मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — उत्तरार्धम् — सर्गः २२

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — उत्तरार्धम् · 22

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

ज्ञानेन ज्ञेयनिष्ठत्वाद्योऽचित्तं चित्तमेव च ।

न बुध्यते कर्मफलं स ज्ञानीत्यभिधीयते

॥१॥

ज्ञात्वा सम्यगनुज्ञानं दृश्यते येन कर्मसु ।

निर्वासनात्मकं ज्ञस्य स ज्ञानीत्यभिधीयते

॥२॥

अन्तःशीतलतेहासु प्राज्ञैर्यस्यावलोक्यते ।

अकृत्रिमैकशान्तस्य स ज्ञानीत्यभिधीयते

॥३॥

अपुनर्जन्मने यः स्याद्बोधः स ज्ञानशब्दभाक् ।

वसनाशनदा शेषा व्यवस्था शिल्पजीविका

॥४॥

प्रवाहपतिते कार्ये कामसंकल्पवर्जितः ।

तिष्ठत्याकाशहृदयो यः स पण्डित उच्यते

॥५॥

अकारणं प्रवर्तन्त इव भावा अकारणात् ।

अविद्यमाना अप्येतेऽविद्यमाना इव स्थिताः

॥६॥

आविर्भावतिरोभावैर्भावाभावभवाभवैः ।

पश्चात्कारणतां यान्ति मिथः कारणकर्मभिः

॥७॥

असतः शशश्रृङ्गादेर्मृगतृष्णाम्भसो यथा ।

आलोकनादलभ्यस्य कीदृक् स्यात्किल कारणम्

॥८॥

असतः शशश्रृङ्गादेः कारणं मार्गयन्ति ये ।

वन्ध्यापुत्रस्य पौत्रस्य स्कन्धमासादयन्ति ते

॥९॥

असत्यप्रतिभासानामेतदेवाशु कारणम् ।

यदनालोकनं नाम समालोकक्षणक्षयम्

॥१०॥

परमात्मायते जीवो बुध्यमानस्त्वचेतनम् ।

चेतनं बुध्यमानस्तु जीव एवावतिष्ठते

॥११॥

परमात्मैव जीवोऽयं बुध्यमानस्त्वचेतनम् ।

आम्र एव रसापत्तेः प्रयाति सहकारताम्

॥१२॥

चेतनं बुध्यमानस्तु जीव एवावतिष्ठते ।

जीवो जीवितजीर्णेषु जातिजन्मसु जर्जरः

॥१३॥

ये परां दृष्टिमायाता विधि तेषामपामिव ।

अरूपालोकमननं स्पन्दमस्पन्दनं सदा

॥१४॥

ये परां दृष्टिमायाता दृश्यश्रीपारदर्शिनः ।

न विद्यमानमप्यस्ति तेषां वेदनमाततम्

॥१५॥

ये परां दृष्टिमायाता विद्धि तेषामपामिव ।

स्पन्दमस्पन्दनं सर्वमवेदनवशादिह

॥१६॥

अरूपालोकमननवेष्टिता मुक्तदामवत् ।

बुधाः कर्मसु चेष्टन्ते वृक्षपत्रेष्विवानिलः

॥१७॥

ये परां दृष्टिमायाताः संसृतेः पारदर्शिनः ।

न ते कर्म प्रशंसन्ति कूपं नद्यां वसन्निव

॥१८॥

ये बद्धवासना मूढाः कर्म शंसन्ति तेऽनघ ।

श्रुतिस्मृत्युचितं तेन विनाबोधं प्रयान्ति ते

॥१९॥

इन्द्रियाणि पतन्त्यर्थं भ्रष्टं गृध्र इवामिषम् ।

तानि संयम्य मनसा युक्त आसीत तत्परः

॥२०॥

नासन्निवेशं हेमास्ति नासर्गं ब्रह्म विद्यते ।

किंतु सर्गादिशब्दार्थमुक्तं युक्तमतेः शिवम्

॥२१॥

एकान्धकारे संपन्ने व्यवहारो युगक्षये ।

निर्विभागो निराभासो यथा ब्रह्मघने तथा

॥२२॥

अभ्रोदरे भ्रमाङ्गानां स्पन्दास्पन्दमयी यथा ।

स्वसंविदात्मिका सत्ता भूतानामीश्वरी तथा

॥२३॥

जलस्यान्तर्जलांशानां द्वैताद्वैतमयो यथा ।

स्वसंविदात्मा सुस्पन्दस्तथा ब्रह्मणि भूतदृक्

॥२४॥

यथाम्बरेऽम्बरांशानां द्वैताद्वैतकृतात्मनि ।

अनन्या सृष्टिराभाति तथानवयवे शिवे

॥२५॥

जगतोऽन्तरहंरूपमहंरूपान्तरे जगत् ।

स्थितमन्योन्यवलितं कदलीदलपीठवत्

॥२६॥

रूपालोकमनस्कारै रन्ध्रैर्बहिरिव स्थितम् ।

सृष्टिं पश्यति जीवोऽन्तः सरसीमिव पर्वतः

॥२७॥

जीवो जगत्तयात्मानं पश्यत्ययमकारणम् ।

हेमेव कटकादित्वं तदपश्यन्न पश्यति

॥२८॥

जीवन्तोऽपि न जीवन्ति म्रियन्ते न मृता अपि ।

सन्तोपि च न सन्तीव पारावारविदः शुभाः

॥२९॥

प्रबुद्धः सर्वकर्माणि कुर्वन्नपि न पश्यति ।

गृहकर्माणि गेहस्थो गोष्ठभाण्डमना इव

॥३०॥

विराड् हृदि यथा चन्द्रः प्रतिदेहं यथा स्थितः ।

जीवो हिमकणाकारः स्थूले स्थूलो लघौ लघुः

॥३१॥

अहमात्मा त्रिकोणत्वमुपगच्छति कल्पनम् ।

असदेव सदाभासं मन्यते चेतनाद्वपुः

॥३२॥

कर्मकोशे त्रिकोणे च शुक्रसारेऽवतिष्ठते ।

देहे जीवोहमित्यात्मा स्वामोदः कुसुमे यथा

॥३३॥

अहमित्येव शुक्रस्था संविदापादमस्तकम् ।

विसरत्यखिले ज्योत्स्ना यथा ब्रह्माण्डमण्डपे

॥३४॥

अक्षरन्ध्रप्रणालेन विसृतं वेदनोदकम् ।

व्याप्नोति त्रिजगद्धूमो वियन्मेघतया यथा

॥३५॥

देहे यद्यप्यशेषेऽस्मिन्बहिरन्तश्च वेदनम् ।

विद्यते तत्तथाप्यत्र शुक्रेऽस्ति घनवासना

॥३६॥

जीवः संकल्पमात्रात्मा यत्संकल्पोऽवतिष्ठते ।

हृदि भूत्वा स एवाशु बहिः प्रसरति स्फुटम्

॥३७॥

यथास्थितां च निश्चित्तां वर्जयित्वा स्थिरोपमाम् ।

न कयाचिदपि स्थित्या शाम्यत्यहमिति भ्रमः

॥३८॥

चिन्तानुचिन्त्यमानापि भावनीयाम्बरोपमा ।

अहंभावोपशमने शमनेन क्रमेण ते

॥३९॥

तज्ज्ञा व्यवहरन्तीह भाव्यभावनवर्जितम् ।

अरूपालोकमननं मौनं दारुनरा इव

॥४०॥

अकिंचिद्भावनो यः स्यात्स मुक्त इति कथ्यते ।

जीवन्नाकाशविशदो बन्धशून्य इव स्फुटम्

॥४१॥

अहमित्येव शुक्रस्था संविदापादमस्तकम् ।

विसरत्यखिले देहे ब्रह्माण्डेऽर्कप्रभा यथा

॥४२॥

दृङनेत्रं स्वदनं जिह्वा श्रुतिः श्रोत्रं भवत्यसौ ।

इत्याद्या वासनाः पञ्च बद्ध्वा तासु निमज्जति

॥४३॥

चिद्भावोऽक्षतयोदेति मनो भूत्वैकदेशतः ।

सर्वगोऽपि रसो भूमौ यथाङ्कुरतया मधौ

॥४४॥

यो भावयति भावेषु नेह रूढेष्वभावताम् ।

तस्यायत्नवतो दुःखमनन्तं नोपशाम्यति

॥४५॥

येन केनचिदाच्छन्नो येन केनचिदाशितः ।

यत्र क्वचनशायीह स सम्राडिव राजते

॥४६॥

वासनाभिरुपेतोऽपि समग्राभिरवासनः ।

अन्तःशून्योऽप्यशून्यात्मा खमिव श्वसनान्वितः

॥४७॥

आसने शयने याने स्थितो यत्नेन बोध्यते ।

निद्रालुरिव निर्वाणमनोमनननिर्वृतः

॥४८॥

संविन्मात्रं हि पुरुषः सर्वगोऽपि स तिष्ठति ।

स्फुटसारे शरीरस्य यथा गन्धोऽब्जकेसरे

॥४९॥

संविन्मात्रं विदुर्जन्तुं तस्य प्रसरणं जगत् ।

आत्मनिष्ठत्वमजगत्परमेत्युपदेशभूः

॥५०॥

नीरसो भव भावेषु सर्वेषु विभवादिषु ।

पाषाणं हृदयं कृत्वा यथा भवसि भूतये

॥५१॥

साधो हृदयसौषिर्यमसौषिर्यमिवास्तु ते ।

अचित्त्ववपुषोऽचित्त्वादुपलस्येव राघव

॥५२॥

तज्ज्ञाज्ञयोरशेषेषु भावाभावेषु कर्मसु ।

ऋते निर्वासनत्वात्तु न विशेषोऽस्ति कश्चन

॥५३॥

सत्तैवैषा विदो यत्सा भवत्युन्मिषिता जगत् ।

परं तत्त्वं निमिषता दृगिवानामकं ततम्

॥५४॥

दृश्यं विनश्यत्यखिलं विनष्टं जायते पुनः ।

यन्न नष्टं न चोत्पन्नं तत्सद्भवति तद्भवान्

॥५५॥

भावज्ञप्तिर्हि निर्मूला भावितापि न विद्यते ।

सलिलं मृगतृष्णेव न ददाति भवाङ्कुरम्

॥५६॥

यथाभूतार्थसदर्शच्छिन्नाऽहमिति भावना ।

दृष्टामि न करोत्यन्तर्दग्धं बीजमिवाङ्कुरम्

॥५७॥

कर्म कुर्वन्नकुर्वन्वा वीतरागो निरामयः ।

निर्मना नित्यनिर्वाणः पुमानात्मनि तिष्ठति

॥५८॥

चित्तोपशान्तौ संशान्ताः शान्ताये भोगबन्धवः ।

न स्वभावपरिक्षीणाश्चित्तमेषां किलाकरः

॥५९॥

अघनः केवलालोको बुधो जीवः परायते ।

स एवान्योऽप्यनन्योऽन्तरपराह्न इवातपः

॥६०॥

एकदेशस्थितात्पुंसो दूरायातस्य चेतसः ।

यद्रूपं सकलं मध्ये तद्रूपं परमात्मनः

॥६१॥

चारुचिद्व्योमकर्पूरं यच्चमत्कुरुते स्वयम् ।

अनन्तमन्तरव्यक्तं जगदित्येव वेत्ति तत्

॥६२॥

गतभवभ्रमभासुरमक्षयं

शममुपेतमुपेक्षितदीपवत् ।

स्थितमपीह जनं जगदीश्वरा-

दनुगतं ननु भाति मुदा च खे

॥६३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे सुखयोगोपदेशो नाम द्वाविंशः सर्गः ।। २२ ।।