मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — वैराग्यप्रकरणम् — सर्गः २७

3
योगवासिष्ठम् · वैराग्यप्रकरणम् · 27

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

अन्यच्च ताताऽतितरामरम्ये

मनोरमे चेह जगत्स्वरूपे ।

न किंचिदायाति तदर्थजातं

येनातिविश्रान्तिमुपैति चेतः

॥१॥

बाल्ये गते कल्पितकेलिलोले

मनोमृगे दारदरीषु जीर्णे ।

शरीरके जर्जरतां प्रयाते

विदूयते केवलमेव लोकः

॥२॥

जरातुषाराभिहतां शरीर-

सरोजिनीं दूरतरे विमुच्य ।

क्षणाद्गते जीवितचञ्चरीके

जनस्य संसारसरोऽवशुष्कम्

॥३॥

यदा यदा पाकमुपैति नूनं

तदा तदेयं रतिमातनोति ।

जराभराऽनल्पनवप्रसूना

विजर्जरा कायलता नराणाम्

॥४॥

तृष्णानदी सारतरप्रवाह-

ग्रस्ताखिलानन्तपदार्थजाता ।

तटस्थसंतोषसुवृक्षमूल-

निकाषदक्षा वहतीह लोके

॥५॥

शारीरनौश्चर्मनिबन्धबद्धा

भवाम्बुधावालुलिता भ्रमन्ती ।

प्रलोड्यते पञ्चभिरिन्द्रियाख्यै-

रधोभवन्ती मकरैरधीरा

॥६॥

तृष्णालताकाननचारिणोऽमी

शाखाशतं काममहीरुहेषु ।

परिभ्रमन्तः क्षपयन्ति कालं

मनोमृगा नो फलमाप्नुवन्ति

॥७॥

कृच्छ्रेषु दूरास्तविषादमोहाः

स्वास्थ्येषु नोत्सिक्तमनोभिरामाः ।

सुदुर्लभाः संप्रति सुन्दरीभिः

रनाहतान्तःकरणा महान्तः

॥८॥

तरन्ति मातङ्गघटातरङ्गं

रणाम्बुधिं ये मयि ते न शूराः ।

शूरास्त एवेह मनस्तरङ्गं

देहेन्द्रियाम्भोधिमिमं तरन्ति

॥९॥

अक्लिष्टपर्यन्तफलाभिरामा

न दृश्यते कस्यचिदेव काचित् ।

क्रियादुराशाहतचित्तवृत्ति-

र्यामेत्य विश्रान्तिमुपैति लोकः

॥१०॥

कीर्त्या जगद्दिक्कुहरं प्रतापैः

श्रिया गृहं सत्त्वबलेन लक्ष्मीम् ।

ये पूरयन्त्यक्षतधैर्यबन्धा

न ते जगत्यां सुलभा महान्तः

॥११॥

अप्यन्तरस्थं गिरिशैलभित्ते-

र्वज्रालयाभ्यन्तरसंस्थितं वा ।

सर्वं समायान्ति ससिद्धिवेगाः

सर्वाः श्रियः सन्ततमापदश्च

॥१२॥

पुत्राश्च दाराश्च धनं च बुद्ध्या

प्रकल्प्यते तात रसायनाभम् ।

सर्वं तु तन्नोपकरोत्यथान्ते

यत्रातिरम्या विषमूर्च्छनैव

॥१३॥

विषादयुक्तो विषमामवस्था

मुपागतः कायवयोवसाने ।

भावान्स्मरन्स्वानिह धर्मरिक्तान्

जन्तुर्जरावानिह दह्यतेऽन्तः

॥१४॥

कामार्थधर्माप्तिकृतान्तराभिः

क्रियाभिरादौ दिवसानि नीत्वा ।

चेतश्चलद्बर्हिणपिच्छलोलं

विश्रान्तिमागच्छतु केन पुंसः

॥१५॥

पुरोगतैरप्यनवाप्तरूपै-

स्तरङ्गिणीतुङ्गतरङ्गकल्पैः ।

क्रियाफलैर्दैववशादुपेतै-

र्विडम्ब्यते भिन्नरुचिर्हि लोकः

॥१६॥

इमान्यमूनीहि विभावितानि

कार्याण्यपर्यन्तमनोरमाणि ।

जनस्य जायाजनरञ्जनेन

जवाज्जरान्तं जरयन्ति चेतः

॥१७॥

पर्णानि जीर्णानि यथा तरूणां

समेत्य जन्माशु लयं प्रयान्ति ।

तथैव लोकाः स्वविवेकहीनाः

समेत्य गच्छन्ति कुतोऽप्यहोभिः

॥१८॥

इतस्ततो दूरतरं विहृत्य

प्रविश्य गेहं दिवसावसाने ।

विवेकिलोकाश्रयसाधुकर्म

रिक्तेऽह्नि रात्रौ क उपैति निद्राम्

॥१९॥

विद्राविते शत्रुजने समस्ते

समागतायामभितश्च लक्ष्म्याम् ।

सेव्यन्त एतानि सुखानि याव-

त्तावत्समायाति कुतोऽपि मृत्युः

॥२०॥

कुतोऽपि संवर्धिततुच्छरूपै-

र्भावैरमीभिः क्षणनष्टदृष्टैः ।

विलोड्यमाना जनता जगत्यां

नवेत्युपायातमहो न पातम्

॥२१॥

प्रियासुभिः कालमुखं क्रियन्ते

जनैडकास्ते हतकर्मबद्धाः ।

यैः पीनतामेव बलादुपेत्य

शरीरबाधेन न ते भवन्ति

॥२२॥

अजस्रमागच्छति सत्वरैव-

मनारतं गच्छति सत्वरैव ।

कुतोऽपि लोला जनता जगत्यां

तरङ्गमाला क्षणभङ्गुरेव

॥२३॥

प्राणापहारैकपरा नराणां

मनो मनोहारितया हरन्ति ।

रक्तच्छदाश्चञ्चलषट्पदाक्ष्यो

विषद्रुमालोललताः स्त्रियश्च

॥२४॥

इतोऽन्यतश्चोपगता मुधैव

समानसंकेतनिबद्धभावा ।

यात्रासमासंगसमा नराणां

कलत्रमित्रव्यवहारमाया

॥२५॥

प्रदीपशान्तिष्विव भुक्तभूरि-

दशास्वतिस्नेहनिबन्धनीषु ।

संसारमालासु चलाचलासु

न ज्ञायते तत्त्वमतात्त्विकीषु

॥२६॥

संसारसंरम्भकुचक्रिकेयं

प्रावृट्पयोबुद्बुदभङ्गुरपि ।

असावधानस्य जनस्य बुद्धौ

चिरस्थिरप्रत्ययमातनोति

॥२७॥

शोभोज्ज्वला दैववशाद्विनष्टा

गुणाः स्थिताः संप्रति जर्जरत्वे ।

आश्वासनादूरतरं प्रयाता

जनस्य हेमन्त इवाम्बुजस्य

॥२८॥

पुनःपुनर्दैववशादुपेत्य

स्वदेहभारेण कृतोपकारः ।

विलूयते यत्र तरुः कुठारै-

राश्वासने तत्र हि कः प्रसङ्गः

॥२९॥

मनोरमस्याप्यतिदोषवृत्ते-

रन्तर्विंघाताय समुत्थितस्य ।

विषद्रुमस्येव जनस्य सङ्गा-

दासाद्यते संप्रति मूर्च्छनैव

॥३०॥

कास्ता दृशो यासु न सन्ति दोषाः

कास्ता दिशो यासु न दुःखदाहः ।

कास्ताः प्रजा यासु न भङ्गुरत्वं

कास्ताः क्रिया यासु न नाम माया

॥३१॥

कल्पाभिधानक्षणजीविनो हि

कल्पौघसंख्याकलने विरिञ्चयाः ।

अतः कलाशालिनि कालजाले

लघुत्वदीर्घत्वधियोऽप्यसत्याः

॥३२॥

सर्वत्र पाषाणमया महीध्रा

मृदा मही दारुभिरेव वृक्षाः ।

मांसैर्जनाः पौरुषबद्धभावा

नापूर्वमस्तीह विकारहीनम्

॥३३॥

आलोक्यते चेतनयाऽनुविद्धा

पयोनुबद्धोऽस्तनयो नभः स्थाः ।

पृथग्विभागेन पदार्थलक्ष्म्या

एतज्जगन्नेतरदस्ति किंचित्

॥३४॥

चमत्कृतिश्चेह मनस्विलोक-

चेतश्चमत्कारकरी नराणाम् ।

स्वप्नेऽपि साधो विषयं कदाचि-

त्केषांचिदभ्येति न चित्ररूपा

॥३५॥

अद्यापि यातेऽपि च कल्पनाया

आकाशवल्लीफलवन्महत्त्वे ।

उदेति नो लोभलवाहताना-

मुदारवृत्तान्तमयी कथैव

॥३६॥

आदातुमिच्छन्पदमुत्तमानां

स्वचेतसैवापहतोऽद्य लोकः ।

पतत्यशङ्कं पशुरद्रिकूटा-

दानीलवल्लीफलवाञ्छयैव

॥३७॥

अवान्तरन्यस्तनिरर्थकांश-

च्छायालतापत्रफलप्रसूनाः ।

शरीर एव क्षतसंपदश्च

श्वभ्रद्रुमा अद्यतना नराश्च

॥३८॥

क्वचिज्जना मार्दवसुन्दरेषु

क्वचित्कठोरेषु च संचरन्ति ।

देशान्तरालेषु निरन्तरेषु

वनान्तखण्डेष्विव कृष्णसाराः

॥३९॥

धातुर्नवानि दिवसं प्रति भीषणानि

रम्याणि वा विलुलितान्ततमाकुलानि ।

कार्याणि कष्टफलपाकहतोदयानि

विस्मापयन्ति न शवस्य मनांसि केषाम्

॥४०॥

जनः कामासक्तो विविधकुकलाचेष्टनपरः

स तु स्वप्नेऽप्यस्मिञ्जगति सुलभो नाद्य सुजनः ।

क्रिया दुःखासङ्गाऽविधुरविधुरा नूनमखिला

न जाने नेतव्या कथमिव दशा जीवितमयी

॥४१॥