मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

योगवासिष्ठम् — स्थितिप्रकरणम् — सर्गः २१

3
योगवासिष्ठम् · स्थितिप्रकरणम् · 21

सम्प्रदायतः वाल्मीकिसम्बद्धम् — वसिष्ठरामसंवादः

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ संशयो यो महानयम् ।

हृदि व्यावर्तते लोलः कल्लोल इव सागरे

॥१॥

दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये ।

म्लाना संविन्मनोनाम्नी कुतः केयमुपस्थिता

॥२॥

यस्मादन्यन्न नामास्ति न भूतं न भविष्यति ।

कुतः कीदृक्कथं तत्र कलङ्कस्तस्य विद्यते

॥३॥

श्रीवसिष्ठ उवाच ।

साधु राम त्वया प्रोक्तं जाता ते मोक्षभागिनी ।

मतिरुत्तमनिष्यन्दा नन्दनस्येव मञ्जरी

॥४॥

पूर्वापरविचारार्थतत्परेयं मतिस्तव ।

संप्राप्स्यसि पदं प्रोच्चैर्यत्प्राप्तं शंकरादिभिः

॥५॥

प्रश्नस्यास्य तु हे राम न कालस्तव संप्रति ।

सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते

॥५॥

सिद्धान्तकाले भवता प्रष्टव्योऽहमिदं परम् ।

करामलकवत्तेन सिद्धान्तस्ते भविष्यति

॥७॥

सिद्धान्तकाले प्रश्नोक्तिरेषा तव विराजते ।

प्रावृषीव हि केकोक्तिर्युक्ता शरदि हंसगीः

॥८॥

सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये ।

प्रावृषि त्वतनूदग्रपयोदपटलोत्थितः

॥९॥

अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः ।

यद्वशाज्जनताजन्म तदाकर्णय सुव्रत

॥१०॥

एवं प्रकृतिरूपेयं मनोमननधर्मिणी ।

कर्मेति राम निर्णीतं सर्वैरेव मुमुक्षुभिः

॥११॥

शृणु दर्शनभेदेन तन्नामाभिमताकृतिम् ।

वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः

॥१२॥

यं यं भावमुपादत्ते मनो मननचञ्चलम् ।

तत्तामेति घनामोदमन्तःस्थः पवनो यथा

॥१३॥

ततस्तमेव निर्णीय तमेव च विकल्पयन् ।

अन्तःस्थया रञ्जनया रञ्जयन्स्वामहंकृतिम्

॥१४॥

तन्निश्चयमुपादाय तत्रैव रसमृच्छति ।

यन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेषु च

॥१५॥

यन्मयं हि मनो राम देहस्तदनु तद्वशः ।

तत्तामायाति गन्धान्तः पवनो गन्धतामिव

॥१६॥

बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस्ततः ।

स्फुरति स्वत एवोर्वी रजोलोल इवानिले

॥१७॥

कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रणयत्यलम् ।

कर्म निष्पद्यते स्फारं पांसुजालमिवानिले

॥१८॥

एवं हि मनसः कर्म कर्मबीजं मनः स्मृतम् ।

अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः

॥१९॥

यादृशं भावमादत्ते दृढाभ्यासवशान्मनः ।

तथा स्पन्दाख्यकर्माख्यप्रथाशाखा विमुञ्चति

॥२०॥

तथा क्रियां तत्फलतां निष्पादयति चादरात् ।

ततस्तमेव चास्वादमनुभूयाशु बध्यते

॥२१॥

यं यं भावमुपादत्ते तं तं वस्त्विति विन्दति ।

तत्तच्छ्रेयोऽन्यन्नास्तीति निश्चयोऽस्य च जायते

॥२२॥

धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि ।

मनांसि दृढभिन्नानि प्रतिपत्त्या स्वयैव च

॥२३॥

मनो वै कापिलानां तु प्रतिपत्तिनिजामलम् ।

उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः

॥२४॥

मोक्षे तु नान्यथा प्राप्तिरिति भावितचेतसः ।

स्वां दृष्टिं प्रतिबिम्बन्ति स्थिताः स्वनियमभ्रमैः

॥२५॥

वेदान्तवादिनो बुद्ध्या ब्रह्मेदमिति रूढया ।

मुक्तिः शमदमोपेता निर्णीय परिकल्पिता

॥२६॥

मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।

स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः

॥२७॥

विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमपूरया ।

मुक्तिः शमदमोपेता निर्णीय परिकल्पिता

॥२८॥

मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।

स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः

॥२९॥

आर्हतादिभिरन्यैश्च स्वयाभिमतयेच्छया ।

चित्राश्चित्रसमाचारैः कल्पिताः शास्त्रदृष्टयः

॥३०॥

निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैरिवोत्थितैः ।

स्वनिश्चितैरिति प्रौढा नानाकारा हि रीतयः

॥३१॥

सर्वासामेव चैतासां रीतीनामेवमाकरः ।

मनो नाम महाबाहो मणीनामिव सागरः

॥३२॥

न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ ।

यद्यथा परमाभ्यस्तमुपलब्धं तथैव तत्

॥३३॥

यस्त्वकृत्रिम आनन्दस्तदर्थं प्रयतैर्नरैः ।

मनस्तन्मयतां नेयं येनासौ समवाप्यते

॥३४॥

दृश्यं संपरिडिम्भं स्वं तुच्छं परिहरन्मनः ।

तज्जाभ्यां सुखदुःखाभ्यां नावश्यं परिकृष्यते

॥३५॥

अपवित्रमसद्रूपं मोहनं भयकारणम् ।

दृश्यमाभासमाभोगि बन्धमाभावयानघ

॥३६॥

मायैषा सा ह्यविद्यैषा भावनैषा भयावहा । ।

संविदस्तन्मयत्वं यत्तत्कर्मेति विदुर्बुधाः

॥३७॥

दृष्ट्वा दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः ।

प्रमार्जयेव तन्मिथ्या महामलिनकर्दमम्

॥३८॥

दृश्यतन्मयता यैषा स्वभावस्थानुभूयते ।

संसारमदिरा सेयमविद्येत्युच्यते बुधैः

॥३९॥

अनयोपहतो लोकः कल्याणं नाधिगच्छति ।

भास्वरं तापनालोकं पटलान्धेक्षणो यथा

॥४०॥

स्वयमुत्पद्यते सा च संकल्पाद्व्योमवृक्षवत् ।

असंकल्पनमात्रेण भावनायां महामते

॥४१॥

क्षीणायां स्वरसादेव विमर्शेन विलासिना ।

असंसङ्गः पदार्थेषु सर्वेषु स्थिरतां गतः

॥४२॥

सत्यदृष्टौ प्रपन्नायामसत्ये क्षयमागते ।

निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते

॥४३॥

न सत्ता यस्य नासत्ता न सुखं नापि दुःखिता ।

केवलं केवलीभावो यस्यान्तरुपलभ्यते

॥४४॥

अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ।

आत्मनोऽनन्यभूताभिरपि यः परिवर्जितः

॥४५॥

वासनाभिरनन्ताभिर्व्योमेव घनराजिभिः ।

संदिग्धायां यथा रज्ज्वां सर्पतत्त्वं तथैव हि

॥४६॥

चिदाकाशात्मना बन्धस्त्वबन्धेनैव कल्पितः ।

कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यथा

॥४७॥

तदेवान्यत्वमादत्ते खमहोरात्रयोरिव ।

यदतुच्छमनायासमनुपाधि गतभ्रमम्

॥४८॥

तत्तत्कल्पनयातीतं तत्सुखायैव कल्पते ।

शून्य एव कुसूले तु सिंहोऽस्तीति भयं यथा

॥४९॥

शून्य एव शरीरेऽन्तर्बद्धोऽस्मीति भयं तथा ।

शून्य एव कुसूले तु प्रेक्ष्य सिंहो न लभ्यते

॥५०॥

तथा संसारबन्धार्थः प्रेक्षितोऽसौ न लभ्यते ।

इदं जगदयं चाहमिति संभ्रान्तमुत्थितम्

॥५१॥

बालानां मध्यमे काले छाया वैतालिकी यथा ।

कल्पनावशतो जन्तोर्भावाभावशुभाशुभाः

॥५२॥

क्षणादसत्तामायान्ति सत्तामपि पुनः क्षणात्।

मातैव गृहिणीभावगृहीता कण्ठलम्बिनी

॥५३॥

करोति गृहिणीकार्यं सुरतानन्ददा सती ।

कान्तैव मातृभावेन गृहीता कण्ठलम्बिनी

॥५४॥

नूनं विस्मारयत्येव मन्मथं मातृभावनात् ।

भावानुसारिफलदं पदार्थौघमवेक्ष्य च

॥५५॥

न ज्ञेनेह पदार्थेषु रूपमेकमुदीर्यते ।

दृढभावनया चेतो यद्यथा भावयत्यलम्

॥५६॥

तत्तत्फलं तदाकारं तावत्कालं प्रपश्यति ।

न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा

॥५७॥

यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ।

भाविताकाशमातङ्गं व्योमहस्तितया मनः

॥५८॥

व्योमकाननमातङ्गीं व्योमस्थामनुधावति ।

तस्मात्संकल्पमेव त्वं सर्वभावमयात्मकम्

॥५९॥

त्यज राम सुषुप्तस्थः स्वात्मनैव भवात्मनः ।

मणिर्हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति

॥६०॥

न शक्तो जडभावेन नतु राम भवादृशः ।

यदात्मनि जगद्राम तवेह प्रतिबिम्बति

॥६१॥

तदवस्त्विति निर्णीय मा तेनागच्छ रञ्जनम् ।

तदेव सत्यमिति वाप्यभिन्नं परमात्मनः

॥६२॥

मत्वान्तस्त्वमनाद्यन्तं भावयात्मानमात्मना ।

चेतसि प्रतिबिम्बन्ति ये भावास्तव राघव ।

रञ्जयन्त्वन्यसक्तत्वान्मा ते त्वां स्फटिकं यथा

॥६३॥

स्फटिकममननं यथा विशन्ति

प्रकटतया न च रञ्जना विचित्रा ।

इह हि विमननं तथा विशन्तु

प्रकटतया भुवनैषणा भवन्तम्

॥६४॥