मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — निर्वाणप्रकरणम् — पूर्वार्धम् — सर्गः ९३

3
योगवासिष्ठम् · निर्वाणप्रकरणम् — पूर्वार्धम् · 93

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीवसिष्ठ उवाच ।

अथोत्थाय ददाहासौ शुष्कं तत्तृणमन्दिरम् ।

अज्ञेन स्वेन मनसा वृथा संकल्पकल्पितम्

॥१॥

शिष्टं यत्किंचिदभवत्तत्सर्वं स शिखिध्वजः ।

असंरब्धमना मौनी क्रमेण समया धिया

॥२॥

ददाह च स चिक्षेप तत्याज च बभञ्ज वा ।

भाण्डजातं स्ववसनं भोजनाद्यपि तुष्टवत्

॥३॥

स बभूवाश्रमस्तस्य दृष्टनष्टजनस्थितिः ।

वीरभद्रबलध्वस्तदक्षयज्ञाश्रमोपमः

॥४॥

आश्रमात्ते मृगगणास्त्यक्तरोमन्थमुद्ययुः ।

साग्निदाहात्पुरवराद्भीतभीतजना इव

॥५॥

भाण्डजातं दहत्यग्नौ सहशुष्केन्धनेन तत् ।

केवलाकृतिरस्नेहस्तुष्टिमानाह भूपतिः

॥६॥

शिखिध्वज उवाच ।

वासनां तत्र संत्यज्य सर्वत्यागी स्थितो ह्यहम् ।

अहो नु चिरकालेन देवपुत्र प्रबोधितः

॥७॥

संपन्नः केवलः शुद्धः सुखेनोद्बोधवानहम् ।

किं नाम किल वस्त्वेतद्भवेत्सांकल्पिकक्रमम्

॥८॥

यावद्यावत्प्रहीयन्ते विविधा बन्धहेतवः ।

तावत्तावत्समायाति परमां निर्वृतिं मनः

॥९॥

शाम्यामि परिनिर्वामि सुखितोऽस्मि जयाम्यहम् ।

विबन्धाः प्रक्षयं याताः सर्वत्यागो मया कृतः

॥१०॥

दिगम्बरो दिक्सदनो दिक्समोऽयमहं स्थितः ।

देवपुत्र महात्यागात्किमन्यदवशिष्यते

॥११॥

कुम्भ उवाच ।

सर्वमेव न संत्यक्तं त्वया राजन् शिखिध्वज ।

सर्वत्यागपरानन्दे मा मुधाभिनयं कुरु

॥१२॥

तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।

यं परित्यज्य निःशेषं परामायास्यशोकताम्

॥१३॥

श्रीवसिष्ठ उवाच ।

इति श्रुतवता तेन किंचित्संचिन्त्य भूभृता ।

इदमुक्तं महाबाहो राम राजीवलोचन

॥१४॥

शिखिध्वज उवाच ।

इन्द्रियव्यालसंघातो रक्तमांसमयाकृतिः ।

शिष्यते सर्वसंत्यागे देहो मे देवतात्मज

॥१५॥

तदुत्थाय पुनर्देहं भृगुपातादविघ्नतः ।

विनाशात्मकतां नीत्वा सर्वत्यागी भवाम्यहम्

॥१६॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा देहमग्रस्थे श्वभ्रे त्यक्तुमसौ जवात् ।

करोति यावदुत्थानं तावत्कुम्भोऽप्युवाच ह

॥१७॥

कुम्भ उवाच ।

राजन्किमिति देहं त्वं निरागस्कं महावटे ।

त्यजस्यज्ञो हि वृषभः कुपितो हन्ति तर्णकम्

॥१८॥

जडो वराको मूकात्मा तपस्वी देहको ह्ययम् ।

न कश्चन तवैतस्मिन्मा मुधैव तनुं त्यज

॥१९॥

आत्मन्येवैष मूकात्मा ध्यानवानवतिष्ठते ।

संचाल्यते परेणैव तरङ्गेणैव काष्ठकम्

॥२०॥

क्षोभयत्यन्य एवैनं निग्रहार्हो मुहुर्बलात् ।

तपस्विनं यथैकान्तं संस्थितं मत्ततस्करः

॥२१॥

सुखदुःखादिभूत्या हि नापराधि शरीरकम् ।

नात्मनः फलवानात्मस्पन्दे वृक्षोऽपराधवान्

॥२२॥

वातः फलशिरःपुष्पपातनं कुरुते स्फुरन् ।

तरुणा साधुना धीरापराद्धं किमात्मनः

॥२३॥

त्यक्तेनापि शरीरेण किल तामरसेक्षण ।

सर्वत्यागो न ते याति निष्पत्तिं विषमो हि सः

॥२४॥

भृगौ केवलमेतत्त्वं निरागस्कं शरीरकम् ।

मुधा क्षिपसि नो देहत्यागे तत्त्यागिता भवेत्

॥२५॥

येनायं क्षोभ्यते देहो मत्तेभेनेव पादपः ।

तत्संत्यजसि चेत्पापं तन्महात्यागवान्भवान्

॥२६॥

तस्मिंस्त्यक्ते भवेत्त्यक्तं सर्वं देहादि भूपते ।

नो चेन्निमग्नमप्येतद्भूयोभूयः प्ररोहति

॥२७॥

शिखिध्वज उवाच ।

केनायं चाल्यते देहः किं बीजं जन्मकर्मणाम् ।

कस्मिंस्त्यक्ते परित्यक्तं सर्वं भवति सुन्दर

॥२८॥

कुम्भ उवाच ।

साधो न देहत्यागेन न राज्यत्यजनेन च ।

न चोटजादिशोषेण सर्वत्यागो भवेन्नृप

॥२९॥

यत्सर्वं सर्वतो यच्च तस्मिन्सर्वैककारणे ।

सर्वस्मिन्संपरित्यक्ते सर्वत्यागः कृतो भवेत्

॥३०॥

शिखिध्वज उवाच ।

सर्वं सर्वगतं सर्वहेयं त्याज्यं च सर्वदा ।

सर्वं किमुच्यते ब्रूहि सर्वतत्त्वविदां वर

॥३१॥

कुम्भ उवाच ।

साधो सर्वगताकारं जीवप्राणादिनामकम् ।

न जडं नाजडं भ्रान्तं चित्तं सर्वमिति स्मृतम्

॥३२॥

चित्तमेव भ्रमं विद्धि विद्धि चेतो नरं नृप ।

चित्तं विद्धि जगज्जालं चित्तं सर्वमिति स्मृतम्

॥३३॥

राज्यादेरथ देहादेराश्रमादेर्महीपते ।

सर्वस्यैव मनो बीजं तरुबीजं तरोरिव

॥३४॥

सर्वस्य बीजे संत्यक्ते सर्वं त्यक्तं भवत्यलम् ।

संभवासंभवाद्भूप सर्वत्यागो भवेदिति

॥३५॥

सर्वधर्माद्यधर्मा वा राज्यादि विपिनादि वा ।

सचित्तस्य परं दुःखं निश्चित्तस्य परं सुखम्

॥३६॥

इदं विवर्तते सर्वं चित्तमेव जगत्तया ।

देहाद्याकारजालेन बीजं वृक्षतया यथा

॥३७॥

पादपः पवनेनेव भूकम्पेनेव पर्वतः ।

भस्त्रा भस्त्राभरेणायं देहश्चित्तेन चाल्यते

॥३८॥

सर्वभूतोपभोगानां जरामरणजन्मनाम् ।

महामुनीनां सुदृढं चित्तं विद्धि समुद्गकम्

॥३९॥

इदं प्रवर्तते सर्वं चित्तमेव जगत्तया ।

देहाद्याकारजालेन चित्तं जीवो मनोमयम्

॥४०॥

बुद्धिर्महदहंकारः प्राणश्चेत्यादिभिर्मुने ।

क्रियानुरूपैरभिधाव्यापारैः शान्तमुच्यते

॥४१॥

चित्तं सर्वमिति प्राहुस्तस्मिंस्त्यक्ते महीपते ।

सर्वाधिव्याधिसीमान्तः सर्वत्यागः कृतो भवेत्

॥४२॥

चित्तत्यागं विदुः सर्वत्यागं त्यागविदां वर ।

तस्मिन्सिद्धे महाबाहो सत्यं किं नानुभूयते

॥४३॥

चित्ते त्यक्ते लयं याति द्वैतमैक्यं च सर्वतः ।

शिष्यते परमं शान्तमच्छमेकमनामयम्

॥४४॥

अस्याश्चित्तं विदुः क्षेत्रं संसृतेः सस्यसंततेः ।

क्षेत्रे त्वक्षेत्रतां याते शालेः क इव संभवः

॥४५॥

चित्तमेव विचित्रेहं भावाभावविलासिना ।

विवर्ततेऽर्थभावेन जलमूर्मितया यथा

॥४६॥

चित्तोत्सादनरूपेण सर्वत्यागेन भूपते ।

सर्वमासाद्यते सम्यक् साम्राज्येनेव सर्वदा

॥४७॥

सर्वत्यागस्य विषयो यथैवान्योऽस्ति ते तथा ।

त्वमप्यन्यस्य भवसि त्यागिन्गृह्णासि वै नृप

॥४८॥

सूत्रं मुक्ताफलेनेव जगज्जालं त्रिकालकम् ।

सर्वमन्तः कृतं तेन येन सर्वं समुज्झितम्

॥४९॥

येन सर्वं परित्यक्तं तस्मिञ्छून्येऽपि संस्थितम् ।

जगत्सर्वं त्रिकालस्थं तन्तौ मुक्तावली यथा

॥५०॥

अस्नेहेनेव दीपेन येन सर्वं समुज्झितम् ।

सस्नेहेनेव दीपेन तेन सर्वं प्रकाशितम्

॥५१॥

स्थितं सर्वं परित्यज्य यः शेतेऽस्नेहदीपवत् ।

स राजते प्रकाशात्मा समः सस्नेहदीपवत्

॥५२॥

समस्तवस्तुनिष्कासे यथा त्वमवशिष्यसे ।

सर्वत्यागे कृते तादृग्विज्ञानमवशिष्यते

॥५३॥

समस्तवस्तुदाहेऽपि यथा त्वं नेतरो नृप ।

सर्वत्यागत एवाङ्ग तथा निर्वाणमुच्यते

॥५४॥

सर्वत्यागो हि शून्यात्मा आश्रयः सर्वसंविदाम् ।

अनन्तानामुदाराणां खमिवेदं दिवौकसाम्

॥५५॥

सर्वत्यागरसापाने जरामरणभीतयः ।

न काश्चन प्रबाधन्ते खस्येव व्योमलेखिकाः

॥५६॥

सर्वत्यागो महत्त्वस्य कारणं निर्मलद्युतेः ।

सर्वं त्यजसि चेद्यस्माद्बुद्धिस्थैर्यं बृहत्तमम्

॥५७॥

सर्वत्यागः परानन्दो दुःखमन्यत्सुदारुणम् ।

इत्योमित्युररीकृत्य यदिच्छसि तदाचर

॥५८॥

सर्वं त्यजति यस्तस्य सर्वमेवोपतिष्ठते ।

यथैवाम्बु विशत्यग्नौ तथैवायाति वारिधौ

॥५९॥

सर्वत्यागान्तरेवास्ति ज्ञानमात्मप्रसादकम् ।

यच्छून्यं किल भाण्डस्य तत्र रत्नादि तिष्ठति

॥६०॥

सर्वत्यागवशादेव हृतकाले कलावपि ।

शाक्येन विगताशङ्कं मुनिना मेरुवत्स्थितम्

॥६१॥

सर्वत्यागो महाराज सर्वसंपत्समाश्रयः ।

न गृह्णाति हि यत्किंचित्सर्वं तस्मै प्रदीयते

॥६२॥

कृत्वा सर्वपरित्यागं शान्तः स्वस्थो वियत्समः ।

सौम्यो भवसि यद्रूपस्तद्रूपो भव भूपते

॥६३॥

सर्वं परित्यज्य महास्वभाव

त्यजस्यथो येन च तद्विहाय ।

त्यागाभिमानं च मलं विमुच्य

विमुक्तरूपो भव भूमिपाल

॥६४॥

इत्यार्षे श्रीवासिष्ठमहारामा० वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० शिखिध्वजावबोधनं नाम त्रिनवतितमः सर्गः ।। ९३ ।।