदत्वात्सत्यकामत्वभाजनम्

॥२२॥

द्वयोस्तु सिद्धयोः सिद्धविरुद्धेप्सितयोर्मिथः ।

अधिकैकावदातात्मा जयी पुरुषयत्नवान्

॥२३॥

भ्रमतः सिद्धसेनासु लोकपालपुरीषु मे ।

विस्मृता व्यवहारौघैः सातिवाहिकतात्मनः

॥२४॥

यदा तदाहमपरैर्व्यवहर्तुं महाम्बरे ।

प्रवृत्तो न च मां कश्चित्तत्र पश्यति चञ्चलम्

॥२५॥

अत्यन्तमप्यारटतः शब्दो न श्रूयते मम ।

केनचित्सुरलोकेषु स्वप्नपुंस इवानघ

॥२६॥

अवष्टब्धं प्रवृत्तस्य नान्यावष्टब्धये मम ।

संपद्यते किंचिदपि मनोमननदेहिनः

॥२७॥

एवं व्योमपिशाचोऽहं संपन्नो रघुनन्दन ।

मयानुभूता काप्येषा देवागारपिशाचता

॥२८॥

श्रीराम उवाच ।

पिशाचाः सन्तिलोकेस्मिन्किमाकाराःकिमास्पदाः । किंजातीयाः किमाचाराः कीदृशाः कीदृशाशयाः ।।

श्रीवसिष्ठ उवाच ।

पिशाचाः सन्ति लोकेऽस्मिन्यादृशास्तादृशान्श्रृणु ।

न सभ्योऽसौ न यो वक्ति प्रसङ्गापतितं वचः

॥३०॥

पिशाचाः केचिदाकाशसदृशाः सूक्ष्मदेहकाः ।

हस्तपादादिसंयुक्ताः पश्यन्ति त्वमिवाकृतिम्

॥३१॥

छायया भयदायिन्या त्वन्यत्र भ्रमरूपया ।

ते चित्ताक्रमणं कृत्वा बोधयन्ति नराशयम्

॥३२॥

घ्नन्त्यदन्ति पिबन्त्याशु लघुसत्त्वबलं जनम् ।

बलं सत्त्वमथो जीवान्हिंसन्त्याक्रम्य चित्तकम्

॥३३॥

आकाशसदृशाः केचित्केचिन्नीहारसंनिभाः ।

केचित्स्वप्ननराकाराः साकारा अपि स्वात्मकाः

॥३४॥

केचिदभ्रदलप्रख्याः केचित्पवनदेहकाः ।

केचिद्भ्रमात्मका एव सर्वे बुद्धिमनोमयाः

॥३५॥

ग्रहीतुं नैव युज्यन्ते ग्रहीतुं शक्नुवन्ति नो ।

आकाशशून्यवपुषः पश्यन्त्याकृतिमात्मनः

॥३६॥

शीतातपादिविहितं सुखं दुःखं विदन्ति च ।

पातुमत्तुमवष्टब्धुमीहितुं शक्नुवन्ति नो

॥३७॥

इच्छाद्वेषभयक्रोधलोभमोहसमन्विताः ।

मन्त्रौषधतपोदानधैर्यधर्मवशीकृताः

॥३८॥

सत्त्वावष्टम्भयन्त्रेण मन्त्रेणाराधितेन वा ।

दृश्यन्तेऽपि च गृह्यन्ते कदाचित्केनचित्क्वचित्

॥३९॥

देवयोनिर्हि सा तेन केचिद्देवोपमादयः ।

केचिन्नरसमश्रीकाः केचिन्नागसमन्वयाः

॥४०॥

श्वशृगालोपमाः केचिद्ग्रामजङ्गलवासिनः ।

कुल्यावकररथ्यासु वसन्ति निरयेषु च

॥४१॥

एतदास्पदमेतेषामित्याकाराः प्रकीर्तिताः ।

पिशाचा एवमाचारा जन्मैषां श्रूयतामिदम्

॥४२॥

अचेत्यचिन्मयं ब्रह्म सर्वशक्तिस्वभावतः ।

यत्स्थितं बुद्धमेवान्तश्चेत्यं संकल्पयन्निव

॥४३॥

तं जीवं विद्धि स प्रौढस्त्वहंकार इति स्मृतः ।

सोऽहंकारः स्मृतः पुष्टो मन इत्युदितात्मभिः

॥४४॥

स एव कथ्यते ब्रह्मा सकल्पाकाशरूपवान् ।

असदेवासतो बीजं जगतो विगताकृतिः

॥४५॥

एवं मनःस्थितो ब्रह्मा सदेहोऽप्यमलं नभः ।

तत्स्वप्नपुरुषाकारः सन्नेवासद्वपुः सदा

॥४६॥

पृथ्व्यादिमूर्तिरहितस्त्वातिवाहिकदेहवान् ।

पृथ्व्यादयः किल कुतः संकल्पपुरुषस्य खे

॥४७॥

भवन्मनो यथाकाशपुरं पश्यति कल्पितम् ।

तथा मनोविरञ्चित्वं पश्यत्यात्मनि कल्पितम्

॥४८॥

यद्वेत्ति कल्पितं तत्सत्पश्यत्यनुभवत्यपि ।

यो यावन्मात्रकस्तत्स कस्मात्किल न पश्यति

॥४९॥

स यत्पश्यति तत्तादृक् शून्यात्मा शून्यमम्बरे ।

ब्रह्म ब्रह्मणि वा ब्रह्मा तदिदं जगदुच्यते

॥५०॥

तथा संप्रति भासोऽस्य चिरकालैकभावनात् ।

घनीभूतः स्थितः पुष्टः सुदीर्घस्वप्नसुन्दरः

॥५१॥

आतिवाहिकदेहस्य तस्य तच्चिरभावनात् ।

सर्गानुभवनं भूरि ब्रह्मणो ब्रह्मरूप्यपि

॥५२॥

गतं प्रकटतोत्कर्षादाधिभौतिकदेहताम् ।

तेनैव सर्ग इत्युक्तो भेदसंततिभासुरः

॥५३॥

स ब्रह्मा ब्रह्ममात्रात्मा ब्रह्ममात्रात्मनोस्तयोः ।

अजातयोरेव सदा तदात्मजगतोर्द्वयोः

॥५४॥

अभिन्नयोरेव भृशं शून्यत्वाम्बरयोरिव ।

ऐकात्म्येनैव वसतोः पवनस्पन्दयोरिव

॥५५॥

वेत्ति भूतमयत्वं तन्मिथ्यैव न तु वास्तवम् ।

तथा यथा त्वं संकल्पपुरुषस्य सतोऽसतः

॥५६॥

ततः शरीरधातूनां तेन पृथ्व्यादिकाः कृताः ।

अभिधाः पञ्च चित्पुष्टा जगदित्येव ताः स्थिताः

॥५७॥

यथा त्वसत्य एवायं संकल्पः सत्य एव ते ।

तथासावात्मसंकल्पं सत्यमेवानुभूतवान्

॥५८॥

स स्वयं चिन्मयाकाशः स संकल्पश्चिदम्बरम् ।

अतः स्वप्नो जगत्सर्वं कृतौ नाशोद्भवौ स्थितौ

॥५९॥

यथैवैतन्मनः सत्यं तदंशाः सत्यमेव ते ।

तथैव तत्कृताश्चन्द्ररुद्रार्केन्दुमरीचयः

॥६०॥

एवं स्थिते जगज्जालं तन्मनोराज्यमुच्यते ।

तच्च शून्यं निरालम्बमाकाशकचनं चिति

॥६१॥

यथा स्वप्नपुरं व्योम संकल्पाद्रिर्यथा नभः ।

तथा ब्रह्म जगच्चैव खमेवाच्छमनाकृति

॥६२॥

एवमाभासमात्रस्य कचतोऽनिशमव्ययम् ।

सर्गादिमध्यान्तदृशो मुधैवात्रोदिताः स्थिताः

॥६३॥

किंचिदाकाशकोशस्य तव वा मम वानघ ।

जगतो वापि जायेत किं वा नश्यति मे वद

॥६४॥

तत्किमर्थमनर्थाय निरर्थकमपार्थकाः ।

कस्मादभ्युदिता ब्रूहि रागद्वेषभयादयः

॥६५॥

वस्तुतोऽङ्ग न सर्गादिर्न सर्गो नाप्यसर्गता ।

विद्यते सकृदाभातमिदमित्थं सदैव तत्

॥६६॥

आशून्ये विपुलाभोगे स्वच्छचिज्जलपूरिते ।

कलनापङ्ककलिले भविष्यति चिदम्बरे

॥६७॥

अन्तरिक्षाक्षयक्षेत्रे खात्मनो गगनात्मिका ।

तस्माद्बीजादियं जाता भूरिभूतशिलावलिः

॥६८॥

नास्ति किंचिदिह क्षेत्रं व्युप्तं नाम न किंचन ।

न बीजमस्ति नो जातं किंचित्सर्वं च संस्थितम्

॥६९॥

याः शिलावलयस्तत्र पुष्टास्ता विबुधादयः ।

यास्तु वर्णोज्ज्वला एताः स्वास्थिता बुद्धबुद्धयः

॥७०॥

यास्त्वर्धपक्वास्ता एता नरनागादिजातयः ।

यास्त्वाश्याना रजोनष्टास्ताः कृमिस्थावरादयः

॥७१॥

यास्तु गुर्व्यः फलैर्हीनाः शून्याकाराः क्षयक्षताः ।

अशरीराः शरीरिण्यस्ताःपिशाचादिकाः स्मृताः

॥७२॥

न हि संकल्पितुः स्वेच्छा क्वचित्पर्यनुयुज्यते ।

तास्तथेच्छा विरिञ्चस्य तथा नाम तथोदिताः

॥७३॥

सर्वा एव चिदाकाशरूपिण्यो भूतजातयः ।

आतिवाहिकदेहिन्यः पृथ्व्यादिरहितात्मिकाः

॥७४॥

ताश्चिराभ्यासवशतस्त्वाधिभौतिकसंविदम् ।

प्राप्ता दीर्घानुभवनात्स्वप्नजाग्रद्दशामिव

॥७५॥

पिशाचाद्यास्तथा एते तथाभूताधिभौतिकाः ।

तिष्ठन्ति तुष्टमनसः स्वसंसारविहारिणः

॥७६॥

पश्यन्ति काश्चिदन्योन्यं ग्राम्या ग्राम्येयकानिव ।

स्वप्नैकलोकवास्तव्या इवैता भूतजातयः

॥७७॥

काश्चिद्वहुनरप्राप्तस्वप्ननिर्माणलोकवत् ।

नान्योन्यमपि पश्यन्ति नानासंस्थानसंस्थिताः

॥७८॥

स्थिता यथैता जगति पिशाचाद्याः कुजातयः ।

प्रायस्तथैताः कुम्भाण्डयक्षप्रेतादयः स्थिताः

॥७९॥

यथा यत्रेह वै निम्ना जलं तत्रावतिष्ठते ।

तथा यत्र पिशाचाद्यास्तमस्तत्रावतिष्ठते

॥८०॥

मध्याह्नेपि पिशाचश्चेदजिरे तिष्ठति स्वयम् ।

तत्तस्यान्धं तमस्तत्र संनिधानं करोत्यलम्

॥८१॥

न निहन्ति च तद्भानुर्न चान्यस्तत्प्रपश्यति ।

स एव चानुभवति पश्य मायाविजृम्भितम्

॥८२॥

अग्नेरादित्यचन्द्रादेस्तैजसं मण्डलं यथा ।

पिशाचादेरजन्यात्म तामसं मण्डलं तथा

॥८३॥

याति तेजस्यनोजस्त्वं तमस्योजःप्रधानताम् ।

उलूकवत्पिशाचाद्या आश्चर्यं तत्स्वभावतः

॥८४॥

एषा पिशाचाजनितस्य जातिः

प्रोक्ता मया ते समयानपेता ।

पिशाचतुल्यः सुरलोकपाल-

लोकेषु जातोऽहमिति प्रसङ्गात्

॥८५॥

इत्यार्षे श्रीवा० वा० दे० मोक्षो० नि० उ० पा० पिशाचवर्णनप्रसङ्गेन जगद्ब्रह्मणोरैक्यप्रतिपादनं नाम चतुर्नवतितमः सर्गः ।। ९४ ।।