मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ६३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 63

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

स कदाचिद्ददर्शाथ रुद्रं रुद्रपुरे खगः ।

वैरिञ्चनलिनीनाललीलालाभेन लीलया

॥१॥

तत्र बुद्धिरभूत्तस्य रुद्रोऽहमिति निश्चिता ।

प्रतिबिम्बवदादर्शे द्रागित्येव हि बिम्बिता

॥२॥

रुद्रभूतवपुस्तत्र तनुं तत्याज तामसौ ।

गन्धः पवनतां गच्छन्कुसुमस्तबकं यथा

॥३॥

स रुद्रो रुद्रभवने विजहार यथेच्छया ।

तैस्तैः शिवपुराचारैर्गणकोटिगरिष्ठया

॥४॥

रुद्रस्त्वनुत्तमज्ञानविलासैकतया तया ।

स्वप्नशेषं च वृत्तान्तमपश्यत्प्राक्तनं धिया

॥५॥

निरावरणविज्ञानवपुः स भगवांस्तदा ।

उवाच स्वयमेकान्ते स्वस्वप्नशतविस्मितः

॥६॥

अहो तु चित्रा मायेयं तता विश्वविमोहिनी ।

असत्यैवापि सद्रूपा मरुभूमिषु वारिवत्

॥७॥

इति प्रथममाज्ञातं चिद्योऽहं चित्ततां गतः ।

सर्वसंपन्नसर्वज्ञगगनादिविभावनात्

॥८॥

यदृच्छया स्थितो जीवो भूततन्मात्ररञ्जितः ।

कस्मिंश्चिदभवत्सर्गे भिक्षुरक्षुभितोऽभितः

॥९॥

तेनावयवबन्धेन बहिः स्वैरविहारिणी ।

लीलाऽविलुलिताकारा यदा रम्येति भावतः

॥१०॥

सर्वभावोपमर्देन तदभ्यासवशात्तदा ।

तामेव सोऽन्वभूद्भिक्षुस्त्यक्त्वान्यं मननोदयम्

॥११॥

चमत्कृतिश्चेतसि या रूढा सैव विजृम्भते ।

वल्ली त्यजति नैदाघी पीतमप्यम्बु माधवम्

॥१२॥

स भिक्षुर्जीवटो भूत्वा जन्तुर्जरठवासनः ।

तेषु देहेषु बभ्राम रन्ध्रेष्विव पिपीलिका

॥१३॥

आत्मनि द्विजभक्तत्वात्सोऽपश्यद्द्विजतामथ ।

भावाभावविपर्यासे बलवानेव वर्धते

॥१४॥

सामन्ततामवापासौ विप्रः संततचिन्तिताम् ।

सातत्येन रसः पतिः फलतामेति पादपे

॥१॥

राज्यार्थं धर्मकार्याणां कर्तृत्वात्सोऽभवन्नृपः ।

सकामुकतया राजा सुरस्त्रीत्वमवाप ह

॥१६॥

लोला लोचनलोभेन सा मृगी रसशालिनी ।

बभूव वासनामोहश्चाहो दुःखाय जन्तुषु

॥१७॥

मृगी सा बत चित्तस्था बभूव विपिने लता ।

अवश्यंभावि लवनं लतिकाऽनुबभूव ह

॥१८॥

अन्तःसंज्ञाचिराभ्यस्तं भ्रमरत्वमथात्मनि ।

साऽपश्यत्सावमर्देन तदा तद्भावभाविता

॥१९॥

सवारणखुरक्षोदमनुभूयाथ भावितम् ।

भूयोभूयः प्रबभ्राम महासंसृतिसंभ्रमान्

॥२०॥

संसारशतपर्यन्ते रुद्रः सोऽहमहं स्थितः ।

अस्मिन्संसारसंरम्भे स्वमनोमात्रसंभ्रमे

॥२१॥

एवमत्यन्तचित्रासु संसारारण्यभूमिषु ।

बह्वीष्वहमतिभ्रान्तस्त्वशून्यास्विव भूरिशः

॥२२॥

कस्मिंश्चिदभवं सर्गे त्वहं जीवटनामकः ।

कस्मिंश्चिद्ब्राह्मणश्रेष्ठः कस्मिंश्चिद्वसुधाधिपः

॥२३॥

हंसः पद्मवने भूत्वा विन्ध्यकच्छे च वारणः ।

हरिणो देहयन्त्रादौ दशामहमिमां गतः

॥२४॥

अत्र वर्षसहस्राणि चतुर्युगशतानि च ।

समतीतान्यनन्तानि दिनर्तुचरितानि च

॥२५॥

मम प्रथममेव प्राक्चलितस्य परात्पदात् ।

तत्त्वज्ञानितया रूढो भिक्षुत्वे योग्यताक्रमः

॥२६॥

भूयोभूयोऽप्यतिक्रम्य गतश्च ब्रह्महंसताम् ।

स एव प्राक्तनोऽभ्यासः फलितः संगमोदयात्

॥२७॥

दृढाभ्यासो य एवास्य जीवस्योदेत्यविघ्नतः ।

सोऽत्यन्तमरसेनापि तमेवाश्वनुधावति

॥२८॥

काकतालीययोगेन कदाचित्साधुसंगमात् ।

अशुभो भावनाभ्यासो जीवस्य विनिवर्तते

॥२९॥

संगत्यधिगतं चैष केवलं स्वोदयं प्रति ।

प्राक्तनो वासनाभ्यासो हातुरुद्यममीक्षते

॥३०॥

यच्चेहाभ्यस्यतेऽजस्रं यच्च देहान्तरेऽपि च ।

जाग्रत्स्वप्नेष्वसदपि तत्सदित्यनुभूयते

॥३१॥

तत्तदर्थक्रियाकारि दुःखाय च सुखाय च ।

उदेति भावनं तस्माद्भावनाभावनं जयः

॥३२॥

भावनैव स्वमात्मानं देहोऽयमिति पश्यति ।

असत्तामात्रविस्तारं गुल्मकत्वमिवाङ्कुरः

॥३३॥

भावना प्रेक्ष्यमाणैषा न किंचिदिह शिष्यते ।

न च विद्यत एवेति तद्भ्रमेणालमस्तु नः

॥३४॥

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।

असंवेदनमात्रैकं मार्जनायालमस्तु नः

॥३५॥

असन्मयीस्वरूपैषा परं सत्तैव लालनी ।

वर्तते चेद्विनोदाय किंचित्सा न करिष्यति

॥३६॥

तत्तान्सर्वान्स्वसंसारानुत्थायालोकयाम्यहम् ।

सम्यगालोकदानेन तेभ्य एकीकरोम्यहम्

॥३७॥

इति संचिन्त्य रुद्रोऽसौ तं सर्गं प्रजगाम ह ।

यत्र भिक्षुर्विहारस्थः सुप्तः शव इव स्थितः

॥३८॥

बोधयित्वाथ तं भिक्षुं चेतसा चेतनेन च ।

योजयामास सस्मार भिक्षुरप्यात्मनो भ्रमम्

॥३९॥

रुद्रमात्मानमालोक्य जीवटादिमयं तथा ।

बोधादविस्मयार्होऽपि स भिक्षुर्विस्मयं ययौ

॥४०॥

अथ रुद्रस्तथा भिक्षुर्द्वावेवोत्थाय जग्मतुः ।

क्वापि जीवटसंसारं चिदाकाशैककोणगम्

॥४१॥

तत्र तद्भवनं गत्वा तद्द्वीपं तच्च मण्डलम् ।

विषयं तत्पुरं तच्च तं च पाणावसिग्रहम्

॥५॥

सुप्तं ददृशतुर्नष्टसंज्ञं जीवटकं शवम् ।

स्थापयित्वा वपुर्भावं प्रभान्तं भवभूमिषु

॥४३॥

तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।

एकरूपास्त्रिरूपास्ते रुद्रजीवटभिक्षुकाः

॥४४॥

बोधवन्तोऽप्यबुद्धाभा विस्मिता अप्यविस्मिताः ।

बभुस्तूष्णींस्थिताश्चित्रकृताकारा इव क्षणम्

॥४५॥

अथ जग्मुश्च ते सर्वे क्वचिद्व्योमनि संस्थितम् ।

विप्रसंसारमारब्धं परिभूतसघुंघुमम्

॥४६॥

ते तत्र भुवनं गत्वा तद्वीपं तच्च मण्डलम् ।

विषयं तच्च तं ग्रामं प्रापुस्तं ब्राह्मणालयम्

॥४७॥

विप्रं ते ददृशुः सुप्तं कलत्रवलितं गृहे ।

कण्ठे गृहीतं ब्राह्मण्या बहिर्जीवमिव स्थितम्

॥४८॥

तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।

तत्स्थास्ते बहवोऽप्यन्ये सविस्मयविविस्मयाः

॥४९॥

अथ जग्मुश्चिदाकाशकचितं चेतितं चितेः ।

सामन्तं नृपसंसारं भ्रमणाभोगसुन्दरम्

॥५०॥

ततस्ते भुवनं प्राप्तास्तद्द्वीपं तच्च मण्डलम् ।

सामन्तं ददृशुर्मत्तं सुप्तं पर्यङ्कपङ्कजे

॥५१॥

हेमावदातं हेमांग्या निहितं कुचकोटरे ।

भ्रमर्येवान्वितं पद्मकोशसुप्तं मधुव्रतम्

॥५२॥

कान्ताभिरभ्यावलितं मञ्जरीभिरिव द्रुमम् ।

दीपजालकमध्यस्थं रत्नौघ इव काञ्चनम्

॥५३॥

तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।

तत्स्थास्ते बहवोऽप्येके सविस्मयविविस्मयाः

॥५४॥

अथ ते राजसंसारं जग्मुस्तत्र विबोध्य तम् ।

चेतसैवमथान्यासु भ्रेमुः संसारभूमिषु

॥५५॥

प्राप्य तां ब्रह्महंसेहां रुद्रतां सर्व एव ते ।

समाजग्मुर्विरेजुश्च रुद्राणामुत्तमं शतम्

॥५६॥

एकसंविद्भिन्नतनु चित्रचेष्टितवेष्टितम् ।

एकरूपमनेकाभं रूपं तत्पारमेश्वरम्

॥५७॥

रुद्राणां तच्छतमथ निरावरणचिन्मयम् ।

सर्वसंसारसंबन्धि स्थितं सर्वजगत्स्थितम्

॥५८॥

शतरुद्रशतानीह सन्ति राम महान्ति हि ।

एतदेकादशं विद्धि संसारं प्रतिसंस्थितम्

॥५९॥

यो योऽभितः स जीवस्य संसारः समुदेति हि ।

तत्राप्रबुद्धा जीवौघाः पश्यन्ति न परस्परम्

॥६०॥

मिलन्ति हि मनोबुद्धास्तरङ्गा इव वारिधौ ।

अप्रबुद्धास्तु तन्मात्रनिष्ठा लोष्टवदास्थिताः

॥६१॥

यथा द्रवत्वाद्वीच्यम्बु त्वन्योन्यं संमिलत्यलम् ।

तथा प्रबुद्धा जीवौघा मिथश्चित्त्वान्मिलन्त्यलम्

॥६२॥

प्रत्येकमुदिते चैते संसारे जीवराशयः ।

चिद्धातोः सर्वगत्वेन त्वसत्याः सत्यवत्स्थिताः

॥६३॥

यद्यदाखन्यते भूमेस्तत्तन्नाम यथा नभः ।

सर्वगायाश्चितेर्यद्यदुह्यते तत्तथैव चित्

॥६४॥

सर्वप्रपञ्चभूतानि यथानुभवसीह हि ।

तथेह सर्वभूतात्म चित्त्वं सर्वत्र विद्यते

॥६५॥

यच्छालभञ्जिका वृक्षे शैले श्वभ्रे गतेऽन्तकम् ।

प्रेक्ष्यते तद्वदेकात्मा तथा चिति जगत्स्थितम्

॥६६॥

अवेदने परे शुद्धे वेदनं यज्जगत्स्थितम् ।

अकारणमचैतन्यं शून्यत्वेन यथा नभः

॥६७॥

विद्यते वेदनं दृश्यबन्धो मोक्षस्त्ववेदनम् ।

यदेव रुचिरं ते स्यात्तदेवाशु दृढीकुरु

॥६८॥

सर्गासर्गौ बन्धमोक्षौ वेदनावेदनात्मकौ ।

अभिन्नौ बोधनाच्चोभौ यथेच्छसि तथा कुरु

॥६९॥

असंवित्तेस्तु यन्नास्ति तन्नाशे का कदर्थना ।

तूष्णींभावेन यत्प्राप्यं प्राप्तमेवाशु विद्धि तत्

॥७०॥

यद्वै वेदनमात्रात्म तदंगावेदनक्षयम् ।

तद्वेदनं वेदनाया यदिष्टं तत्समाचरेत्

॥७१॥

वीचिर्यथाम्भसः स्पन्दो जगच्चैव तथा चितौ ।

एतावन्मात्र एवात्र भेदो यद्रघुनन्दन

॥७२॥

देशकालस्वरूपेषु सत्सु वीच्यादिताम्भसि ।

जगदादौ तु देशाद्या असन्तो जगतीक्षिताः

॥७३॥

आभास्वरं त्रिजगदित्यतिभाति भास्व-

त्स्वं वेदनं विदनमेव चितेः स्वरूपम् ।

वाचि स्थितं भवति चैतदुपोह भेद-

क्लिष्टं प्रशान्तवचनस्तु शिवः परात्मा

॥७४॥

संवेदनं सर्वं इतीह शब्दा-

दर्थादभिन्नौ न कदाचिदेतौ ।

वीच्यम्भसी द्वे इति नोचितोक्ति-

यस्याज्ञतायां त्विदमेव युक्तम्

॥७५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० जीवटोपाख्याने स्वप्नशतरुद्रीयकथनं नाम त्रिषष्टितमः सर्गः ६३