मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — उपशमप्रकरणम् — सर्गः ७६

3
योगवासिष्ठम् · उपशमप्रकरणम् · 76

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

ब्रह्मणः समुपायान्ति जगन्तीमानि राघव ।

स्थैर्यं यान्त्यविवेकेन शाम्यन्त्येव विवेकतः

॥१॥

जगज्जालजलावर्तवृत्तयो ब्रह्मवारिधौ ।

संख्यातुं केन शक्यन्ते भासां च त्रसरेणवः

॥२॥

असम्यक्प्रेक्षणं विद्धि कारणं जगतः स्थितौ ।

संसारशान्तये कान्त कारणं सम्यगीक्षणम्

॥३॥

अयं हि परदुष्पारो घोरः संसारसागरः ।

विना युक्तिप्रयत्नाभ्यामस्माद्राम न तीर्यते

॥४॥

यस्यायं सागरः पूर्णो मोहाम्बुभरपूरितः ।

अगाधमरणावर्तकल्लोलाकुलकोटरः

॥५॥

प्रभ्रमत्पुण्यडिण्डीरो ज्वलन्नरकवाडवः ।

तृष्णाविलोललहरिर्मनोजलमतङ्गजः

॥६॥

आलीनजीवितसरिद्भोगरत्नसमुद्गकः ।

क्षुब्धरोगोरगाकीर्ण इन्द्रियग्राहघर्घरः

॥७॥

पश्यास्मिन्प्रसृता राम वीचयश्चारुचञ्चलाः ।

इमा मुग्धाङ्गनानाम्न्यः शिखराकर्षणक्षमाः

॥८॥

छदश्रीपद्मरागाढ्या नेत्रनीलोत्पलाकुलाः ।

दन्तपुष्पफलाकीर्णाः स्मितफेनोपशोभिताः

॥९॥

केशेन्द्रनीलवलया भ्रूविलासतरङ्गिताः ।

नितम्बपुलिनस्फीताः कण्ठकम्बुविभूषिताः

॥१०॥

ललाटमणिपट्टाढ्या विलासग्राहसंकुलाः ।

कटाक्षलोलगहना वर्णकाञ्चनवालुकाः

॥११॥

एवं विलोललहरीभीमात्संसारसागरात् ।

उत्तीर्यते चेन्मग्नेन तत्परं पौरुषं भवेत्

॥१२॥

सत्यां प्रज्ञामहानावि विवेके सति नाविके ।

संसारसागरादस्माद्यो न तीर्णो धिगस्तु तम्

॥१३॥

अपारावारमाक्रम्य प्रमेयीकृत्य सर्वतः ।

संसाराब्धिं गाहते यः स एव पुरुषः स्मृतः

॥१४॥

विचार्यार्यैः सहालोक्य धिया संसारसागरम् ।

एतस्मिंस्तदनु क्रीडा शोभते राम नान्यथा

॥१५॥

इह भव्यो भवान्साधो विचारपरया धिया ।

त्वयाधुनैव तेनायं संसारः प्रविचार्यते

॥१६॥

भवानिव विचार्यादौ संसारमतिकान्तया ।

मत्या यो गाहते लोको नेहासौ परिमज्जति

॥१७॥

पूर्वं धिया विचार्यैते भोगा भोगिभयप्रदाः ।

भोक्तव्याश्चरमं राम गरुडेनेव पन्नगाः

॥१८॥

विचार्य तत्त्वमालोक्य सेव्यन्ते या विभूतयः ।

ता उदर्कोदया जन्तोः शेषा दुःखाय केवलम्

॥१९॥

बलं बुद्धिश्च तेजश्च दृष्टतत्त्वस्य वर्धते ।

सवसन्तस्य वृक्षस्य सौन्दर्याद्या गुणा इव

॥२०॥

घनरसायनपूर्णसुशीतया

विमलया समया सततं श्रिया ।

शिशिररश्मिरिवातिविराजसे

विदितवेद्य सुखं रघुनन्दन

॥२१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे संसारसागरसाम्यप्रतिपादनं नाम षटसप्ततितमः सर्गः ।। ७६ ।।