मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः १८१

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 181

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

कुन्ददन्त उवाच ।

आवासमन्तरे गन्तुं प्रवृत्तौ मुदिताकृती ।

मथुरानगरीं चन्द्रसूर्याविन्द्रपुरीमिव

॥१॥

प्राप्य रोधाभिधं ग्रामं विश्रम्याम्रवणाचले ।

उषितौ द्वे दिने तस्मिन्सालीसे नगरे सुखम्

॥२॥

अध्वानन्दितचित्ताभ्यामावाभ्यामतिवाहितः ।

द्वितीयेऽहनि शीताम्बुस्निग्धच्छायावनद्रुमाः

॥३॥

नदीतीरलतोन्मुक्तपुष्पप्रकरपाण्डुराः ।

तरत्तरङ्गझांकारगायनानन्दिताध्वगाः

॥४॥

स्निग्धद्रुमवनच्छायरणन्मृगविहंगमाः ।

स्थूलशाद्वलशाखाग्रप्रोतावश्यायमौक्तिकाः

॥३॥

जङ्गलाद्रिपुरग्रामश्वभ्रानूपस्थलावनीः ।

समुल्लङ्घ्य दिने तस्मिन्सरित्स्रोतः सरांसि च

॥६॥

नीतवन्तौ निशामावां कदलीकानने घने ।

तुषारशिशिरे श्रान्तौ कदलीदलतल्पके

॥७॥

प्राप्तावावां तृतीयेऽह्नि षण्डषण्डकमण्डितम् ।

जङ्गलं जनविच्छेदविभक्तं खमिवाकृतम्

॥८॥

तत्र स प्रकृतं मार्ग परित्यज्य वनान्तरम् ।

प्रविशन्समुवाचेदमकार्यकरणं वचः

॥९॥

गच्छावोऽत्राश्रभे गौर्या मुनिमण्डलमण्डिते ।

भ्रातरो मे स्थिताः सप्त वनेष्वेवमिवार्थिनः

॥१०॥

भ्रातरोऽष्टौ वयमिमे जातानेकतया तया ।

एकसंविन्मया जाता एकसंकल्पनिश्चयाः

॥११॥

तेन तेऽप्यत्र तपसे स्वनिश्चयसमाश्रयाः ।

स्थिता आगत्य विविधैस्तपोभिः क्षपितैनसः

॥१२॥

तैः सार्धं भ्रातृभिः पूर्वमागत्याहमिहावसम् ।

षण्मासानाश्रमे गौर्यास्तेन दृष्टो मयैष सः

॥१३॥

पुष्पखण्डतरुच्छायासुप्तमुग्धमृगार्भकः ।

पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक्

॥१४॥

तद्ब्रह्मलोकसंकाशमेहि मुन्याश्रमं श्रिये ।

गच्छावोऽच्छतरं तत्र चेतः पुण्यैर्भविष्यति

॥१५॥

विदुषामपि धीराणामपि तत्त्वविदामपि ।

त्वरते हि मनः पुंसामलंबुद्धिविलोकने

॥१६॥

तेनेत्युक्ते च तावावां प्राप्तो मुन्याश्रमं च तम् ।

यावत्तत्र महारण्ये पश्यावश्चान्तरूपिणम्

॥१७॥

न वृक्षं नोटजं किंचिन्न गुल्मं न च मानवम् ।

न मुनिं नार्भकं नान्यन्न वेदिं न च वा द्विजम्

॥१८॥

केवलं शून्यमेवाति तदरण्यमनन्तकम् ।

तापोपतप्तमभितो भूमौ स्थितमिवाम्बरम्

॥१९॥

हा कष्टं किमिदं जातमिति तस्मिन्वदत्यथ ।

आवाभ्यां सुचिरं भ्रान्त्वा दृष्ट एकत्र वृक्षकः

॥२०॥

स्निग्धच्छविर्घनच्छायः शीतलोऽम्बुधरोपमः ।

तले तस्य समाधाने संस्थितो वृद्धतापसः

॥२१॥

आवामग्रे मुनेस्तस्य च्छायायां शाद्वलस्थले ।

उपविष्टौ चिरं यावन्नासौ ध्यानान्निवर्तसे

॥२२॥

ततश्चिरेण कालेन मयोद्वेगेन चापलात् ।

उक्तं मुने प्रबुध्यस्व ध्यानादित्युच्चकैर्वचः

॥२३॥

शब्देनोच्चैर्मदीयेन संप्रबुद्धोऽभवन्मुनिः ।

सिंहोऽम्बुदरवेणेव जृम्भां कृत्वाभ्युवाच च

॥२४॥

कौ भवन्ताविमौ साधू क्वासौ गौर्याश्रमो गतः ।

केन वाहमिहानीतः कालोऽयं कश्च वर्तते

॥२५॥

तेनेत्युक्ते मयाप्युक्तं भगवन्विद्धि ईदृशम् ।

न किंचिदावां बुद्धोऽपि कस्माज्जानासि न स्वयम्

॥२६॥

इति श्रुत्वा स भगवान्पुनर्ध्यानमयोऽभवत् ।

ददर्शोदन्तमखिलमस्माकं स्वात्मनस्तथा

॥२७॥

मुहूर्तमात्रेणोवाच प्रबुध्य ध्यानतो मुनिः ।

श्रूयतामिदमाश्चर्यमार्यौ हि कार्यवेदिनौ

॥२८॥

यमिमे पश्यथः साधू कदम्बतरुपुत्रकम् ।

मदास्पदमरण्यान्या धम्मिल्लमिव पुष्पितम्

॥२९॥

केनापि कारणेनास्मिन्सती वागीश्वरी सती ।

अवसद्दशवर्षाणि समस्तर्तुनिषेविता

॥३०॥

तदा तेनेह विस्तीर्णमभवद्धनकाननम् ।

गौरीवनमिति ख्यातं भूषितं कुसुमर्तुभिः

॥३०॥

भृङ्गाङ्गनाजनमनोहरहारिगीत-

लीलाविलोलकलकण्ठविहंगमङ्ग ।

पुष्पाम्बुवाहशतचन्द्रनभोवितानं

राजीवरेणुकणकीर्णदिगन्तरालम्

॥३॥

मन्दारकुन्दमकरन्दसुगन्धिताशं

संसूच्छ्वसत्कुसुमराशिशशाङ्कनिष्ठम् ।

संतानकस्तवकहासविकासकान्त-

मामोदिमारुतसमस्तलताङ्गनौघम्

॥३३॥

पुष्पाकरस्य नगरं नवगीतभृङ्गं

भृङ्गाङ्गनाकुसुमखण्डकमण्डपाढ्यम् ।

चन्द्रांशुजालपरिकोमलपुष्पदोला-

दोलायमानसुरसिद्धवधूसमूहम्

॥३४॥

हारीतहंसशुककोकिलकोककाक-

चक्राह्वभासकलविङ्ककुलाकुलाङ्गम् ।

भेरुण्डकुक्कुटकपिञ्जलहेमचूड-

राढामयूरबककल्पितकेलिरम्यम्

॥३५॥

गन्धर्वयक्षसुरसिद्धकिरीटघृष्ट-

पादाजकर्णिककदम्वसरस्वतीकम् ।

वातायनं कनककोमलचम्पकौघ-

ताराम्बराम्बुधरपूरगृहीतगन्धम्

॥३६॥

मन्दानिलस्खलितपल्लववालवल्ली-

विन्यासगुप्तदिवसाधिपरश्मिशीतम् ।

पीतं कदम्बकरवीरकनालिकेर-

तालीतमालकुलपुष्पपरागपूरैः

॥३७॥

कह्लारकीर्णकुमुदोत्पलपद्मखण्ड-

वल्गच्चकोरबककोककदम्बहंसम् ।

तालीसगुग्गुलकचन्दनपारिभद्र-

भद्रद्रुमोदरविहारिविचित्रशक्ति

॥३८॥

तस्मिन्वने चिरमुवास हरार्धदेहा

केनापि कारणवशेन चिराय गौरी ।

भूत्वा प्रसन्नशशिबिम्बमुखी कदम्ब-

वागीश्वरी शशिकलेव शिवस्य मूर्ध्नि

॥३९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु तापसोपा० गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः सर्गः ।।१८१ ।।